[[कुण्डिकोपनिषत् सुभाषितसङ्ग्रहः Source: EB]]
[
** कुण्डिकोपनिषत्**
<9-13>
कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहौ ।
शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥
पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च ।
अतोऽतिरिक्तं यत्किञ्चित् सर्वं तत् वर्जयेद्यतिः ॥
नदीपुलिनशायी स्याद्देवागारेषु वाप्युत ।
नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् ॥
स्नानं पानं तथा शौचमद्भिःपूताभिराचरेत् ।
स्तूयमानो न तुष्येत निन्दितो न शपेत् परान् ॥
भिक्षादि वैदलं पात्रं स्नानद्रव्यमवारितम् ।
एतां वृत्तिमुपासीनो यतेन्द्रियो जपेत् सदा ॥
</9-13>
<24>
जले वापि स्थले वापि लुठत्वेष जडात्मकः ।
नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥
</24>
]