मूलम्
परचित्तैकनिरताः पुत्रादिष्वप्यसङ्गिनः । योगिनामनुकुर्वन्ति विशृङ्खलधियः खलाः ।। 3.1 ।।
टीका
इति दृप्तपद्धतिः द्वितीया
परेषां यच्चित्तम् इदं कर्तव्यमिति निश्चयः । तस्मिन्नेव निरताः पुत्रादिष्वसङ्गिनः परोपद्रवविरोधिनं पुत्रादि सङ्गम ननु वर्तमानाः विशृङ्खलधियः शास्त्रानियमित कार्यताबुद्धयः खलाः परस्य परमात्मनः यत् चित्तं विधिप्रतिषेधतात्पर्यरूपं तन्मात्र निरतानां पुत्रादि स्नेहाप्रतिबद्ध धर्मप्रवृत्तीनां यमनियमादिभिः प्रतिबन्धक दुरितक्षयात् विशृङ्खल विवेकानां योगिनां शब्दसाम्यात् वेषभाषादिभिः अपि अनुकुर्वन्ति । तावन्मात्रेण ते साधव
इति न भ्रमितव्यम् । दृढतरप्रमाणेन खलत्व साधुत्वान्यतरन्निश्चित्य खलेषु उपेक्षा साधुषु मैत्री च कर्तव्येति भावः । 3.1 ।
मूलम्
आत्मार्थं युक्तचित्तानां मित्रमण्डलभेदिनाम् । अतिलङ्घितलोकानां न बन्धः केनचित् क्वचित् ।। 3.2 ।।
टीका
स्वस्य विषयोपभोगार्थमेव कर्मनुप्रयुक्त चित्तानां मित्रमण्डल भिन्दन्ति विरुद्धाचरणेनाप्रीतं कुर्वन्तीति मित्रमण्डलभेदिनां लोकमर्यादामतिक्रम्य प्रवृत्तानां खलानां क्वचित् गुरुपुत्रादि विषयेदिके न चिदपि परमोपकारेणापि बन्धो नास्ति बन्धः स्नेहः । अर्थान्तरं प्रतीयते । आत्मार्थम् उद्धरेदात्मनात्मानं नात्मानम् अवसादयेत् इत्युक्तात्मोद्धारणार्थं न शरीरमात्रपोषार्थमुक्तचित्तानां कर्मयोग संस्कृत चेतसां शरीरावसाने सूर्यमण्डलभेदिनाम् अग्न्यादिभिः आतिवाहिक सुरैः स्वस्वलोकेभ्य उपरितनानां देव-तिर्यङ्-मनुष्य-स्थावराणाम् अन्यतम शरीरे केनचित् कर्मणा प्रतिषिद्धेनापि न बन्धः न स्वैरगति प्रतिबन्धः साधुत्वासाधुत्वानुमित्यर्थः तत् ज्ञापकोक्तिः । 3.2 ।
मूलम्
स्नेहश्शैत्यं प्रसादश्च कोशत्यागश्च जायते । आसन्न परपीडार्थं निस्त्रिंशस्यासितात्मनः ।। 3.3 ।।
टीका
असितात्मनः कलुषित स्वभावस्य कुत्रापि स्नेहबन्धरहित स्वभावस्येति चार्थः । षिङ् बन्ध इति धातुः । हितोपदेशादिभिः अच्छिन्न स्वभावस्य षो अन्तकर्मणि इिति धातुः । निस्त्रिंशस्य नृशंस खड्गा निस्त्रिंशावित्यमरः । आसन्न परपीडार्थमेव स्नेहः अनुरागः शैत्यं मृदुवाक्यप्रयोगः प्रसादः प्रीतिव्यञ्जकं सौम्यावलोकनं कोशत्यागः बह्वर्थदानं च जायते । न तु प्रीतिबाहुल्यरूपस्य सामग्री महिम्ना जायन्ते । स्वेनशब्देन तत्कार्यमुच्यते । खलस्य वस्तुतोनुरागाभावात् तस्मादेव तानपि प्रीत्यनुरागौ हेत्वाभासाविति भावः । अर्थान्तरं प्रतीयते । असितात्मनः कृष्णवर्णस्य असिता असित्वं तदेव आत्मास्वरूपं यस्य निस्त्रिंशस्य खड्गस्य आसन्न शत्रुपीडार्थमेव स्नेहः तैलाभ्यञ्जनं शैत्यं शीतता तीक्ष्ण धारत प्रसादः प्रतिफलनानुगुणं नैर्मल्यं कोशत्यागः अपि धानप्रहाणश्च जायते । 3.3 ।
