01 अनिपुणपद्धतिः

मूलम्

प्रथमसुजनाय पुंसे मह्यमपि प्रथमदुर्जनाय नमः । सर्वं हतः कृतं यौ सकृदुपकारापकाराभ्याम् ।। 1.1 ।।

टीका

निगममौळिगुरोश्चरणाब्जयोर्विरचित प्रणतिर्नरकेसरी ।
तदुपदिष्ट सुभाषितनीविका विवृतिमातनुते सुधियां मुदे ।।
शिष्यहितोपदेशरूपां सुभाषितनीवीं चिकीर्षन्नादौ भगवन्तं नमस्करोति । प्रथमसुजनाय पुंसे नमः प्रथमदुर्जनाय मह्यमपि नम इत्यन्वयः । कुर्व इति शेषः । सौजन्यमानुकूल्यं प्रथमत्वं मुख्यत्वम् । प्रथमश्चासौ सुजनश्चेति विग्रहः । सर्वोत्तमानुकूलायेत्यर्थः । प्रतियोगिनो विशिष्यानुपादानात् निष्प्रतियोगिकमानुकूल्यं प्रतीयते । निष्प्रतियोगिक सत्यानुकूल्यस्यासिद्धेः । आक्षेपस्य विनिगमनाविरहेण सर्व विषयत्वात् अनुकूलत्वं हि सुखप्रयोजकत्वं दुःखनिवर्तकत्वं वा तस्मादचेतनं प्रतियोगितया नाश्लिष्यते । अयोग्यत्वात् किन्तु सर्वं चेतनजातम् । रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । कोह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयातीति श्रुतिः । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छतीति स्मृतिः । पिताहमस्य जगत इत्यादि च । सर्वभूत सुहृदं दयानिधिम् इत्यादीन्यभियुक्त वचनान्यस्मिन् अर्थे प्रमाणम् । भगवन्नमस्कारः किमर्थमिह क्रियत इति चेत् सर्वमङ्गळ माङ्गळ्यं वरेण्यं वरदं शुभम् । नारायणन्नमस्कृत्य सर्व कर्माणि कारयेदिति महर्षिवचनेन सर्वकर्मादौ कर्तव्यतया विहितत्वात् प्रबन्धनिर्माणादौ क्रियते । ननु प्रबन्धनिर्माणादौ देवता नमस्कारः कर्तव्यश्चेत् देवतागारं प्रविश्यकामन्नमस्कारः क्रियताम् । किमर्थमभिलाप इति चेत् । नारायणन्नमस्कृत्येति स्मृतिवचने वाङ्मनःकायजन्यस्य त्रिविधस्यापि नमस्कारश्च कर्तव्यमभिप्रेतमिति आचार्याणामाशयः । एतमेवाभिप्रायमाविष्कर्तुं तादृश पद्यनिर्माणं दिव्यप्रबन्धमध्ये निवेशः । किञ्चित् वाचिक नमस्कारस्य पद्यरूपस्य करणे प्रबन्धमध्यनिवेशे च सति शिष्यैरपि प्रबन्धं पठद्भिर्वाचिक नमस्कारः कृतस्यादित्याभिप्रेत्य पद्यनिर्माणं तस्य पदस्यादौ निवेशश्च इतरत्रासम्भावितस्य सर्वातिशयित सौजन्यनिरूपस्यासाधारणगुणगणस्याभिधानादेवावगतस्य नारायणस्य भङ्ग्यन्तरेण पुंस इति सामान्यशब्देनाभिधानात् पर्यायोक्तमलङ्कारः । पर्यायोक्तं तु गम्यस्य वचोभङ्ग्यन्तराश्रयमिति । प्रथम दुर्जनाय मह्यमपीत्यत्र दौर्जन्य दुष्टजनत्वं पूर्ववद्विग्रहः । एतेन दौर्जन्यनिवर्ततामेव दुर्जन नमस्कार प्रयोजनमिति सूच्यते । तदा च श्रुतिः । रुद्रो वा एषयदग्निस्स यथा व्याघ्रः । रुद्रस्तिष्ठत्येवं वा एष एतर्हिति स सञ्चितस्याग्नेः कृद्धव्याघ्रसाम्यं प्रतिपाद्य सञ्चितमेतैरुपतिष्ठत इति क्रोधशान्त्यर्थतया नमस्कार गर्भमुपस्थानं विधाय नमस्कारैरेवैनं शमयति इति नमस्कारस्य क्रोधशान्तिं फलमाह । ननु सत्पुरुषेषु कृतं नमस्कारादिकं क्रोधशान्त्यादिकं फलति । न तु दुर्जनेषु । अत एव समुद्रराजं प्रति रामवाक्यम् । प्रशमश्च क्षमाचैव आर्जवं प्रियवादिता । असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणा ।। इति दुर्जन नमस्कारो निष्फला इति चेत् नैकान्ततो दुर्जन नमस्कारादिकं निष्फलम् । क्वचित् फलवत्वदर्शनात् अत एव सम्पातिं प्रति सुपार्श्व वचनम् । न हि सामोपपन्नानां प्रहर्तादि विद्यते क्वचिदिति सुपार्श्वोऽपि सत्पुरुष इति चेत् वसुदेवानुनीतस्य कंसस्य क्रोधशान्तिर्द्रष्टव्या । ननु अन्यगतं नमस्कारादिभिर्निवर्त्यते । स्वगतं प्रातिकूल्यं परिजिहीर्षान् मात्रेण निवर्तयितुं शक्यते । नमस्कारादिकं नापेक्षते । अतस्सनमस्कारो व्यर्थः इति चेन्न स्वगत प्रातिकूल्य निवर्तनस्य नमस्कार
