[[कठरुद्रोपनिषद् सुभाषितसङ्ग्रहः Source: EB]]
[
** कठरुद्र(श्रुति)उपनिषत्**
<32-33>
पाणिपात्रेणाशनं कुर्यादौषधवत् प्राश्नीयाद्यथालाभमश्नीयात् प्राणसन्धारणार्थं यथा मेदोवृद्धिर्न जायते कृशीभूत्वा। ग्राम एकरात्रं नगरे पञ्चरात्रं चतुरो मासान् वार्षिकान् ग्रामे वा नगरे वापि वसेत्। विशीर्णं वस्त्रं वल्कलं वा प्रतिगृह्य नान्यत् प्रतिगृह्णीयात्। यद्यशक्तो भवति येन क्लेशासहः स तप्यते तप इति ॥
</32-33>
Minor upanisads,
Vo1.1,Adyar.
<4-7>
नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् ।
स्तूयमानो न तुष्येत निन्दितो न शपेत् परान् ॥
दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः ॥
</4-7>
-----------------------------------------------
]