मूलम्
जनित्वापि महावंशे निम्नगा वक्रचेष्टिताः । वैपरीत्यं वितन्वन्ति समेषु विषमेषु च ।। 3.4 ।।
टीका
निम्नान् नीचान् गच्छन्ति परिचिन्वन्तीति निम्नगाः । वक्रचेष्टिताः अन्यदुक्त्वा अन्यत्कुर्वन्तीत्यर्थः । दुष्टाः महावंशे जनित्वापि समेषु विषमेषु चानुकूलेषु प्रतिकूलेषु च वैपरीत्यं वितन्वन्ति । महावंशप्रसूतेष्वपि नीचपरिचयादिकं खलत्वानुमिति क्षममिति भावः । अर्थान्तरं प्रतीयते । महान्तः वंशाः वेणवः यस्मिन् तस्मिन् पर्वते जनित्वापि वक्रगतयो नद्यः समदेशेषु विषमदेशेषु च वैपरीत्यं प्रतिलोमगतिं वितन्वन्ति । 3.4 ।
मूलम्
उत्पथादुन्नताः केचित् बहुभङ्गभ्रमाकुलाः । तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ।। 3.5 ।।
टीका
उत्पथात् उत्क्रान्तवधात् शास्त्रानियमितात् उन्नताः ऐश्वर्यलोभेन गर्विताः बहूनां पुरुषाणां भङ्गैः भञ्जनैः भ्रमैर्विपरीतज्ञानैश्च आकुलाः सम्भ्रमभाजः तरसा झटिति अनालोच्यैव भिन्नसेतवः त्यक्तव्यवस्थाः केचित् हीनकुलप्रसूताः पुरुषाः तटस्थानपि पक्षपातरहितानपि निघ्नन्ति बाधन्ते । एतादृशाः दूरतः परिहार्या इति भावः ।
अर्थान्तरं प्रतीयते । उत्पथात् पात्रबहिर्भूतमार्गात् उन्नताः प्रसिद्धाः बहुभिः भङ्गैः तरङ्गैः भ्रमैरावर्तैश्च आकुलाः अनेक रूपाः तरसा वेगेन भिन्नसेतवः नाशित सेतुबन्धाः केचित् प्रवाहाः तटस्थानपि तीरगतानपि बाधन्ते । किमुत तटौदन्तरवतीर्णानित्यपि शब्दार्थः । 3.5 ।
मूलम्
केनचिद्दान्तकृत्येन कुलगोत्रविमर्दिना । मदेन बहुधा भिन्नं मातङ्गं मन्यते जनः ।। 3.6 ।।
टीका
जनः केनचित्दान्तकृत्येन असत्पुरुषो न बहून् धर्मान् करोति । किन्तु कदाचित् किञ्चिदेवेति सूचयति । केनचिचछब्दः दान्तानां नियतेन्द्रियाणां कृत्यं धर्माचरणं विवाहाद्यर्थ ब्राह्मणभोजनादिना केनचिद्धर्मकृत्ये न कुलानि कुटुम्बानि गोत्राणि सगोत्र कुटुम्बान् च बाधमानं धनबुद्धिधर्माचरणादि साधनभेदात् बहुप्रकारेण गर्वेण भिन्नं विकृतिं गतं पुरुषं मातङ्गं चण्डालं मन्यते । गुरोः कुलेन भिद्येत न ज्ञान कुलबन्धुष्विति प्रयोगानुरोधात् कुलशब्दोऽत्र तेन न गोत्र शब्द पौनरुक्त्यम् । असतां धर्मबुद्धिश्चेत् सतां सन्तापकारणम् इत्यर्थे तात्पर्यं केनचिदित्यनेन प्रमाणौ प्रसिद्धत्वम् असत्पुरुषधर्मस्य सूचितम् । सब्राह्मणान् परिहृत्य नटविटगायकाद्यपथ प्रवृत्त सन्तर्पणं हिन केनचित् प्रमाणेन धर्मत्वेन बोध्यते । प्रत्युत प्रतिषिध्यते । प्रतिपादयता