[[छान्दोग्योपनिषत् सुभाषितसङ्ग्रहः Source: EB]]
[
** छान्दोग्योपनिषत्**
<1,1-10>
नाना तु विद्या चाविद्या च, यदेव विद्यया करोति ।
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ॥
</1,1-10>
<2,1-1>
समस्तस्य खलु साम्नोपासनं साधु ।
यत्खलु साधु तत्सामेत्याचक्षते ।
यदसाधु तदसामेति ।
</2,1-1>
<3,14-1>
अथ खलु क्रतुमयः पुरुषो भवति,
यथा क्रतुरस्मिंल्लोके पुरुषो भवति,
तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥
</3,14-1>
<3,18-2>
तदेतच्चतुष्पाद् ब्रह्म वाक् पादः प्राणः ।
पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्मम् ।
अथाधिदैवमग्निः पादो वायुः पाद
आदित्यः पादो दिशः पाद इत्युभयमे-
वादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥
</3,18-2>
<5,2-8>
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ॥
तस्मिन् स्वप्ननिदर्शने ॥
</5,2-8>
<5,24-1>
स य इदमविद्वानग्निहोत्रं जुहोति,
यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक् तत्स्यात् ॥
</5,24-1>
<5,24-5>
यथेह क्षुधिता बाला मातरं पर्युपासते,
एवं सर्वाणि भूतान्यग्निहोत्रमुपासते ॥
इत्यग्निहोत्रमुपासते ॥
</5,24-5>
<6,5,4;6,5;7-6>
अन्नमयं हि सोम्य मनः, आपोमयः, प्राणस्तेजोमयी वागिति (भूय एव मा भगवान् विज्ञापयतु।)
</6,5,4;6,5;7-6>
<7,8-1>
बलेन वै पृथिवी तिष्ठति, बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति ।
</7,8-1>
<7,26-2>
न पश्यो मृत्युं पश्यति त रोगं नोत दुःखताम् ।
सर्वँह पश्यः पश्यति सर्वमाप्नोति सर्वश इति ॥
</7,26-2>
<8,6-6>
शतं चैका च हृदयस्य नाड्य-
स्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति
विष्वङ्डन्या उत्क्रमणे भवन्ति ॥
</8,6-6>
]