दुर्वासनाप्रतिकारादशकम्
विश्वास-प्रस्तुतिः
प्रातर् वैदिक-कर्मतस् तद् अनु सद्-वेदान्त-सच्चिन्तया
पश्चाद् भारत–मोक्ष-धर्म-कथया वासिष्ठ-रामायणात् ।
सायं भागवतार्थ-तत्त्व-कथया रात्रौ निदिध्यासनात्
कालो गच्छतु नः शरीर-भरणं प्रारब्ध-कण्ठार्पितम् ॥ १॥
मूलम्
प्रातर्वैदिककर्मतस्तदनु सद्वेदान्तसच्चिन्तया
पश्चाद्भारतमोक्षधर्मकथया वासिष्ठरामायणात् । var धर्ममननात्
सायं भागवतार्थतत्त्वकथया रात्रौ निदिध्यासनात् var दिव्यकथया
कालो गच्छतु नः शरीरभरणं प्रारब्धकण्ठार्पितम् ॥ १॥
विश्वास-प्रस्तुतिः
अ-ज्ञानं त्यज हे मनो मम सदा ब्रह्मात्म-सद्-भावनात्
सङ्कल्पान् अखिलानपि त्यज जगन्-मिथ्यात्व-सम्भावनात् ।
कामं साधन-साधनाश्रम-परिध्यानाद्+++(=??)+++ अजस्रं त्यज
क्रोधं तु क्षमया सदा जहि बलाल् लोभं तु सन्तोषतः ॥ २॥
मूलम्
अज्ञानं त्यज हे मनो मम सदा ब्रह्मात्मसद्भावनात्
var मनोऽपि च सदा ब्रह्मात्मसम्भावनात्
सङ्कल्पानखिलानपि त्यज जगन्मिथ्यात्वसम्भावनात् ।
कामं साधनसाधनाश्रमपरिध्यानादजस्रं त्यज
क्रोधं तु क्षमया सदा जहि बलाल्लोभं तु सन्तोषतः ॥ २॥
विश्वास-प्रस्तुतिः
जिह्वोपस्थसुखभ्रमं त्यज मनः पर्यन्तदुःखेक्षणात्
पारुष्यं मृदुभाषणात्त्यज वृथालापश्रमं मौनतः ।
दुस्सङ्गं त्यज साधुसङ्गमबलाद्गर्वं तु भङ्गेक्षणात्
निन्दादुःखमनिन्द्यदेवमुनिभिर्निन्दाकथासंस्कृतेः ॥ ३॥
मूलम्
जिह्वोपस्थसुखभ्रमं त्यज मनः पर्यन्तदुःखेक्षणात्
पारुष्यं मृदुभाषणात्त्यज वृथालापश्रमं मौनतः ।
दुस्सङ्गं त्यज साधुसङ्गमबलाद्गर्वं तु भङ्गेक्षणात्
निन्दादुःखमनिन्द्यदेवमुनिभिर्निन्दाकथासंस्कृतेः ॥ ३॥
विश्वास-प्रस्तुतिः
निद्रां सात्त्विक-वस्तु-सेवनतया, स्वप्नं सदा जागरात्
रोगान् जीर्ण-मिताशनाद्, दैन्यं महा-धैर्यतः ।+++(5)+++
अर्थानर्थ-परिग्रहं त्यज वृथा संसर्ग-सन्त्यागतः
स्त्रीवाञ्छां त्यज दोष-दर्शन-बलाद्, दुःखं सुखात्मेक्षणात् ॥ ४॥
मूलम्
निद्रां सात्त्विकवस्तुसेवनतया स्वप्नं सदा जागरात् var सेवकतया
रोगान् जीर्णमिताशनाद्दैन्यं महाधैर्यतः ।
अर्थानर्थपरिग्रहं त्यज वृथा संसर्गसन्त्यागतः
स्त्रीवाञ्छां त्यज दोषदर्शनबलाद्दुःखं सुखात्मेक्षणात् ॥ ४॥
विश्वास-प्रस्तुतिः
दारासक्तिम् अन्-आदरात्, सुत-धनासक्तिं त्व् अनित्यत्वतः
स्नेहं मोह-विसर्जनात्, करुणया नैष्ठुर्यम् अन्तस् त्यज ।
औदासीन्य-समाश्रयात् त्यज सुह्रुन्-मित्रारि-दुर्वासनाः
सर्वानर्थ-करान् दशेन्द्रिय-रिपून् एकान्त-वासाज् जहि ॥ ५॥
मूलम्
दारासक्तिमनादरात्सुतधनासक्तिं त्वनित्यत्वतः
स्नेहं मोहविसर्जनात्करुणया नैष्ठुर्यमन्तस्त्यज ।
औदासीन्यसमाश्रयात्त्यज सुह्रुन्मित्रारिदुर्वासनाः
सर्वानर्थकरान् दशेन्द्रियरिपूनेकान्तवासाज् जहि ॥ ५॥
विश्वास-प्रस्तुतिः
आलस्यं त्वरया, श्रमं श्रम-धिया, तन्द्रीं समुत्थानतः
भेदं भ्रान्त्य्-अ-भेद-दर्शन-बलात्, तां मिथ्यात्वतः सत्यताम् ।
मर्मोक्तिं निज-मर्म-कर्म-कथया, क्रोधं स्व-साम्येक्षणात्