निरपेक्षत्वेऽपि स्वविशेषणी भूते । दौर्जन्य शब्दवाच्ये कामक्रोधादिके दोषे यत्प्रातिकूल्यां तस्य नमस्कार निवर्त्यत्वेन कामक्रोधादेर्नमस्कारोद्देश्यत्योपपत्त्यै नन्वात्मगुण निरूपणस्य कामक्रोधादेरचेतनत्वं तदनमस्कार्यता । देवतारूपस्य तु दौर्जन्य शब्दवाच्यत्वाभावेन अविशेषणत्वान्न तत्र नमस्कारः पर्यवस्यातीति चेत् देवतारूपस्य आत्मगुण वृद्धिक्षय हेतुतया दोषत्वेन दौर्जन्य शब्दवाच्यत्वादात्मविशेषणत्वात् च तत्र नमस्कार प्रार्थना सम्भवात् । अत एव रामायणे कामप्रातिकूल्यायत्त रुद्रस्य रागवृद्धिः रुद्ररूपो कामपराभश्च स्मर्यते । धात्मा च दुर्मेधा हुङ्कृतश्च महात्मनेति कालिदासश्चाह । कोपं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । तावत् स वह्निर्हरनेत्र जन्म भस्मावशेषं मदनं चकारेति । तस्माद्रोगवृद्धिहेतुत्वेन कामस्य देवता रूपस्यापि दोषत्वेन दुर्जनशब्दजन्यप्रमिति विशेषविशेष्यतायां प्रकारत्वमुपपद्यते । प्रकारांशो नमस्कारः पर्यवस्यतीत्युपपन्नम् । एवं देवतांशे पर्यवसानं मत्वान्यत्राप्याचार्यैः प्रार्थिता । अन्योन्यवैरिजननी विजहात्वसूयेति । यद्वा अचेतनमपि चेतनवत् सम्मुखी कृत्य कवीनां वचो दृश्यते । वाहिवातयतः कान्ततां स्पृशेति उत्तररामचरिते । हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवेविसृज शूद्र मुनौ कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्न सीता विवासन पदोः करुणा कुतस्ते । शरैणं जहि रावणिमित्यादि तद्वदचेतने वा कामक्रोधे चेतनवन्नमस्कारः । प्राचीनपक्षेऽपि न देवतान्तर नमस्कार शङ्का तदन्तर्यामिणि पर्यवसानात् तद्विशेषणभूते कामक्रोधाधिके नमस्कारानन्वयात् । मूलमन्त्र द्वय द्वादशाक्षरादि गत नारायण वासुदेवादि शब्दजन्य प्रमिता नार वासु शब्दवाच्यस्य चेतनजातस्य प्रकारत्वेऽपि । तत्र नमस्कारानन्वयात् तन्मन्त्रोच्चारणं न देवतान्तर नमस्काररूपं तद्वत् एतावद्विशेषः । सर्वत्र विशेष्यांश शक्त्या विशेषण शरीरि परमात्मा प्रतिपाद्यते विशेषण शक्त्या विशेषणांशः केवलः प्रतीयत इति । इह तु विवक्षाविशेषात् विशेषण शक्त्यापि विशेषणांश शरीरः परमात्मा प्रतीयत इति । यद्वा विशेष्य शक्त्या विशेष्य शरीरकः परमात्मा प्रतीयते । पुनरेतादृशानि मां माद्वित्करदित्येतदर्थं दौर्जन्य विशिष्टस्व शरीरके परमात्मनि नमस्कारो युज्यते । अतो नात्मनमस्कार वैयर्थ्य शङ्का परमात्मा नमस्कारादेव न मङ्गळाचरणश्लोके निवेशानुपपत्तिः । दुर्जनीयस्य उपेक्षणीयत्वात् प्रतिपत्त्या वा दुर्जन नमस्कारः उपेक्षार्थतया नमस्कारदर्शनात् । मातङ्गेन खरक्रयस्समतुरा कर्पूरकार्पासयोरेषां यत्र विभावना विजयते देशाय तस्मै नमः इत्यादौ गुण व्यतिरेकेण सौजन्यं दौर्जन्यं नाम न किञ्चित् । अतो गुण दुर्गुण पौष्कल्य निदर्शनार्थतया कृतज्ञत्व कृतघ्नत्वाख्यातौ द्वौ गुणदुर्गुणौ उत्तरार्धेन दर्शयति । यौ प्रथम द्वितीय नमस्कार्या सकृत् उपकारापकाराभ्याम् अनुपकारणत्वाभावेऽपि व्याजमात्र भूताभ्यां सर्वं कृतम् । अपकारजातम् उपकारजातं च क्रमेणागतः । निष्फले कुरुतः । प्रथमस्सकृदुपकारेण प्राक् कृतं भूयस्तरमपकारं हन्ति । तस्य फलं नरक पातादिकं न प्रयच्छति । द्वितीयोऽपि सकृदपकारेण पूर्वकृतं