[[मुण्डकोपनिषद् सुभाषितसङ्ग्रहः Source: EB]]
[
** मुण्डकोपनिषत्**
<1,2-10>
इष्टापूर्तं मन्यमाना वरिष्ठं
नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृतेऽनुभू-
त्वेमं लोकं हीनतरं वा विशन्ति ॥
</1,2-10>
<2,2-8>
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥
</2,2-8>
<2,2-10>
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥
</2,2-10>
]