तीर्थे — यता चा तीर्थे इत्यापस्तम्ब स्मरणात् न वार्यपि प्रयच्छेत्तु बैडालप्रतिके द्विजे न बकप्रतिके पापेनावेददविधि धर्मविदिति । मनुस्मरणात् स्वाभिप्रायकृतं कर्म यत् किञ्चिद्विधिवर्जित क्रीडाकर्मेव बालानां तत्सर्वं स्यान्निरर्थकमिति स्मृत्यनुरोधात् मूलप्रमाणं सम्यक् परिशोध्यैव परानुपरोधेन धर्मः कर्तव्यः । न विस्मयेत तपसेऽति शास्त्रानुरोधात् गर्वोऽपि इत्यपि सूचितम् । जन इत्यनेन जातमात्रावस्थो गुरुभिः अशिक्षितमतिर्यत् जातिरपीति सूचितं मातङ्गमित्यनेन मातङ्गनाम्नः कस्य वचनकारिणः रथवाहिनं तु दतः बाध्यमानं स्वपुत्रं प्रति चण़्डालत्वोपदेशावगतो वृत्तान्तः सूचितः । तथा हि महाभारते निरुपाधिक हिंसायाः चण्डालस्वभावत्वं सुव्यक्तमुक्तम् । चण्डालशब्दस्य चण्डिकोप इति धातुनिष्पन्नस्य अवयवार्थ एव कोपकार्यस्य चण्डालस्वभावत्वं बोधयति । अर्थान्तरं प्रतीयते । केनचित् दन्तसाध्यकर्मलाकुलाचल विभेदिनं बहुप्रकारेण मदेन विकृतं मातङ्गं गजं मन्यते । 3.6 ।
मूलम्
अनेकमुखपापात्मा छद्मसन्दर्शितोश्रमः । कर्बुरः प्रकृतिः कश्चित् कापेयकलहोचितः ।। 3.7 ।।
टीका
बहुमुख पापेषु कर्तव्यता निश्चयवानयं कपटेन आश्रमं श्रमाभावं निर्व्यापारतां प्रकटयन् कपटावबोधित ब्रह्मचर्याद्याश्रमधर्मश्चरण कर्बुरप्रकृतिः रजस्तमोमिश्रस्वभावः कश्चित् सत्पुरुषा सम्प्रतिपन्नमकापे यस्य चपल कृत्यस्य कलहस्य च योग्यः । अर्थान्तरं प्रतीयते । अनेकमुखश्चासौ पापात्मा चेति विग्रहः । कपटेन सन्दर्शित सन्न्यासाश्रम सम्बन्धः कर्बुरप्रकृतिः राक्षसानां प्रकृतिरिव प्रकृतिर्यस्य सः । कश्चिद्रावणः कापेयस्य कपिसमूहस्य यः कलहन्तीदुचित इति । 3.7 ।
मूलम्
छलिनं सत्कथानर्हं स्वात्मोपहतजातिकं । न निगृह्णाति यः काले सोऽपि सभ्यैर्निगृह्यते ।। 3.8 ।।
टीका
स्वात्मोपहत जातिकं स्वभावेनैव दूषित जातिकम् । तस्मात् शूद्रो यज्ञेन कर्तृत्वे इत्यादिना अपकृष्टजातेः उत्कृष्टजाति धर्मान् अधिकृतत्वेन निन्दितत्वात् अत एव सत्कथानर्हं सताम् उत्कृष्टानां कथयाः वेदविचारादि रूपायाः अनर्हं तथापि छलिनम् अन्यविषय वाक्यस्य स्वविषयत्वाध्यारोपेण उत्कृष्टजाति धर्मान् आचरन्तं यो राजान्यो वा निग्रहानुग्रहयोः अधिकृतः पुरुषः काल्ये अविलम्बित कालेन निगृह्णाति स राजादिरपि सभ्यैः निगृह्यते