बहुळ उपकारजातं हन्ति । तस्य फलमुपकर्तुः प्रीत्युपादानं न करोति । प्रत्युत तस्मिन्ननार्यमाचरति । एवं वदद्भिः आचार्यैः कथञ्चिदुपकारेण कृतेनैकेन तुष्यतीति । पूर्वार्धगतस्य कथञ्चित् उपकारेणैक्यस्य न स्मरत्यपकाराणां शतमप्यावत्तयेत्युत्तरार्धानुषङ्गो विवक्षित इति महर्षि तात्पर्यं सूचितम् । उचितं च निर्व्याजमेव सर्वापकारसहने राक्षस सेनायाश्शम्बुकादेश्च शिक्षा न स्यात् व्याजसापेक्षत्वे तु व्याजाभावादेव तेषां शिक्षा युज्यते । सीता तर्जन कारणीषु राक्षसीषु कृपश्चादानुकूल्यरूपव्याज सद्भावात् शिक्षाभावश्च युज्यते । सर्वं कृतं हत इति सर्वापकारोपकार विस्मरणाभिधानेन कृतज्ञत्व कृतघ्नत्वयोः काष्ठागतत्वं सूचितम् । गुणदुर्गुण पौष्कल्य निदर्शनोपात्तयोः कृतज्ञत्व कृतघ्नत्वयोः काष्ठागतत्व सूचनादेव गुणदुर्गुणान्तरेषु काष्ठागतत्वं सूचितम् । गुणदुर्गुणानां काष्ठागतत्वादेव सुजन दुर्जन प्राथम्यमुपपद्यत इत्यपि सूचितम् । विवेकाधीनामाचार्याणामात्मन्यविद्यमान कृतघ्नादि दुर्गुणजातानुसन्धानं कथमुपपद्यत इति चेत् अनादौ संसारे विवेकोत्पत्तेः पूर्वं सर्वं सर्वस्य सम्भवतीति अभिप्रायेणेति द्रष्टव्यम् । यद्यपि उत्पन्न विवेकैर्नष्टेभ्यो गुणेभ्यो न भेतव्यम् तथापि या संसारानुवृत्तितः सर्वोप्यनर्थस्सम्भावित इति भीत्या दुर्गुणानां प्रयत्नेन परिहर्तव्यत्वानुसन्धानम् । अत एव विदुषामपि प्रयत्नेन कामक्रोध परिहर्तव्यता स्मर्यते । इन्द्रियाणां हि चरतां विषयेष्वपकारिषु । संयमे यत्न मा तिष्ठेद्विद्वान्यत्नेन वा नामिति प्रमादादपहरे । तेषामुत्पन्न नाशकत्वमपि स्मर्यते । इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्यक्षरति प्रज्ञाद्यतेः पादादि ओदकमिति । तथा च महर्षिणा च स्मर्यम् । स्वर्गापवर्गव्यपेधकारण परमर्षयो वदन्ति । महा क्रोधन् मात मातद्वशो भवेदिति । अतो दुर्गुणेभ्यो
भीतैस्तत्परिहर्तव्यत्वात् विस्मरणाय तेभ्यो नमस्कारः प्रयुज्यते ननु सर्वं हत इत्यत्र । स्वस्यापि हननकर्तृत्वात् प्रथमपुरुष प्रयोगानुपपत्तिः उत्तमपुरुषस्त्यैव प्रयोक्तव्यत्वात् । अस्मदुत्तम इत्यनुशासनादिति चेन्न आत्मनः कर्तृत्वेऽपि अस्मच्छब्दमनुपादाययाविति शब्दान्तरेणैव निर्देशात् प्रथमपुरुषोपपत्तिः । रामो द्विर्नाभिभाषत इति रामवाक्यमन्यत्कारोह्ययमेव यददयस्तत्राप्यसौ तापसस्योप्यत्रैव निहन्ति राक्षसभटौज्जीवन्त्यहोरावण इति रावणवाक्यं शशधरधर्मो प्रकाशयति । गङ्गेशस्तनुतेन वचना इत्यादिकञ्चात एवोपपद्यते । अस्मदुत्तमम्मतिसूत्रे पूर्वसूत्रादस्थानीत्यपीत्यनुवृत्तेः अस्मच्छब्दप्रयोगेप्यस्मदर्थस्य कर्तृत्वमात्रेणोत्तमपुरुष द्रष्टव्यः । अत एव प्रपद्ये तं गिरिं प्राय इत्यादिकमुपपद्यत इति चेत् तर्हि मध्यमपुरुषस्यापि युष्मदस्मस्थानीत्यपि चेत् युष्मदर्थस्य कर्तृत्वविवक्षायां सर्वत्र मध्यमपुरुषोऽपि स्यात् । तथा च भावान् करोतीत्यादौ मध्यमपुरुष स्यात् । न शब्दान्तरेणैव यत्र निर्देशस्तत्रैव युष्मदस्मदर्थस्य कर्तृत्वेऽपि न मध्यमोत्तमपुरुषौ । प्रपद्य तं गिरिमित्यत्र कर्तुरस्मदर्थस्य केनापि शब्देनानिर्देशात् उत्तमपुरुषोपपत्तिः । भावान् करोतीत्यत्र युष्मदर्थस्य कर्तुश्शब्दान्तरेणैव निर्देशात् मध्यमपुरुषानुपपत्तिः इति चेन्न । