मूलम्
तदेव गृह्यतां नाम छागमण्डूकरासभैः । तिसृणां तावता हन्त मूर्तीनां किमिहागतम् ।। 2.1 ।।
टीका
श्री सुभाषितनीव्याम् अनिपुणपद्धतिः प्रथमाङ्कम्
तिसृणां मूर्तीनां यन्नाम अज हर्यादिकं तन्नामैव छागमण्डूकरासभैः गृह्यतां तावता तिसृणां मूर्तीनां किमवद्यमागतम् । फल निष्पत्तिमनालोच्यैव परपरिभवे दृप्तः प्रवर्तित इति भावः । 2.1 ।
मूलम्
अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः । नीलकण्ठाश्च शैलेषु निवसन्तु नते न ते ।। 2.2 ।।
टीका
अण्डजाः भृङ्गहंसाद्याः पुण्डरीकेषु निवसन्तु । तेन पुण्डरीकवासे नते न भवन्ति । कमलासनाः न भवन्ति । जनार्दनाः बाधकाः ग्राहा इति सम्प्रदायः असुरादयो व समुद्र निवासमात्रेण विष्णुतुल्या न भवन्ति । नीलकण्ठा मयूराश्च शैलनिवासमात्रेण नीलकण्ठतुल्या न भवन्ति । रुद्र तुल्या न भवन्ति । अण्डज जनार्दन नीलकण्ठ शब्दाद्व्यर्थाः तन्नामसाम्येऽपि क्रियालेशसाम्येऽपि तादृश माहात्म्यासिद्धिरिति भावः । 2.2 ।
मूलम्
कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वतः । अभित्ति विहितालम्बमालोकं विलिखेत् कथम् ।। 2.3 ।।
टीका
भास्वतः ज्ञानातिशयेन भासमानस्य पुरुषस्य संस्थानम् आकाररूपं च कुण्डलाङ्गुलीयादि शोभाभिः भित्तिप्राये पुरुषे कश्चिद्विलिखतु अभित्ति विहितालम्बम् अभित्ति प्राये पुरुषे कृत सम्बन्धम् आलोकम् उत्कृष्टं ज्ञानं कथं सम्पादयेत् । अभित्त्या अभेदेन अविशेषेण ललितेषु कठिनेषु चार्थेषु कृत सम्बन्धं ज्ञानोत्कर्षं कथं सम्पादयेत् । भास्वतः सूर्यस्य आलोकम् आतपमिति च अर्थः । 2.3 ।
मूलम्
अपि सत्पथनिष्ठानाम् आशाः पूरयतामपि । अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ।। 2.4 ।।
टीका
अगस्त्यः यथा सत्पथनिष्ठः सत्पुरुषाणां पथिविहितानुष्ठान निन्दिताकारणरूपस्थितः यथाचाशाः पूरयति । समुद्रपानार्थं देवानामिच्छा फलानि करोति । तद्वत् शब्दमात्र साम्येन सत्पथनिष्ठानां नक्षत्रमार्गस्थितानाम् आशाः दिशः पूरयतां छादयतामपि मेघानाम् अगस्त्यवृत्ति समुद्रजलपानरूपम् अगस्त्यानुकरणम् मालिन्यकारणं कृष्णवर्ण कारणं हन्तेति खेदे । शक्यैः कर्मभिः कतिपयैः महापुरुषानुकरण स्वदोषत्वेऽपि अशक्य कर्म विशेषानुकारणमय शस्करमिति भावः । 2.4 ।
मूलम्
अस्तु तावदगस्त्यस्य जह्नोर्महिमनिह्नवः । का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ।। 2.5 ।।
टीका
जह्नुः महिमातिशयितोऽपि अगस्त्यस्य महिमा भगवन् महिम्नोऽप्यकृष्टः । यथा तथा भगवद्व्यतिरिक्तस्य सर्वस्याप्युत्कर्षस्य सर्वातिशायित्वाभावेन परस्वभावानाम् आलोच्यतञ्च एतच्चरितानुकरणे धीमतादर्पेण न प्रवर्तिकव्यमिति भावः । 2.5 ।
मूलम्
दष्टसारङ्गयूथोऽपि दंष्ट्रानखरवानपि । भूभृत्कटकसंस्थोऽपि सारमेयो न सिंहति ।। 2.6 ।।
टीका
