[[तृतीयप्रवाहः टिप्पणियुतः Source: EB]]
[
** जीव-तरङ्गः।
राजा।**
(118)
<3-118>
भूपः कूप इवाभाति नमज्जनसुखावहः।
ददाति गुणसम्बन्धान्नित्यं पात्रानुसारतः॥
टि—
भूपे कूपसाधर्म्यं दर्शयति भूप इति। नमज्जनसुखावहः–कूपो हि मज्जनेन अवगाहनेन यत् सुखं तत् आवहति जनयति यस्तादृशो न। पक्षे नमतां नम्राणां जनानां सुखावहः सुखजनकः। कूपस्तावत् गुणसम्बन्धात् रज्जुसंयोगात् पात्रानुसारतः घटीघटादिभेदानुसारेण, यादृक् पात्रं तादृगित्यर्थः। नित्यं ददाति पय इति शेषः पक्षे गुणसम्बन्धात् विद्यागुणवत्तया हेतुना, पात्रानुसारतः योग्यायोग्यव्यक्तिभेदेन। अन्यत् सुगमम्।
</3-118>
<3-119>
राजसभा।
(119)
पयसा कमलं कमलेन पयः
पयसा कमलेन विभाति सरः
मणिना वलयं वलयेन मणि-
र्मणिना वलयेन विभाति करः।
शशिना च निशा निशया च शशी
शशिना निशया च विभाति नभः
कविना च विभुर्विभुना च कविः
कविना विभुना च विभाति सदः॥
टि—
श्लोकेऽस्मिन् चतुर्विंशत्यक्षरवृत्तम्; वृत्तचन्द्रिकामते द्रुमिला-च्छन्दः, वाग्वल्लभमते तु द्विमिला-च्छन्दः।
</3-119>
<3-120>
मन्त्री।
(120)
मन्त्रिगुणावलीमाह :–
शास्त्रज्ञः कपटानुसारकुशलो वाग्मी तु तो कोपन-
स्तुल्यो मित्रपरस्वकेषु चरितं दृष्ट्वैव दत्तोत्तरः।
शिष्टान् पालयिता शठान् व्यथयिता धर्म्मेऽतिलोभान्वितो
कार्य्यार्थी परतत्त्वबद्धहृदयो राज्ञश्च कोपापहः॥
</3-120>
<3-121>
साधारणराज-स्तुतिः
(121)
कश्चित् कविः कञ्चिद् राजानं स्तौति :–
सर्वदा सर्वदोऽसीति स्तूयसे नृपते वृथा।
नारयो लेभिरे पृष्ठं न नेत्रं परयोषितः॥
टि—
सर्वं ददासीति सर्वदः। वृथा–मिथ्या, स्तूयसे त्वमिति शेषः। सर्वशब्दस्य सङ्कोचं दर्शयित्वा सङ्कोचं दर्शयित्वा वृथात्वमुपपादयति नेति। अरयः पृष्ठं पृष्ठदेशं तवेति शेषः न लेभिरे त्वं कदापि रणभङ्गेन पलायमानः शत्रूणां स्वस्य पृष्ठं न दत्तवान्, शत्रून् पृष्ठप्रदशन न कारितवानसीत्यर्थः। अपिच परयोषितः परस्त्रियः नेत्रं त्वदीयनेत्रपातं न लेभिरे इति शेषः। शत्रुभिस्तव पृष्ठं परस्त्रीभिश्च नेत्रं त्वत्तः कदाचिन्न लब्धम्। अत एतदुभयोरप्रदानं भवतः सर्वदातृत्वं व्याहन्ति। एतेन राज्ञोऽसाधारणं वीरत्वं जितेन्द्रियत्वञ्चेति व्याजस्तुतिरलङ्कारः।
</3-121>
<3-122>
(122)
लक्ष्मीर्यत्र न गीस्तत्र यत्र गीस्तत्र नो रमा।
ते यत्र विनयो नास्ति सा च सा च स च त्वयि॥
टि—
गीः–सरस्वती, शास्त्रज्ञानमिति यावत्। रमा–लक्ष्मीः, धनप्राचुर्य्यमित्यर्थेः। तं–लक्ष्मीसरस्वत्यौ। विनयो नास्ति–तत्रेति शेषः। सा–लक्ष्मीश्च। सा–गीश्च। स–विनयश्च, ऐते त्वयि सन्ति। अतः साधारणधनिविद्वङ्ग्यो विलक्षणोऽसीति भावः। धनवन्तो विद्यावन्तश्च प्रायश उद्धता दृश्यन्ते। त्वयि–अत्र तुकारोऽध्याहार्य्यः।
</3-122>
<3-123>
(123)
कल्पवृक्षो न जानाति न ददाति वृहस्पतिः।
भवांस्तु जगतीजानिर्जानाति च ददाति च।
टि—
न जानाति-न ज्ञानवान् इत्यर्थः। न ददाति–न दाता इत्यर्थः। जगती जाया यस्य सः, जायाया जानिरादेशः। जगतीशब्दोऽत्र पृथिव्यर्थे प्रयुक्तः। तेन भूगतस्यापि भवतः स्वर्गतबृहस्पतिकल्पवृक्षापेक्षया गुणोत्कर्ष इति सूचितम्।
</3-123>
<3-124>
(124)
ते कौपीनधनास्त एव हि परं धात्रीफलं भुञ्जते
तेषां द्वारि न दन्तिवाजिनिवहास्तैरेव लब्धा क्षितिः।
तैरेवं समलङ्कृतं निजकुलं किं वा बहु ब्रूमहे
ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा॥
टि—
