[[आरुण्युपनिषत् सुभाषितसङ्ग्रहः Source: EB]]
[
आरुण्युपनिषत्
<4>
खलु वेदार्थं यो विद्वान् सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत्। पितरं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह। सन्न्यस्तं मया सन्न्यस्तं मया सन्न्यस्तं मयेति त्रिष्कृत्वाभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते। सखा मा गोपायोजः सखा योऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेत्यनेन मन्त्रेण कृत्वोर्ध्वं वैष्णवं दण्डं कौपीनं परिग्रहेन्नान्यत्। अथ भिक्षाचर्यं चरन्ति। ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन हे रक्षत हे रक्षत हे रक्षत इति ॥
]