सिंहो यथा दष्टसारङ्गयूथः निहतमत्तगजयूथः दंष्ट्रानखरवान् भूभृत्कटकसंस्थः पर्वतनितम्बस्संस्थश्च तथा सारमेयः दष्टसारङ्गयूथोऽपि दंष्ट्रानखरवानपि भूभृत्कटकसंस्थोऽपि राज्ञां सेनानिवेशे स्थितोऽपि न सिंहति सिंहवन्नाचरति । सारङ्गश्चातकेभ्यङ्गे च मतङ्गे इति विश्वः । साधनसाम्येऽपि तत्कृत शत्रुसंहारसाम्येऽपि तत्कृत बहुमति साम्ये कर्मान्तरे साध्याभावात् पक्वतोत्कृष्ट कर्मान्तरे तज्जये वा दर्पेण वा न प्रवर्तितव्यमिति भावः । 2.6 ।
मूलम्
सत्पथे बाधयन् मित्रमपि व्यालस्तमोमयः । अतीतपर्वा जगतामदृश्यस्सहसा भवेत् ।। 2.7 ।।
टीका
सत्पथे सत्पुरुषाणां मार्गे वर्तमानं मित्रं सुकृतं बाधयन् तत्कृतमुपकारम् अप्रकाशयन् तमोमयः तमोगुणप्रचुरः व्यालः दुष्टः अतीतपर्वालङ्घित मर्यादः जगता सहसा अदृश्यः द्रष्टुमनर्हः भवेत् । तस्मान्मित्रकृतम् उपकारं प्रकाशयेत् । प्रतिकूलो न भवेत् । तामसीवासना निवर्तनीया मर्यादानलङ्घनीयेति भावः । अर्थान्तरं प्रतीयते । सत्पथे नक्षत्रपथे वर्तमानं मित्रं सूर्यं बाधयन् तमोमयः तमः राहुः । स्वार्थेमयट् । अन्धकारप्रचुर इति वा व्यालः सर्पः राहुः अतीतपर्वकालस्सहसा जगतामदृश्यो भवेत् । अमावास्यावसाने द्रष्टुम् अशक्यो भवेत् । सुलभान् सुरासुरसूर्यं तमसा विध्यदिति श्रुतिः । 2.7 ।
मूलम्
धुर्याणामपि सत्कार्य गुणशालिविमर्दिनाम् । अनागमविदां युक्तमपनीतेर्निवारणम् ।। 2.8 ।।
टीका
धूर्भारः प्रयाससाध्यं कार्यमित्यर्थः । तद्वहतामपि सत्कार्यगुणशाली विमर्दिनां सन्तश्शोभनाः कार्यगुणाः दर्शपूर्णमासादयो दयादयश्च तद्वतो विमर्द्नन्ति बाधयन्त इति सत्कार्यगुणशालि विमर्दिनः तेषाम् अनागमविदाम् अविदित शास्त्राणां परिगृहीत पक्षसाधन समर्थानां सद्रूपं यत्कार्यं घटादि रूपादि गुणशाली च तद्विमर्दिनाम् असन्नेव घटादि निर्गुण उत्पद्यति इति पक्षावदं —भेन युक्त्याभासैः बाधमानानां सदेव सोम्येदमग्र आसीदित्याति सत्कार्यवादं कथमस्तस्सञ्जायतेत्यसत्कार्यवाद निरासज्ञानतामपनीतेरपन्यायान्निवारणं युक्तमिति । 2.8 ।
मूलम्
बलोत्तरेण हरिणा नागमल्लविभेदिना । सृगालः साम्यमाकाङ्क्षन् शौर्याधिक्यं न विन्दति ।। 2.9 ।।
टीका
बलोत्तरेण सत्वाधिकेन सत्वाधिको मृगारातिः अमरः । अवयवार्थमात्रेण विवक्षया शब्दान्तरप्रयोगः । नागमल्लविभेदिना गजश्रेष्ठघातिना हरिणा सिंहेन साम्यमाकाङ्क्षन् सृगालः क्रोष्टा आकाङ्क्षामात्रेण शौर्यकृतमाधिक्यं न विन्दति । अर्थान्तरं प्रतीयते । बलोत्तरेण बलभद्रानुजेन नागमल्लविभेदिना नागाः कुवलयापीडकालियाद्याः मल्लाः चाणूरमुष्टिकाद्याः तान् विदारयता हरिणा कृष्णेन साम्यमाकाङ्क्षन् सृगालसदृशः पौण्ड्रकादि शौरौ कृष्णे यदाधिक्यं स्वेतर समस्त चेतनाचेतनोत्कृष्टत्वं तन्न विन्दति । अर्थान्तरं प्रतीयते । बलोत्तरेण नागमल्लविभेदिना अगमल्लाः वृक्षश्रेष्ठाः पर्वतश्रेष्ठाश्च तान् विदारयता हरिणा रामेण साम्यं सदृशत्वं मया सीतया साहित्यं च आकाङ्क्षं न सृगालः नेति नृशब्दस्य प्रथमैकवचनान्तरूपं तस्मिन् सृगालत्वारोपो व्यस्तरूपकं शौर्यकृतमाधिक्यं न विन्दति । यदन्तरं सिंहसृगालयोः वन इति स्मारितम् । सज्जनप्रसिद्धं तारतम्यम् अनादृत्यापि मोघेच्छाजनकत्वादर्पो महादोषो अयत्नतः परिहर्तव्य इति भावः । 2.9 ।