। तद्दोषादयमनर्थः प्राप्त इत्याक्रुष्यते । अर्थान्तरं प्रतीयते । छलिनं कपटिनं सन्नयमिति कथाया अनर्हं स्वात्मना स्वबुद्ध्यैव उपहतजन्मानं यं स निग्रहकाले पापित्वज्ञान समनन्तर कालमेव न निगृह्णाति । सोऽपि सभ्यैः निगृह्यते । छलिनं वादिवाक्यस्य अर्थान्तरं कृत्वा दूषणं वदन्तम् अव्यवधानेन यो न निगृह्णाति निग्रहस्थानोः भावनेन दूषयति । सोऽपि सभ्यैः निगृह्यते । झलरूप दोषान् उद्भावनात्मनानि ग्रहस्थानेन दूष्यते वादिनः प्रतिवादिवाक्यगत दोषप्रतिभासनां वादिनः सभ्य निगृह्यतायाः स्थानं प्रतिवादी तु स्ववाक्यगत दोषान् उद्भावनेऽपि वादिनं निग्रहितुं नार्हतीति तथा स्वात्मना स्वासाधारण लक्षणेन असदुत्तरत्वस्य व्याघातकत्वादिना उपहतजातिकं वादिवाक्य दूषणासमर्थकृता सदुत्तरं प्रतिवादिनं यो वादकादेन निगृह्णाति जातित्योद्भानवेन दूषयति स वाद्यपि सभ्यैः निगृह्यते । स्व व्याघातकत्वं जातित्वमित्याचार्याः असदुत्तरं जातिरिति तद्भाषा अपि शब्दः प्रतिवादिनोऽपि सभ्य निग्राह्यतायां सूचयति । तथा असत्कथानर्हवादिनं यः प्रतिवादी न निगृह्णाति असाधुत्वोद्भावनेन न दूषयति । सोऽपि सभ्यैः निगृह्यते । अपि शब्दो वादिनोऽपि सभ्य निग्राह्यतां सूचयति । कथा पञ्चावयव वाक्यप्रयोगः तस्यास्सत्त्वं गुणदोषाभावश्च अनुकूल तर्कादिभावरूप सहकारि गुणः उपाधि व्यभिचाराद्यभावो भावरूपं कारणं दोषाभावः । 3.8 ।
मूलम्
निगिरन्तो जगत्प्राणान् उद्गिरन्तो विषम्मुखैः । दूरतः परिहर्तव्या द्विजिह्वा जिह्मवृत्तयः ।। 3.9 ।।
टीका
जगतां प्राणान् प्राणधारणहेतुभूतान् गृह क्षेत्र पशु धन धान्यादीन् निगिरन्तः भक्षयन्तः लोपयन्तः तत्र हेतुमाह । विषम्मुखैः उद्गिरन्त इति बाधकत्वेन विषसदृशं पैशुन्यवाक्यं वदन्त इत्यर्थः । परस्परविरुद्धे द्वै वाक्ये जिह्वायां येषां ते द्विजिह्वाः खलाः हि हस्तप्राप्तिपर्यन्तं न बाधिष्य इति ब्रूते स्वहस्तप्राप्त्यनन्तरं स्फुटमेव बाधन्ते । जिह्मवृत्ताः कुटिलव्यापाराः खलाः दूरतः परिहर्तव्याः । यावद्दूरं गतान् बाधितुं न क्षन्ते तावद्दूरं गत्वा परिहर्तव्या इत्यर्थः । अर्थान्तरं प्रतीयते । जगत्प्राणान् वायून् निगिरन्तः भक्षयन्तः मुखैर्विषमुद्गिरन्तः वमन्तः जिह्मवृत्तयः कुटिलगतयो द्विजिह्वाः सर्पान् दूरतः परिहर्तव्या इति । जगत्प्राणस्समिरण इत्यमरः । 3.9 ।
मूलम्
अकिञ्चित्कारिणां दीनैः आक्रुष्ट गुणकर्मणाम् । अघाय गतसत्त्वानां दर्शनस्पर्शनादिकम् ।। 3.10 ।।
टीका
किञ्चिदप्यनुकूलमकुर्वतां दीनैः बाधितैः अति क्रूरोऽयं पीडयति इत्याक्रुष्ट गुणकर्मणां नष्ट सत्वगुणानां दर्शनस्पर्शनादिकम् अघाय दुःखाय । अर्थान्तरं प्रतीयते । अकिञ्चित्कारिणां किञ्चिदपि कर्मा कुर्वताम् इष्ट मरणेन बन्धुभिः आक्रुष्ट गुणकर्मणाम् उच्चैरुक्त सद्गुणकर्मणां गतसत्त्वानां गतजीवानां शवानां दर्शन स्पर्शनादिकम् अघाय अशुचित्वाय केवलम् । न किञ्चित्फलं ततः प्राप्त्यत इत्यर्थः । 3.10 ।
