विश्वास-प्रस्तुतिः
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे ॥ १॥
मूलम्
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे ॥ १॥
विश्वास-प्रस्तुतिः
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ २॥
मूलम्
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ २॥
विश्वास-प्रस्तुतिः
नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन् मांसवसादिविकारं
मनसि विचिन्तय वारं वारम् ॥ ३॥
मूलम्
नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन् मांसवसादिविकारं
मनसि विचिन्तय वारं वारम् ॥ ३॥
विश्वास-प्रस्तुतिः
नलिनीदलगतजलम् अतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४॥
मूलम्
नलिनीदलगतजलम् अतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४॥
यावद्वित्तोपार्जनसक्तस्
विश्वास-प्रस्तुतिः
तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे ॥ ५॥
मूलम्
तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे ॥ ५॥
विश्वास-प्रस्तुतिः
यावत् पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ ६॥
मूलम्
यावत् पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ ६॥
विश्वास-प्रस्तुतिः
बालस् तावत्क्रीडासक्तस्
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस् तावच् चिन्तासक्तः
परमे ब्रह्मणि कोऽपि न सक्तः ॥ ७॥
मूलम्
बालस् तावत्क्रीडासक्तस्
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस् तावच् चिन्तासक्तः
परमे ब्रह्मणि कोऽपि न सक्तः ॥ ७॥
का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयातस्
तत्त्वं चिन्तय तदिह भ्रातः ॥ ८॥
विश्वास-प्रस्तुतिः
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९॥
मूलम्
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९॥
विश्वास-प्रस्तुतिः
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ १०॥
मूलम्
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ १०॥
विश्वास-प्रस्तुतिः
मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११॥
मूलम्
मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११॥
दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
विश्वास-प्रस्तुतिः
कालः क्रीडति गच्छत्यायुस्
तदपि न मुञ्चत्याशावायुः ॥ १२॥
मूलम्
कालः क्रीडति गच्छत्यायुस्
तदपि न मुञ्चत्याशावायुः ॥ १२॥
विश्वास-प्रस्तुतिः
का ते कान्ताधनगतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसङ्गतिर् एका
भवति भवार्णवतरणे नौका ॥ १३॥
मूलम्
का ते कान्ताधनगतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसङ्गतिर् एका
भवति भवार्णवतरणे नौका ॥ १३॥
द्वादशमञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः ।
उपदेशोऽभूद्विद्यानिपुणैः
श्रीमच्छङ्करभगवच्छरणैः ॥ १३अ ॥
शिष्यानुषङ्गः
विश्वास-प्रस्तुतिः
जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो
ह्युदरनिमित्तं बहुकृतवेषः ॥ १४॥
मूलम्
जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो
ह्युदरनिमित्तं बहुकृतवेषः ॥ १४॥
विश्वास-प्रस्तुतिः
अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥ १५॥
मूलम्
अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥ १५॥
विश्वास-प्रस्तुतिः
अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस् तरुतलवासस्
तदपि न मुञ्चत्याशापाशः ॥ १६॥
मूलम्
अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस् तरुतलवासस्
तदपि न मुञ्चत्याशापाशः ॥ १६॥
विश्वास-प्रस्तुतिः
कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन ॥ १७॥
मूलम्
कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन ॥ १७॥
विश्वास-प्रस्तुतिः
सुरमन्दिर-तरुमूलनिवासः
शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः ॥ १८॥
मूलम्
सुरमन्दिर-तरुमूलनिवासः
शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः ॥ १८॥
विश्वास-प्रस्तुतिः
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ १९॥
मूलम्
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ १९॥
विश्वास-प्रस्तुतिः
भगवद्गीता किञ्चिदधीता
गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ॥ २०॥
मूलम्
भगवद्गीता किञ्चिदधीता
गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ॥ २०॥
विश्वास-प्रस्तुतिः
पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥ २१॥
मूलम्
पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥ २१॥
विश्वास-प्रस्तुतिः
रथ्या-चर्पट+++(=चीर्णपट)+++-विरचित-कन्थः
पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ॥ २२॥
मूलम्
रथ्या-चर्पट+++(=चीर्णपट)+++-विरचित-कन्थः
पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ॥ २२॥
विश्वास-प्रस्तुतिः
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३॥
मूलम्
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३॥
त्वयि मयि चान्यत्रैको विष्णुर्
विश्वास-प्रस्तुतिः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २४॥
मूलम्
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २४॥
विश्वास-प्रस्तुतिः
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥ २५॥
मूलम्
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥ २५॥
विश्वास-प्रस्तुतिः
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढास्,
ते पच्यन्ते नरकनिगूढाः ॥ २६॥
मूलम्
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढास्,
ते पच्यन्ते नरकनिगूढाः ॥ २६॥
विश्वास-प्रस्तुतिः
गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ २७॥
मूलम्
गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ २७॥
विश्वास-प्रस्तुतिः
सुखतः क्रियते रामाभोगः
पश्चाद्+धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ २८॥
मूलम्
सुखतः क्रियते रामाभोगः
पश्चाद्+धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ २८॥
विश्वास-प्रस्तुतिः
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ २९॥
मूलम्
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ २९॥
विश्वास-प्रस्तुतिः
प्राणायामं प्रत्याहारं
नित्यानित्य-विवेकविचारम् ।
जाप्यसमेत-समाधिविधानं
कुर्ववधानं महदवधानम् ॥ ३०॥
मूलम्
प्राणायामं प्रत्याहारं
नित्यानित्य-विवेकविचारम् ।
जाप्यसमेत-समाधिविधानं
कुर्ववधानं महदवधानम् ॥ ३०॥
विश्वास-प्रस्तुतिः
गुरुचरणाम्बुजनिर्भरभक्तः
संसाराद् अचिराद् भव मुक्तः ।
सेन्द्रियमानसनियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१॥
मूलम्
गुरुचरणाम्बुजनिर्भरभक्तः
संसाराद् अचिराद् भव मुक्तः ।
सेन्द्रियमानसनियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१॥
मूढः कश्चन वैयाकरणो
डुःकृङ्करणाध्ययनधुरीणः ।
श्रीमच्छङ्करभगवच्छिष्यैर्
बोधित आसीच् +छोधितकरणः ॥ ३२॥
विश्वास-प्रस्तुतिः
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
नामस्मरणादन्यमुपायं
नहि पश्यामो भवाब्धितरणे ॥ ३३॥
मूलम्
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
नामस्मरणादन्यमुपायं
नहि पश्यामो भवाब्धितरणे ॥ ३३॥