बृहत्सन्न्यासोपनिषत् सुभाषितसङ्ग्रहः

[[बृहत्सन्न्यासोपनिषत् सुभाषितसङ्ग्रहः Source: EB]]

[

बृहत्सन्न्यासोपनिषत्

<2,35-42>
न मे भोगस्थितौ वाञ्छा न मे भोगविसर्जने ।
यदायाति तदायातु यत् प्रयाति प्रयातु तत् ।

मनसा मनसि च्छिन्ने निरहङ्कारतां गते ।
भावेन गलिते भावे स्वस्थस्तिष्ठामि केवलः ॥

निर्भावं निरहङ्कारं निर्मनस्कमनीहितम् ।
केवलानन्दशुद्धात्मन्येव तिष्ठति मे रिपुः ॥

तृष्णारज्जुगणं छित्त्वा मच्छरीरकपञ्जरात् ।
न जाने क्व गतोड्डीय निरहङ्कारपक्षिणी ॥

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
यः समः सर्वभूतेषु जीवितं तस्य शोभते ॥

योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया ।
साक्षिवत् पश्यतीदं हि जीवितं तस्य शोभते ॥

येन सम्यक् परिज्ञाय हेयोपादेयमुज्झता ।
चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते ॥

ग्राह्यग्राहकसम्बन्धे क्षीणे शान्तिरुदेत्यलम् ।
स्थितिमभ्यागता शान्तिर्मोक्षनाम्नाभिधीयते ॥
</2,35-42>
<2,62-71,99,100>
नक्ताद्वरश्चोपवास उपवासादयाचितम् ।
अयाचिताद्वरं भैक्ष्यं तस्माद्भैक्ष्येण वर्तयेत् ॥

नैव सव्यापसव्येन भिक्षाकाले विशेद् गृहान् ।
नातिक्रामेद् गृहं मोहाद् यत्र दोषो न विद्यते ॥

श्रोत्रियान्नं न भिक्षेत श्रद्धाभक्तिबहिष्कृतम् ।
व्रात्यस्यापि गृहे भिक्षेच्छ्रद्धाभक्तिपुरस्कृते ॥

माधूकरमसङ्क्लृप्तं प्राक्प्रणीतमयाचितम् ।
तात्कालिकं चोपपन्नं भैक्षं पञ्चविधं स्मृतम् ॥

मनःसङ्कल्परहितांस्त्रीन् गृहान् पञ्च सप्त वा ।
मधुमक्षिकवत् कृत्वा माधूकरमिति स्मृतम् ॥

प्रातःकाले च पूर्वेद्युर्यद्भक्तैः प्रार्थितं मुहुः ।
तद्भैक्षं प्राक् प्रणीतं स्यात् स्थितिं कुर्यात्तथापि वा ॥

भिक्षाटनसमुद्योगाद् येन केन निमन्त्रितम् ।
अयाचितं तु तद्भैक्षं भोक्तव्यं च मुमुक्षुभिः ॥

उपस्थानेन यत् प्रोक्तं भिक्षार्थं ब्राह्मणेन तत् ।
तात्कालिकमिति ख्यातं भोक्तव्यं यतिभिः सदा ॥

सिद्धमन्नं यदानीतं ब्राह्मणेन मठं प्रति ।
उपपन्नमिति प्राहुर्मुनयो मोक्षकाङ्क्षिणः ॥

चरेन्माधूकरं भैक्षं यतिर्म्लेच्छकुलादपि ।
एकान्नं न तु भुञ्जीत बृहस्पतिसमादपि ॥

रथ्यायां बहु वस्त्राणि भिक्षा सर्वत्र लभ्यते ।
भूमिः शय्यास्ति विस्तीर्णा यतयः केन दुःखिताः ॥

प्रपञ्चमखिलं यस्तु ज्ञानाग्नौ जुहुयाद्यतिः ।
आत्मन्यग्नीन् समारोप्य सोऽग्निहोत्री महायतिः ॥
</2,62-71,99,100>


]