मूलम्
अधिकोन्नतैरपि सुदारुणान्वितै- रसकृत् भ्रमत् पशुगणाङ्घ्रिपीडितैः । विधिसिद्धनैक गुणसस्य सम्पदां विरसैस्वभाव कठिनैरलं खलैः ।। 3.11 ।।
टीका
धनधान्यादि सम्पदात्यन्ताशयितैरपि अतिक्रूर पुरुषान्तरान्वितैरसकृताप्रीतिजनकेन मिथ्यावचनादिना भ्रमादि पशुगणैः जडस्तोमैः अङ्घ्र्योश्चरणयोः पीडितैः विमर्दितैः विरसैः स्नेहलेशरहितैः स्वभावतः उपाधिं विना कठिनै निर्दयैः खलैः दुर्जनैः विधिसिद्धनैक गुणसस्य सम्पदां न्यायागता बहुगुण सस्यसम्पत् ऐश्वर्यं येषां तेषां पुंसा अलु न किञ्चित्प्रयोजनं तैः सम्भाषणादि न कर्तव्यमिति वारणार्थः । अलं शब्दः । अर्थान्तरं प्रतीयते । अधिकोन्नतैः
केदाराद्यपेक्षया अत्यन्तोन्नतैः मेधी सम्यकेन शोभनदारुणाकाष्ठेन अन्वितैः असकृत्पानः पुण्येन भ्रमतः पशुगणस्याङ्घ्रिभिः पीडितैः विरसैः निर्जलैः प्रकृत्या कठिनैः दृढतरैः खलैः धान्यफलाल विवेचनदेशैः विधिसिद्धानां व्यापारेण साधितानां नैक गुणानां बहुविधरूपरसादीनां सस्यसम्पदां सम्पन्न सस्यानाम् अलं पर्याप्तं धान्य सिद्ध्यर्थो व्यापारनिश्चयस्समाप्त इत्यर्थः । 3.11 ।
मूलम्
मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरं बन्धे गाढविमर्दिने च न जहत्यन्योन्य सम्पीडनम् । उष्णे शीतलतामु उपेत्य शिशिरे प्राप्ते भजत्युष्णतां कामान्तः पुरचेटिकाकुचतटी काठिन्यवन्तः खलाः ।। 3.12 ।।
टीका
आहारत्यागपूर्वकम् अनुवर्तिता अपि तद्वृत्त्यै तदासिकायै अन्तरमवकाशं कालं न दिशन्ति । सर्वमपि कालं यथा व्याकुला भवन्ति तथा कुर्वन्तीत्यर्थः । रज्वादिभिः बन्धने कृतेऽपि मुष्टिदण्डक शाठिभिः मर्दने कृतेऽपि अन्योन्य सम्पीडनं न जहति । खलः खलान्तं बाधते । तेन बाध्यते चेत्यर्थः । उष्णे क्रूरे पुरुषे शीतलतां मृदुतामनुनयमुपेत्य शिशिरे प्रियवादिनि जने प्राप्ते उष्णतां क्रूरतां भजन्ति कामान्तः पुरचेटिका कुचतटिनां यत्काठिन्यं तद्वन्तो भवन्ति । न हि मन्द सौन्दर्याः तरुण्यः कामान्तः पुरचेटिकाभावमर्हन्ति इति तत् कुचतटीकाठिन्यमिति प्रकृष्टमिति खलकाठिन्ये तत्सादृश्योक्तिः । यथा तत् कुचतटी मृदुत्वलेशमपि न सहते तथा खलाः अपि दयालेशं न सहन्ते इति सादृश्योक्तिः । त्रिष्वपि पदेषु कुचधर्मोऽपि प्रतीयते । मुक्ताहारेण मौक्तिकमालया निषेविता अपि कुचतटी हारस्थित्यर्थमपि अन्तराळदेशं न दिशति । बन्धे निचोलबन्धेषिकर विमर्दनेऽपि अन्योन्य सङ्घर्ष न त्यजति । उष्णे घर्मकाले शीतस्पर्शं प्राप्य शिशिरकाले उष्णस्पर्शं भजति इति एवमपि सादृस्यमस्ति इत्यर्थः । 3.12 ।