ब्रह्मबिन्दूपनिषत् सुभाषितसङ्ग्रहः

[[ब्रह्मबिन्दूपनिषत् सुभाषितसङ्ग्रहः Source: EB]]

[

** ब्रह्मबिन्दूपनिषत्**
<2>

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्तं निर्विषयं स्मृतम् ॥

<5>
तावदेव निरोद्धव्यं यावद्हृदि गतं क्षयम् ।
एतज्ज्ञानं च मोक्षं च अतोऽन्यो ग्रन्थविस्तरः ॥

<12>
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥

<17>
द्वे विद्ये वेदितव्ये हि शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥

<18>
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥

<20>
घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् ।
सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥

<21>
ज्ञाननेत्रं समादाय चरेद्वह्निमतः परम् ।
निष्फलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥



]