[[जाबालोपनिषद् सुभाषितसङ्ग्रहः Source: EB]]
[
** जाबालोपनिषत्**
<4>
स होवाच याज्ञवल्क्यः। ब्रह्मचर्यं परिसमाप्य गृही भवेत्। गृही भृत्वा वनी भवेत्। वनी भूत्वा प्रव्रजेत्। यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद्वा वनाद्वा ॥
अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरनग्निको वा यदहरेव विरजेत् तदहरेव प्रव्रजेत्। तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति। तदु तथा न कुर्यादाग्नेयीमेव कुर्यात् ॥
अग्निर्ह वै प्राणः प्राणमेवैतया करोति। पश्चात् त्रैधातवीयामेव कुर्यात्। एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति। अयं ते योनिऋत्वियो यतो जातः अरोचथाः। तं जानन्नग्न आरोहाथा नो वर्धय रयिम्। इति मन्त्रेणाग्निमाजिघ्रेत् ॥
एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ स्वाहेत्येवमेवैतदाह। ग्रामादग्निमाहृत्य पूर्ववदग्निमाघ्रापयेत्। यद्यग्निं न विन्देदप्सु जुहुयात्। आपो वै सर्वा देवताः। ओंसर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वा समुद्धृत्य प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रः त्रय्येवं विन्देत्। एतद्ब्रह्मेतदुपासितव्यम्। एवमेवैतद्भगवन्निति याज्ञवल्क्यः ॥
</4>
<5>
स होवाच याज्ञवल्क्यः। इदमेवास्य तद्यज्ञोपवीतं य आत्मापः प्राश्याचम्यायं विधिः परिव्राजकानाम्। वीराध्वाने वा अनाशके वा अपां प्रवेशे वा अग्निप्रवेशे वा महाप्रस्थाने वा। अथ परिव्राड् विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति। यद्यातुरः स्यान्मनसा वाचा सन्न्यसेत्। एष पन्था ब्रह्मणा हानुवित्तस्तेनैति सन्न्यासी ब्रह्मविदित्येवमेवैष भगवन् इति वै याज्ञवल्क्यः ॥
</5>
--------------------------------
]