नारदपरिव्राजकोपनिषद् सुभाषितसङ्ग्रहः

[[नारदपरिव्राजकोपनिषद् सुभाषितसङ्ग्रहः Source: EB]]

[

नारदपरिव्राजकोपनिषत्

<3,12-16>
यदा मनसि सञ्जातं वैतृष्ण्यं सर्ववस्तुषु ।
तदा सन्न्यासमिच्छेत पतितः स्याद्विपर्यये ॥

विरक्तः प्रव्रजेद्धीमान् सरक्तस्तु गृहे वसेत् ।
सरागो नरकं याति प्रव्रजन् हि द्विजाधमः ॥

यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं करः ।
संन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥

संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया ।
प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ॥

प्रवृत्तिलक्षणं कर्म ज्ञानं सन्न्यासलक्षणम् ।
तस्माज्ज्ञानं पुरस्कृत्य सन्न्यसेदिह बुद्धिमान् ॥
</3,12-16>
<3,41-43>
सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥

सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।
न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥

क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥
</3,41-43>

<3,64-68>
अद्य जातां यथा नारीं तथा षोडशवार्षिकीम् ।
शतवर्षां च यो दृष्ट्वा निर्विकारः स षण्डकः ॥

भिक्षार्थमटनं यस्य विण्मूत्रकरणाय च ।
योजनान्न परं याति सर्वथा पङ्गुरेव सः ॥

तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम् ।
चतुर्युगां भुवं मुक्ता परिव्राट् सोऽन्ध उच्यते ॥

हिताहितं मनोरामं वचः शोकावहं च यत् ।
श्रुत्वापि न शृणोतीव बधिरः स प्रकीर्तितः ॥

सान्निध्ये विषयाणां यः समर्थोऽविकलेन्द्रियः ।
सुप्तवद् वर्तते नित्यं स भिक्षुर्मुग्ध उच्यते ॥
</3,64-68>
<5,21-26>
नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।
अतिवादांस्त्यजेत्तर्कान् पक्षं कञ्चन नाश्रयेत् ॥

न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् ।
न व्याख्यामुपयुञ्जीत नारम्भानारभेत् क्वचित् ॥

अव्यक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्तबालवत् ।
कविर्मूकवदात्मानं तद्दृष्ट्या दर्शयेन्नृणाम् ॥

न कुर्यान्न वदेत् किञ्चित् न ध्यायेत् साध्वसाधु वा ।
आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥

एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः ।
आत्मक्रीड आत्मरतिः आत्मवान् समदर्शनः ॥

बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् ।
वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् ॥
</5,21-26>
<6,5-8,12>
वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः ।
यस्यैते नियता दण्डा स त्रिदण्डी महायतिः ॥

विधूमे च प्रशान्तेऽग्नौ यस्तु माधुकरीं चरेत् ।
गृहे च विप्रमुख्यानां यतिः सर्वोत्तमः स्मृतः ॥

दण्डभिक्षां च यः कुर्यात् स्वधर्मे व्यसनं विना ।
यस्तिष्ठति न वैराग्ये याति नीचयतिर्हि सः ॥

यस्मिन् गृहे विशेषेण लभेद् भिक्षां च वासनात् ।
तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः ॥

यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् ।
स वर्णाश्रमान् सर्वानतीत्य स्वात्मनि स्थितः ॥
</6,5-8,12>


]