मूलम्
सुदर्शनभृता कश्चित् अजहत्कीर्तिमत्सरः । महाशान्तपदाकर्षी जलजन्तुर्निगृह्यते ।। 2.10 ।।
टीका
अजहत्कीर्तौ अनश्यद्यशसि मत्सरो द्वेषो यस्य सः महाशान्तानां काष्ठागतं शान्तिगुणनिष्ठानां पदं स्थानं श्रीरङ्गादिकम् आकर्षति बाधत इति महाशान्तपदाकर्षी जलः सन्तो न बाधितव्या इति विवेकरहितः जन्तुः जातमात मात्रावस्थः गुरुभिः अशिक्षित कश्चित् स्वपक्षस्थापना समर्थतया प्रसिद्धः प्रबोधचन्द्रोदयकारादिः सुदर्शनभृता उपपत्तिमत्तया शोभनं रामानुजदर्शनं बिभ्रता एतत् ग्रन्थ कृतैव निगृह्यते । अर्थान्तरं प्रतीयते ।
कीर्तिमत् पङ्कवत् सरः अजहत् नाभ्यस्ताच्छतुरिति नुमागमाभावः । महाशान्तस्य तन्नाम्नो गजस्य पदं चरणमाकर्षतीति तथोक्तः कश्चिज्जलजन्तुः ग्राहः सुदर्शनभृता चक्रभृता भगवता निगृह्यत इति । अर्थान्तरं च । महाशान्तानां सतां पदं स्वभावः चक्रादि लाञ्झनोर्ध्वपुण्ड्रधारण निवेदित भोजनादिकम् आकर्षति युक्त्यभासैर्दूषयतीति तथोक्तो जलजन्तुः कश्चित्सुदर्शनभृता चक्रादि लाञ्छनभृता निगृह्यते । सत्पुरुषावमान हेतुतया निग्रह प्रयोजकतया च दर्पः परिहरणीय इति भावः । 2.10 ।
मूलम्
गतिर्व्योम्ना किं तत् गरुडमभिटेकेत चटकः पिबत्वम्बः क्षारं न खलु कलशीसूनुरलसः । कलः कण्ठे नादः क इव मशके किन्नरपतेः कथञ्चित् साधर्म्यं क्षिपति न हि वैधर्म्य नियमः ।। 2.11 ।।
टीका
चटकः कळविङ्कनामा क्षुद्रपक्षिविशेषः तस्य गरुडस्य च गतिर्यद्यपि व्योम्ना तुल्या तथापि तत्ततो हेतोर्गत्याधारसाम्याच्छटको गरुडं योद्धुमभिगच्छेत् किम् । बलसाम्यं हि युद्धायाभिगमनं प्रयोजयति न प्रयोजधर्मान्तर साम्यं लोकेभियातारो यद्धर्म साम्यादभियान्ति तदेव पर्यालोच्याभियातव्यमिति भावः । पिबत्वति ——— किञ्चित् कर्मस्य चिह्नदोषमावहति इति तावन्मात्रेण तस्मिन् कर्मणि धीमता न प्रवर्तितव्यं । किन्तु स्वशक्तिः पर्यालोच्यैव । पूर्वस्मिन् उदाहरणे परशक्ति पर्यालोचनीयेति सूचितम् । इह तुस्वशक्तिरपि इति भेदः । किन्नरपतेः कण्ठे कळाः नादाः परस्पर विलक्षणाः बहवः सन्ति तेषां मध्येधिको नादो मशकेऽस्ति । तृभ्यः पादेभ्यो निर्गळितमर्थमाह । कथञ्चिदिति । जलवह्न्यादीनां प्रमेयत्वादि साधर्म्यं न हि शीतोष्णादि वैधर्म्यं साधत इति भावः । 2.11 ।
मूलम्
निमीलयतु लोचने न हि तिरस्कृतो भास्करः श्रवस्थगयतु ध्रुवं परभृतः किमु ध्वाङ्क्षति । स्वयं भ्रमतु बालिशो न खलु बम्भ्रमीति क्षतिः कदर्थयतु मुष्टिभिः कथय किन्नभः क्षुभ्यते ।। 2.12 ।।
टीका
नैषस्थानोरपराधो यदेनमन्धो न पश्यतीति न्यायात् गुणास्फूर्तिं परत्र परदोषारोपः परत्र स्वदोषानुमति भ्रमस्साधन साधर्म्यमात्रेणासाध्ये साध्यता भ्रमश्चादर्शन (स्व) प्रयुक्त स्वस्यैव दोषः न तु दृश्यस्तथाविध इति पाद चतुष्कार्थः । तस्मात् पक्षम् अविचार्य साधर्म्यमात्रेण हेत्वाभासेन गुणदोषानानुवर्ताविति भावः । 2.12 ।