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरं मन्दः कवि यशः प्रार्थी गमिष्याम्यपहास्यतामित्यादिषु युष्मदस्मच्छब्दावनुपादाय शब्दान्तरेणैव तदर्थ निर्देशेप्युत्तम दर्शनात् । तस्माद्युष्मदस्मच्छब्दजन्य तदर्थ प्रतीति तात्पर्ये सति मध्यमोत्तमनीयजनानि अन्यत्र इति वक्तव्यम् । तितीर्षुर्दुस्तरं मोहादित्यादौ शब्दान्तर सत्वेऽपि युष्मदस्मच्छब्दाभावेऽपि तज्जन्य तदर्थ प्रतीति तात्पर्यमस्तीति मध्यमोत्तमपुरुषप्रयोगानिर्वाह्यौः । भवान् करोति शशधरधर्माप्रकाशतीत्यादौ तादृश तात्पर्याभावेन मध्यमोत्तमपुरुषविध्यविषयत्वात् शेषे प्रथम इति प्रथमपुरुषोपपत्तिः । मध्यमोत्तमपुरुषप्रयोगाप्रयोगव्यवस्था सिद्ध्यर्थं युष्मदस्मच्छब्दजन्य तदर्थ प्रतीति तात्पर्यस्य नियामकत्वे सिद्धे शब्दोपस्थितिं विना हेत्वन्तरजन्योऽर्थोपस्थितिमादाय वाक्यार्थ बोधं वदतो गुणीभूतमनुपपन्नमिति ———- व्यन्तन्मते तादृश प्रयोगाप्रयोग व्यवस्थापकाभावात् केवलार्थस्मृतेर्वाक्यार्थबोधाङ्गत्वे साक्षादेवार्थे स्मर्तुं शक्ये तदर्थं शब्दस्मृतेरनपेक्षितत्वेन तादृश शब्दाप्रयोगस्थले तज्जन्य तदर्थस्मृतितात्पर्यस्यासम्भावितत्वात् शब्दजन्यार्थ प्रतीतेरेवाङ्गत्वे साक्षादर्थस्मृत्या शाब्दबोधानुदयात् तादृश तात्पर्यं घटते । तेन च प्रयोगाप्रयोग व्यवस्थितिरुपपद्यते । अत्र चोपमानोपमेय गत सौजन्यदौर्जन्ययोः काष्ठागतत्वेन प्रणति प्रयोजकत्वेन च सादृश्यापन्नयोस्साधारणधर्मतया विवक्षितयोः पृथगुपादानं दृष्टान्तालङ्कारः । चेत् बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कृतीरिति । तस्य लक्षणं साधारण धरमत्वेन विवक्षितयोः द्वयोर्धर्मयोः पृथगुपादानं बिम्बप्रतिबिम्बभाव इत्युक्तम् । स्वेतर सर्व सजातीयातिशयितत्वेन सर्व सुजनोत्कृष्टो भगवान् सर्वदुर्जनोत्कृष्ट मत्सम इति सादृश्यप्रतीति साक्षादेव वर्ण्ये परमात्मनि रुचिं नोत्पादयतीति किन्तु कृतघ्नत्वादि दोषैर्न मत्सम इति दोषप्रयुक्त सादृश्याभावबुद्धिजननद्वारा । त्वमेव कीर्तिमान् राजन् विभुरेव हि कान्तिमानित्यत्र राजनि चन्द्रसादृश्य बुद्धिस्साक्षादेव रुचिं जनयति न द्वारान्तरान्तरमपेक्षते । कीर्तिकान्त्योर्धावळ्येन हृद्यत्वे स्वाश्रयप्रकाशत्वेन सादृश्यमनुक्तमिति स्फुरति सौजन्यदौर्जन्ययोस्तु अत्यन्त विरुद्धयोस्साधारणधर्मानुक्तौ सादृश्य स्फूर्तेस्सर्व कृतघात प्रयोजकत्व काष्ठागतत्व प्रणति प्रयोजकत्वानां साधारणधर्माणामभिधानमेवं साधारणधर्माभिधानेऽपि परस्परविरोधप्रसिद्धेरतिबलत्वात् साक्षादेव सादृश्यबुद्धिर्न रुचिं जनयति । किन्तु वैलक्षण्यबुद्धिजननद्वारैव अस्मादेव भेदादयं वैधर्म्य दृष्टान्तो वैधर्म्येण दृष्टान्तो वैधर्म्य दृष्टान्तः । वैलक्षण्य बुद्धिद्वारा दृष्टान्त स्वरसावहत्वात् । यद्विदं वैधर्म्य दृष्टान्तो उदाहरणं । कृतं च युद्धाभिमुखम्मुनस्त्यया किमन्यदेवं निहृताश्चनोद्विषः । तमांसि तिष्ठन्ति हितावदंशुमान्नयावदायाद्युदयाद्रिमौळितामिति । तत्रापि दृष्टान्तवाक्यार्थ बुद्धेस्तमोव्यापक सूर्योदयाभाव विषव्याप्य युद्धान् मुख्ये वर्ण्येतामोनारूपं वृत्तितौल्यं न तुल्ययोगिताम् । तस्मादर्थगत्वेन वर्ण्यगतत्वाभावात् अत एव गुणोत्कृष्टत्वेन परमात्मनानन्तव्यत्वेन समीकृत दुर्जनस्याभिधानमपि । तुल्ययोगिताभावात् वर्ण्यौ वर्ण्ययोः सुजनदुर्जनयोः नमस्काररूप धर्म्यैक्यमपि न दीपकम् । सुजनेदुर्जनबुद्धेस्सादृश्यबुद्धे रसावहत्वाभावेनालङ्कारत्वस्यैवासिद्धेः वैलक्षण्यबुद्धिजनकद्वारा तु कथञ्चित् निर्वाह्यम् । सुजनदुर्जनयोः क्रमेण सकृदुपकारान्वयो यथा सङ्ख्यम् । 1.1 ।