आक्रोशं कुशलोक्तिततश् च, मनश् छिन्द्यप्रमादो+++(=??)+++ भयम् ॥ ६॥
मूलम्
आलस्यं त्वरया श्रमं श्रमधिया तन्द्रीं समुत्थानतः
भेदं भ्रान्त्यभेददर्शनबलात्तां मिथ्यात्वतः सत्यताम् ।
मर्मोक्तिं निजमर्मकर्मकथया क्रोधं स्वसाम्येक्षणात्
आक्रोशं कुशलोक्तितश् च मनश्छिन्द्यप्रमादो भयम् ॥ ६॥
विश्वास-प्रस्तुतिः
भूतार्थ-स्मरणं वृथा-भ्रम-धिया, प्राप्तं तु हानेक्षणात्+++(5)+++
भाव्य्-अर्थ-व्यसनं सदा त्यज मनः-प्रारब्ध-चोद्येक्षणात् ।
शिष्टाशिष्ट-जन-क्रियास् त्यज वृथा-कष्टानुसन्धानतः
स्नेहाद् द्वेष-मतिं सदा त्यज जनं भस्मांस् तथा संस्मृतेः ॥ ७॥
मूलम्
भूतार्थस्मरणं वृथा भ्रम धिया प्राप्तं तु हानेक्षणात्
भव्यर्थव्यसनं सदा त्यज मनः प्रारब्धचोद्येक्षणात् ।
शिष्टाशिष्टजनक्रियास्त्यज वृथाकष्टानुसन्धानतः
स्नेहाद्द्वेषमतिं सदा त्यज जनं भस्मांस्तथा संस्मृतेः ॥ ७॥
विश्वास-प्रस्तुतिः
अध्यात्मादि-भवं सदा त्यज मनस्-तापं स्वभावेक्षणात्
वैषम्यं सम-भावतः, पर-कथा-विक्षेपम् अक्षोभतः ।
धिक्-कारादिभव तु दुःखम् अनिशं तद्-योग्यता-भावनात्,
तज्-ज्ञातज्-ज्ञ–शिशून् क्षमस्व कृपया कर्म-क्षया-ताडनम्+++(=??)+++ ॥ ८॥
मूलम्
अध्यात्मादिभवं सदा त्यज मनस्तापं स्वभावेक्षणात्
वैषम्यं समभावतः परकथाविक्षेपमक्षोभतः ।
धिक्कारादिभवन्तु दुःखमनिशं तद्योग्यता भावनात्
तज्ज्ञातज्ज्ञ शिशून्क्षमस्व कृपया कर्मक्षयाताडनम् ॥ ८॥
विश्वास-प्रस्तुतिः
आयुर् गच्छति पेटिकाम् इव जलं सन्त्यज्य देहं जवात्
गच्छन्तीन्द्रिय-शक्तयोऽपि कुलटा यद्वन् नरं निर्धनम् ।+++(5)+++
प्रज्ञा गच्छति दावदाहसमये नीडं मृगी-पक्षिवत्
ज्ञात्वा स-त्वरम् आश्रय मात्म-पदवीं+++(=??)+++, देहं वृथा मा कृथाः ॥ ९॥
मूलम्
आयुर्गच्छति पेटिकामिव जलं सन्त्यज्यदेहं जवात् var पेटिकाजलमिव त्यक्तैव देहं
गच्छन्तीन्द्रियशक्तयोऽपि कुलटा यद्वन्नरं निर्धनम् ।
प्रज्ञां गच्छति धावदाहसमये नीडं मृगीपक्षिवत्
var प्रज्ञा गच्छति दावदाहसमये श्रेणी मृगीणामिव
ज्ञात्वा सत्वरमाश्रयमात्मपदवीं देहं वृथा मा कृथाः ॥ ९॥
विश्वास-प्रस्तुतिः
धैर्यैरावत–शान्ति-धेनु–दमना–मन्दार-वृक्षं सदा
मैत्र्य्-आद्य्-अप्सरसं विवेक-तुरगं सन्तोष–चिन्ता-मणिम् ।
आत्म-ज्ञान-महाऽमृतं सम-रसं वैराग्य-चन्द्रोदयम्
वेदान्तार्णवम् आश्रयन्न् अनुदिनं सेवस्व मुक्ति-श्रियम् ॥ १०॥
मूलम्
धैर्यैरावतशान्तिधेनुदमना मन्दारवृक्षं सदा
मैत्र्याद्यप्सरसं विवेकतुरगं सन्तोषचिन्तामणिम् ।
आत्मज्ञानमहामृतं समरसं वैराग्यचन्द्रोदयम् var नैराश्यचन्द्रोदयम्
वेदान्तार्णवमाश्रयन्ननुदिनं सेवस्व मुक्तिश्रियम् ॥ १०॥
विश्वास-प्रस्तुतिः
प्रसादाद् दक्षिणामूर्तेः
शृत्य्-आचार्य-प्रसादतः ।
दुर्वासना-प्रतीकार-
दशकं रचितं मया ॥
मूलम्
प्रसादाद्दक्षिणामूर्तेः शृत्याचार्य प्रसादतः ।
दुर्वासनाप्रतीकारदशकं रचितं मया ॥
॥ इति श्रीविद्यारण्यमुनिकृतं दुर्वासनाप्रतिकारदशकं सम्पूर्णम्॥