मैत्रेयोपनिषद् सुभाषितसङ्ग्रहः

[[मैत्रेयोपनिषद् सुभाषितसङ्ग्रहः Source: EB]]

[

मैत्रेय्युपनिषत्

<1,3,7>
यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।
तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥

स्वयोनावुपशान्तस्य मनसः सत्यगामिनः ।
इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ॥

चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।
यच्चित्तस्तन्मयो भवति गुह्यमेतत् सनातनम् ॥

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते ॥

समासक्तं यथा चित्तं जन्तोर्विषयगोचरे ।
य एवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥
</1,3-7>
<2,11-15>
विद्वान् स्वदेशमुत्सृज्य सन्न्यासानन्तरं स्वतः ।
कारागारविनिर्मुक्तचोरवद्दूरतो वसेत् ॥

अहङ्कारसुतं वित्तभ्रातरं मोहमन्दिरम् ।
आशापत्नीं त्यजेद्यावत्तावन्मुक्तो न संशयः ॥

मृता मोहमयी माता जातो बोधमयः सुतः ।
सूतकद्वयसम्प्राप्तौ कथं सन्ध्यामुपास्महे ॥

हृदाकाशे चिदादित्यः सदा भासति भासति ।
नास्तमेति न चोदेति कथं सन्ध्यामुपास्महे ॥

एकमेवाद्वितीयं यद्गुरोर्वाक्येन निश्चितम् ।
एतदेकान्तमित्युक्तं न मठो न वनान्तरम् ॥
</2,11-15>
<2,19-22,24>
यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ।
तदैव सन्यसेद्विद्वान् अन्यथा पतितो भवेत् ॥

द्रव्यार्थमन्नवस्त्रार्थं यः प्रतिष्ठार्थमेव वा ।
सन्न्यसेदुभयभ्रष्टः स मुक्तिं नाप्तुमर्हति ॥

उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम् ।
अधमा मन्त्रचिन्ता च तीर्थचिन्ताऽधमाधमा ॥

अनुभूतिं विना मूढो वृथा ब्रह्मणि मोदते ।
प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत् ॥

धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च ।
ते सर्वे ज्ञानवृद्धस्य किङ्कराः शिष्यकिङ्कराः ॥
</2,19-22,24>


]