मूलम्

प्रमिति परिष्कृति मुद्रा सहृदयहृदयैस्समर्पिता कविभिः । भवति सुभाषितनीवी परगुणचोरैरहार्यार्था ।। 1.2 ।।

टीका

समानमाचार्यहृदयं येषां कव्यन्तरहृदयानां तानि कव्यन्तरहृदयानि आचार्यहृदय सदृशानि इत्यर्थः । सहृदयं हृदयं येषां कवीनां
ते सहृदयहृदयाः । तादृशैः कविभिः प्रमिति परिष्कृति मुद्रा समर्पिता । एतद्रष्टवानां कव्यन्तराणां दुर्भाषितार्थ सौन्दर्यबोधः प्रमितिः । तया प्रमित्या सुभाषितनीव्याया परिष्कृतिः गूढार्थाविष्करणरूपा शाब्दचातुर्याविष्करणरूपा च सामुद्रात्वेन रूप्यते । नीव्यामन्तर्गतार्थापहार प्रतिबन्धकत्वादिभिः क्रियमाणं यच्चिह्नं तन्मुद्रा शब्दार्थः प्रमिति परिष्कृतिरेव मुद्रेति कर्मधारयः । अस्यामित्यर्थ्याहारः । अस्यां सुभाषितनीव्यां समर्पिता तादृश मुद्रा समर्पणादेव सुभाषितनीवी परगुणचोरैः अहार्यार्था भवति । सुभाषितं वक्ष्यमाणं श्लोकजातं तन्नीवीत्येन रूप्यते । अनेकार्थगर्भत्वात् । अर्थपूर्णाक्षंद्र भस्त्रिकानीवी शब्दार्थः । सुभाषितमेव नीवी सुभाषितनीवी । सा परगुणचोरैः परेषां कव्यन्तराणां ये गुणाः ——— सन्दर्भविशेषा अर्थकल्पनाविशेषाश्च तेषां चोरैः तस्करैर्महाकविकल्पनां वदद्भिः कव्याभासैरित्यर्थः । अहार्यार्था भवति अपहर्तुमशक्यार्थो यस्यास्तादृशी भवति । नीवी यथा मुद्राकरणेन अपहार्यार्था भवति तद्वदेव तत्प्रबन्धश्लोका अपि तुल्याभिप्राय कव्यन्तरावलोकितत्वात् कव्याभासैः स्वकृतत्वेन वक्तुमशक्या इत्यर्थः । एतदर्था अपि स्वोन्नीतत्वेन वक्तुमशक्या इति वार्थः । यद्वा प्रमितिश्च परिष्कृतिश्च मुद्रा च प्रमिति परिष्कृति मुद्राः । नीव्याः प्रमितिः । अर्थसङ्ख्या निर्धारणं परिष्कृतिश्चारुत्व सम्पादना चित्ररसभावालङ्काराद्याविष्करणं वक्तृकल्पितेर्थे अन्योल्लिखितत्व शङ्का निरापाय एतदुल्लिखितः योऽयमर्थ इति मनस्यवधारण उत्तरार्ध प्रतिपादितस्याहार्यार्थत्वस्य पूर्वार्धेन समर्थनात् काव्यलिङ्गम् । समर्थनीयस्यार्थ स्वकाव्यलिङ्ग समर्थनमिति तल्लक्षणम् । 1.2 ।

मूलम्

पश्यति परेषु दोषान् असतोऽपि जनस्सतोऽपि नैव गुणान् । विपरीतमिदं स्वस्मिन् महिमा मोहाञ्जनस्यैषः ।। 1.3 ।।

टीका

जनः परेष्वसतोऽपि दोषान पश्यति । सतोऽपि गुणान्न पश्यति । स्वस्मिन्निदं विपरीतं भवति । इदं दर्शनं विद्यमानानपि दोषान न विषयीकरोति । अविद्यमानानपि विषयीकरोति इत्यर्थः । सत्यामपि सामग्र्यां सदर्थादर्शने किं प्रतिबन्धकम् असदर्थदर्शने च को दोषः । कारणमित्यपेक्षायामाह । महिमा मोहाञ्जनस्यैष इति । मोहेव अञ्जनं मोहाञ्जनम् । तस्यैषा महिमा यत् सत्यामपि सामग्र्यां सदर्थदर्शन प्रतिबन्धः । असदर्थदर्शनोत्पत्तिश्च ननु मोहो नाम भ्रमः । तस्य सदर्थदर्शन प्रतिबन्धकत्वेऽपि असदर्थदर्शन दोषतयापि कारणत्वं न सम्भवति । आत्माश्रयादिति चेन्न भ्रमान्तरस्य कारण ——— सम्भवात् । वह्निभ्रमे धूमभ्रमेस्यैव जातमात्रावस्थवाचिनाञ्जन शब्दे (न भ्रम) । ———- रूपमोहकारणं सूचितम् । कच्चिदज्ञान मोहः प्रणष्टस्ते धनञ्जय यदा किञ्चिज्ञोऽहं गज इव मदान्धस्सम भवतीत्यादिषु सद्गुणरूप समर्पणस्य मोह निवर्तकत्वं द्रष्टव्यम् । तदा सर्वज्ञे ——— किञ्चित् किञ्चित् गुरुजन सकाशाधिगतं तथा मूर्खोऽस्मीति । ज्वर इव मदो मेऽपगत इत्यादिषु ——- निवर्तकत्वं द्रष्टव्यम् । मोहस्याञ्जनस्यत्वेन रूपणात् गुणदोषानुमिति कारणस्य चक्षुष्क रूपण सूचने न तज्जन्यभ्रमस्य । 1.3 ।

मूलम्

यत्र पयः प्रभृति स्वं भुक्त्वा सत्यानुषक्तधीश्चोरः । पशुवृत्तिगणे तस्मिन्नपि नाम यशोदयावृत्तम् ।। 1.4 ।।

टीका

पशुवृत्तिगणे इत्येतद्विशेषम् ।
पशूनां वृत्तिरिव वृत्तिः येषां ते पशुवृत्तयः - निद्राहार-विहा-रमात्रपराः, धर्माधर्म-विवेक-शून्या इत्यर्थः ।
यत्र पशुवृत्तिगणे अन्तर्भूत सर्पो ऽपि जनः,
स्वमेव पयः-प्रभृति भोज्यजातं भुक्त्वापि
अनृतवदन-चौर्ययोः आपन्नानाम् इव -
शरीर-धारणार्थम् अनपेक्षितत्वे ऽपीति भावः ।
असत्ये अनृतवदने अनुषक्तधीः भवति । चोरश्च भवति ।
तस्मिन् पशुवृत्तिगणे यशो-दया-वृत्तम् अपि नाम
यशश्च दया च यशोदये ते एव वृत्तं यशोदयावृत्तम्
वृत्तम् आत्मगुणस् तद् अपि नाम अस्ति किम् इत्यर्थः -
इति प्रस्तुताविवेके वर्ण्यमाने कश्चित् अप्रस्तुतोऽपि अर्थ स्फुरति ।

तद्यदा पशुभिः गोमहिष्यादिभिः वृत्तिः जीवनं येषां ते पशुवृत्तयः । गोपाल इत्यर्थः । तद्गुणे यस्मिन् पयः प्रभृति स्वं धनं भोग्यभूतमुपभुज्य सत्यभामासक्तबुद्धिः श्रीकृष्णः नवनीतचौर्यादि लीलामाचरण्णास्त तस्मिन्नेव गोपसमूहे कृष्णमात्र यशोदयापि वृत्तं स्थितमित्ययं समासोक्ति अलङ्कारः । गुरुभिरशिक्षित बुद्धीनां यशोदयादि आत्मगुणानुदयात् गुरूपस्थापि अधर्मशिक्षा वृत्तशिक्षा सम्पादनीयेति भावः । 1.4 ।

मूलम्

हरिकरपुष्करहंसं हारमणीनां प्रसूतिमिव लक्ष्म्याः । पित्तेन पाञ्चजन्यं पीतं पश्यन् भिषज्यतु कम् ।। 1.5 ।।

टीका

हरिकर एव पुष्करं पद्मम् । तत्र हंसभूतं हंसवद्भासमानं लक्ष्म्या हारमणीनां प्रसूतिमिव अवदातदातिशयेन मुक्ताफलानाम् उत्पादकमिव भासमानं पाञ्चजन्यम् उदृक्तेन पित्तेन पीतं पश्यन् पुरुषः कमन्यमपि पित्तवन्तं भिषज्यतु न कञ्चिदपीत्यर्थः इत्यप्रस्तुतार्थार्थेवाच्य विधया वर्ण्यमाने सादृश्यातिशयात् अनिर्वृत्तमोहस्य अन्यमोह निवर्तनान् अधिकाररूपः प्रस्तुतोर्थः परिस्फुरत्य प्रस्तुतप्रशंसा अतस्तादृश्यो गुरुवरणानहि इति भावः । ष़डिमान् पुरुषो जह्यात् भिन्नान्नावम् इवार्णवे । अप्रवक्तारमाचार्यामनधीया न मृत्विजमित्यादिकं द्रष्टव्यम् । 1.5 ।

मूलम्

स्फटिकः स्वभावशुद्ध्या स एव सन् वहति सर्वमारोपम् । तदपि न तत्रानास्था तदुपाधिषु वा भवत्यास्था ।। 1.6 ।।

टीका

स्फटिकस्य एव सन् स्वतः परिशुद्ध एव सन् सर्वम् आरोपं जपाकुसुमादिना सन्निहितेन क्रियमाणं ताहित्य भ्रमादिकं स्वभावशुद्ध्या निरुपाधिकया स्वच्छतया वहति । तादृश स्वभावता विधुरादेव काष्ठलोष्ठादिकं न वहति । तदपि तथापि तत्र स्फटिके निर्मल स्फटिकार्थनां बुद्धिमतामनास्था न भवति नैर्मल्य निश्चयाभावो न भवति । —— तदुपाधिषु जपाकुसुमादिषु आस्था वान भवति । नैर्मल्य निश्चयो न भवतीत्यप्रस्तुते वर्ण्यमाने सादृश्यानुदयात् बुद्धिमतां सत्पुरुषेषु दुरात्मभिः दोषारोपे क्रियमाणेऽपि निर्दोषत्व निश्चया विनाशरूपः प्रस्तुताऽर्थः परिस्फुरति । आरोपकृत्सु निर्दोषे निश्चयानुपपत्तिश्च स्फुरतीत्यप्रस्तुत प्रशंसा दुष्टवचनानि अनादृत्य तत्पुरुषा आदर्तव्या इति भावः । 1.6 ।

मूलम्

स्थल परिशेषित जलधेस्सविधे सञ्जात डम्बरं जलदम् । प्रहसन्ति पाण्ड्य नद्यश्शुक्तिमुखैर्मौक्तिकस्त्यानैः ।। 1.7 ।।

टीका

स्थलपरिशेषित जलधे सविधे सञ्जात डम्बरम् इत्यसाधारण धर्मोक्त्यागस्त्यस्येति विशेष्यं गम्यते । तस्य सविधे सञ्जात डम्बरं सञ्जात गर्जितं दर्पजो विकारो डम्बरशब्दार्थः । हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नमित्यादौ गर्भिताभविकारत्वेन शब्दार्थता । तादृश जलदं पाण्ड्यनद्यः मोक्तिकस्त्यानैश्शुक्तिमुखैः प्रहस्यन्ति । शुक्तय एव मुखानीति । रूपकं शुक्तिमुखपदाभ्यां वर्ण्योपमान द्वयमुपात्तम् । हसन्तीत्यत्र शक्तिप्रकाशरूपं वर्ण्यमनुपादाय हासरूपमुपमानमात्रमुपात्तम् । त्रिभिरपि पदैः त्रिषु वर्ण्येषु मौक्तिकस्त्यानैः इत्यत्र वर्ण्यमात्रमुपात्तम् । तत्त्वारोपस्तु आरोपान्तर साहचर्यात् विवक्षिता इति ———- गम्यते । प्रहसन्तीत्यत्र शक्तिप्रकाशरूपं वर्ण्यमनुपादाय
हासरूपमुपमानमात्रमुपात्तम् । त्रिभिरपि पदैः त्रिषु वर्ण्येषु सादृश्यातिशयात् दत्तमुपमानारोपः क्रियत एव तस्मात् यवरूपकातिशयोक्ति अलङ्कारः । अयञ्चाप्रस्तुतार्थमात्रविश्रान्तः । अगस्त्य समीपे जलदानां पाण्ड्यनद्यः परिहास्यत्वरूपेणाप्रस्तुतार्थेन अत्युत्कृष्ट्य समीपे शिञ्चिदुत्कृष्टस्य गर्वितस्य सर्वलोकोपहास्यत्वरूपः प्रस्तुतार्थः सादृश्यातिशयात् सूच्यत इति प्रस्तुताप्रस्तुतार्थ द्वयस्यापिन्यप्रस्तुत प्रशंसैव प्रधानभूतारूपकस्ययावन्तो भेदास्तावन्तो भेदारूपकातिशयोक्तिरपि सन्तीति कुवलयानन्दे सावयवरूपकमपि रूपकविशेष एव विषयानुपादानात् रूपकातिशयोक्तिः । अत्र त्वत्कीर्ति भ्रमण श्रान्ताविवेश स्वर्गनिम्नगाम् इत्यादाविवगम्योत्प्रेक्षात्वमनाशङ्कनीयम् । वक्ता तवाङ्घ्रि मृदुळा भुवि विक्षेपणाद्ध्रुवम् । त्वन्मुखाभेच्छया नूनं पद्मै द्वैवायते शशि इत्यादाविवहेतुवाचक पञ्चमी तृतीयाद्यभावेन हेतूत्प्रेक्षत्वाभावात् । मद्यः किं कुचयोद्धृत्यै बद्दः कनक दामभिरित्यादा - चतुर्थी तु मुनाद्यभावेन फलोत्प्रेक्षत्वाभावात् । धूमस्तोमं तमश्शङ्के कोकीविरहशुष्मणाम् इत्यत्रैव वर्ण्यानुपादेन उक्तास्पद वस्तूत्प्रेक्षत्वाभावात् । अम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः इत्यत्रेवानुक्तास्पद वस्तूत्प्रेक्षाया इवादि पदाभावादिह गम्यत्व स्वीकारे ततः पृथग्भूत रूपकातिशयोक्तिः न सिद्धयेत् । पश्य नीलोत्पलद्वन्द्वान् निस्सरन्ति शिताश्शरा इत्यत्रापि इवादि पदाभावेऽपि नत्वे तद्वीक्षणेषूत्पलत्व — कशोटिक सम्भवे सङ्कीर्णोदाहरणालाभात् । 1.7 ।

मूलम्

प्रतिपन्न वामदृष्टिस्तन इव कश्चित् समुन्नतोऽप्यधिकम् । पतनमधिगम्य समये परिहासरसावहो भवति ।। 1.8 ।।

टीका

प्रतिपन्न वामदृष्टिः प्राप्त वक्रदर्शनः कश्चिदविख्यातः समुन्नतोऽपि जनबहुमत्या गर्वितोऽपि समये पण्डितसन्निधानदशायां पतनं गर्वध्वंसम् अधिगम्य परिहासरसावहः भवति । भ्रान्तत्वनिश्चयेन सर्वेषां हास्यः भवति । स्तनो हि प्रतिपन्न वामदृष्टिः । ———- कामिनी वामलोचनेत्यमरः अधिकं - तश्च समये कतिपयकालान्तमपि हासं जनयति । उपमालङ्कारः तत्त्वजिज्ञासुना पुरुषेण पण्डिताभासो ——– जनबहुमते । पण्डितसन्निधौ प्रतारकत्व निश्चयादादरणीय इति भावः । 1.8 ।

मूलम्

बहुविदधत्युपकारान् गुप्त्या दुरितं प्रकाशय पिदधति च । सुहृदि विहिताहितमतिर्यन्न प्रत्युपकरोति न तत् ।। 1.9 ।।

टीका

उपकारान् बहुविदधती कुर्वाणे गुप्त्या गोपनेन दुरितं प्रकाश्य जनान्तरासन्निधौ गुरवे दुश्चरितं बोधयित्वादि दधाति भावयति अन्यत्र अवदति नियमातिक्रमं रहसि बोधयेदिति शास्त्रार्थमनुतिष्ठतीत्यर्थः । सुहृदिशोभन मनस्के शिष्ये हितमतिः न विहिता शास्त्रार्थोपदेशो न कृत इति यत् तत् न प्रत्युपकरोति । शास्त्रार्थ जिज्ञासया गुरुकुलवासिनि उपकारान्तरं कुर्वतोऽपि विद्योपदेशाभावः प्रत्युपकाराभाव एवेत्यर्थः । 1.9 ।

मूलम्

एधान् दहन्ति शान्तान् येभ्यस्सिध्येयुरसितवर्त्मान् नः । अगणित निज प्रकाशैः किमाश्रयाशैः अनाश्यमिह ।। 1.10 ।।

टीका

असितवर्त्मानः कृष्णवर्त्मानः । बर्हिश्शुष्मा कृष्णवर्त्मा इत्यमरः । येभ्यः एधेभ्यः सिध्येयुः उत्पद्वेरन् । शान्तान् शुष्कान् तान् एधानपि दहन्ति । स्वे काष्ठानि दहन्तीत्यर्थः । अगणित निजप्रकाशैः असङ्ख्यात तेजोभिः तैराश्रयाशैरग्निभिः अनाश्यं किमिहास्ति उत्पादकन्नाशयतः स्वाश्रयमप्यश्नतोग्नेः सर्वमा-श्यमेवेत्यर्थः । सर्वभक्षकत्वादग्नेरिति भावः । अर्थान्तरमपि प्रतीयते । असितवर्त्मानः अपरिशुद्धमार्गप्रवृत्ताः पुरुषाः येभ्यः स्वयं सिध्येयुः लब्ध विद्याभवेयुः । तानेधान् स्वाभिवृद्धिहेतूनपि दहन्ति ।
एधयन्तीत्येयाः । अगणित निजप्रकाशैः स्वस्य ज्ञानोत्पत्तिः एतदायत्तेत्यस्मरद्भिः । आश्रयाशै स्वस्थिति हेतुभूतमेव पुरुषं साधमानैस्तैरनाश्यं किमिहास्ति । एकत्र कृतं नाशितवान् पुरुषस्ततोऽन्यत्रापि कृतं नाशयेदेव । न क्वचित तस्य कृतज्ञता सम्भव इत्यर्थः । अयं प्रस्तुतार्थः । पूर्वोक्तस्त्वप्रस्तुतः । 1.10 ।

मूलम्

नवदळपुटे कल्प्या यस्य प्रभोरपि तल्पधीः नटपरिबृढो यस्याधस्ताच्छ्रमं शमयिष्यति । वटविटपिनस्तस्याङ्कूराननुत्कटपल्लवान् स्थपुटचटसापेक्षी भिक्षुः प्रतिक्षणम् ईक्षते ।। 1.11 ।।

टीका

यस्य वटविटपिनः नवदळपुटे अचिरोत्पन्न पत्रान्तः प्रदेशे प्रभोरपि तल्पधीः कल्प्या वासुदेवस्य विश्वं नारायणं देवमक्षरं परमं प्रभुम् इति श्रुतेः । तल्पत्वधीः कर्तुमुचिता । नटपरिबृढः । महानट इत्यर्थः । महेश्वरो महादेवो महानट इति भट्टबाणः । यस्याधस्तात् श्रमं शमयिष्यति अयमर्थः पुराणे प्रसिद्धः । विष्णुशिवप्रभृतीना अपकारकरणक्षमस्य वटवृक्षस्यानुत्कट पल्लवान् अति बाल पल्लवानां —–न् स्थपुटचटसापेक्षं द्विगुणितं पत्रपुटमपेक्षमाणः भिक्षुः प्रतिक्षणम् ईक्षते । अबाधेनैव महोपकारक्षमं पुरुषम् अतिक्षुद्रार्थलेशलिप्सयातिमात्रं बाधितुं मूर्खः प्रवर्तत इति प्रस्तुतार्थ सूचना । 1.11 ।

मूलम्

निरवधिगुणग्रामे रामे निरागसि वागसि स्फुरणमुषितलोका लोका वदन्ति सदन्तिके । वरतनुहतिं वालिद्रोहं मनागपसर्पणं परिमिति गुणस्पष्टावद्ये मुधा किमुदासते ।। 1.12 ।।

टीका

निरवधिगुणग्रामे सतु श्रेष्ठ गुणैर्युक्तः प्रजानां बहिश्चर इव प्राणः बभूव । गुणवत्तरः । दान्तैस्सर्वप्रजाकान्तैः प्रीति सज्जननैर्नृणाम् । गुणैर्विरुरुचे रामो दीप्त्यैसुसार्य इवांशुभिः इत्यादिना । बहवोनृपकल्याणगुणाः पुत्र सन्ति ते । इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते इत्यादिना च प्रतिपादित गुणजाते निरागसि आगोपराधोमन्तुश्च इत्यमरः । तद्रहिते न तं पश्याम्यहं लोके परोक्षमपि यो नरः । स्व मित्रोऽपि निरस्तोऽपि यो स्व दोषमुदाहरेदित्युक्त दोषगन्धराहित्ये रामे वागसि स्फुरणमुषितालोकाः येषामालोकोज्ञानलेशः असि स्फुरणमात्रेण निरस्यते चेतनपर्यन्तं न वा स्थातुं क्षमते । तो तथा विधा लोकाः जनाः सदन्तिके वरतनुहतिं वालिद्रोहं मनाक् ईषदपसर्पणं च दोषान् वदन्ति ते जनाः परिमित गुणे स्पष्टावद्ये मुधा किमुदासते । मिथ्याभूतामुपेक्षां किमर्थं कुर्युरित्यर्थः । उक्तिविरहरूपाया उपेक्षायाः प्रतियोगि सत्यत्वमेव मिथ्यात्वम् । 1.12 ।