ते जनाः कौपीनधनाः–कौपीनमात्रावलम्बिनः ; पक्षे कौ पृथिव्यां पीनधनाः प्रचुरविभवाः। धात्रीफलम्–आमलकीफलम् अन्यभोज्याभावात् ; पक्षे धाव्याः पृथिव्याः फलं भोगैश्वर्य्यादिकम्। न दन्तिवाजिनिवहाः–हस्त्यश्वसमूहाः न; पक्षे वाजिनिवहाः अश्वसमूहाः नदन्ति शब्दायन्ते। क्षिति–क्षयः विनाश इति यावत्; पक्षे क्षितिर्भूमिः राज्यमित्यर्थः। निजकुलं समलं कलङ्कितं कृतम्; पक्षे समलङ्कृतं सम्यग् भूषितं। परमेश्वरेण–सम्राजा।
</3-124>
<3-125>
(125)
धनुरिव गुणयोगात् सन्नतो नासि वक्रो
विधुरिव रुचिमत्त्वात् सुन्दरो नो कलङ्की।
जलधिरिव गभीरो नाप्रतीतो महत्त्वात्
सकलगुणनिधानं त्वन्तु दोषेण शून्यः॥
(रामतारण-शिरोमणेः)
टि—
गुणयोगात्–ज्यासंयोगात्; पक्षे शोलसीजन्यादिगुणसम्बन्धात् सन्नतः–अवनतकायः; पक्षे विनयनम्रः इति धनुषा सह साम्येऽपि धनुर्वक्रं त्वन्तु वक्रस्वभावो न। रुचिमत्त्वात्–कान्तिमत्त्वात्। विधुः–कलङ्की, त्वन्तु न तथा। गभीरः–अतलस्पर्शः; पक्षे गाम्भीर्य्यगुणयुक्तः। अप्रतीतः–अविश्वस्तः, जलधिर्बहुहिंस्रजलचरसमाकुलत्वाद् अविश्वस्तः; त्वन्तु विश्वस्त, धनुराद्युपमानानां गुणा एव त्ययि सन्ति न तु तेषां दोषा इति तेभ्यः समुत्कर्षख्यापनाद् त्यतिरेकालङ्कारः।
</3-125>
<3-126>
(126)
त्वामुर्वीधर रम्यकाव्यकरणे सेनावने भाषणे
त्राणे व्याकरणे रणे वितरणए विश्वम्भराभूषणे।
सत्यं सत्यवतीभये शरभये वागीशये विष्णये
दाक्षीकुक्षिभये पृथोदरभये देवद्रये मेरये॥
टि—
हे उर्वीधर राजन् रम्यकाव्यकरणे त्वां सत्यं निश्चितं सत्यवतीभये–सत्यवती भूरुत्पत्तिस्थानं यस्य स सत्यवतीभूः द्वैपायनो व्यासः तं आचक्षे. सत्यवतीभि इति णिजन्तनामधातोर्लट् ए। एवं परत्रापि। सेनावने–सैन्यगहने यद्वा सैन्यरक्षणे। शरभये–शरभूः कार्त्तिकेयः तम् आचक्षे; शरभि इति नामधातोः पूर्ववद् रूपम्। भाषणे–संलापे। वागीशये वागीशं वृहस्पतिम् आचक्षे। त्राणे–रक्षणे विषये। विष्णये–विष्णुम् आचक्षे। व्याकरणे–दाक्षोकुक्षिभये दाक्षी पाणिनिजननी तस्याः कुक्षिः उदरं तस्माद् भूरुत्पत्तियस्य स दाक्षीकुक्षिभूः पाणिनिः तम् आचक्षे। रणे–युद्धे। पृथोदरभये–पृथा कुन्ती तस्या उदरं भूरुत्पत्तिस्थानं यस्य स तम् अर्जुनम् आचक्षे। वितरणे–दाने। देवद्रये–देवद्रुः कल्पवृक्षः तम् आचक्षे, सर्व्वेषां सर्वाभीष्टप्रदस्वम् इत्यर्थः। विश्वम्भराभूषणए–विश्वम्भरायाः पृथिव्याः भूषणे अलङ्करणे। मेरये–मेरुः हेमाद्रिः तम् आचक्षे। सर्वत्न अहमिति शेषः। अन्ये जना यद्यदगुणवत्तया जगति तैः सह उपमीयन्ते, त्वं हि तत्सर्वोपमानभूतोऽसीति भावः।
</3-126>
<3-127>
विशिष्टराज-स्तुतिः।
(क) हिन्दुराज-गणः।
अनङ्गभीमः।
(127)
पृथ्वी श्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः
पीतोऽसौ कलसोद्भवेन मुनिना स व्योम्नि खद्यातवत्।
तद् विष्णोर्दनुजाधिनाथजयिनः पूर्णं पदं नाभव-
च्चित्ते ते रमया सदास्ति स हरिस्त्वत्तो महान् नापरः॥
(सार्वभौमस्य)
टि—
असौ–वारिधिः। स–मुनिः अगस्त्य इति शेषः। तद्–व्योम। पदं–चरणम्। साम्प्रतं पुरीधाम्नि जगन्नाथदेवस्य यन्मन्दिरं दृश्यते तस्य निर्म्माणमनेनैव राज्ञा कारितमिति प्रसिद्धिः।
</3-127>
<3-128>
कृष्णाचन्द्रः।
(128)
अथैकदा नवद्वीपाधिपतिना महाराजकृष्णचन्द्रेण स्थापितायाः कालीमर्त्तेर्मणिमुकुटरवं चोरितम्। पुरोधसा हरनाथेन कृतमेतदिति सञ्जातसंशयानां जनानां मतमनुसृत्य नृपस्तं कठोरं दण्डयितुमादिदेश। पुरोहितस्तु शासनभिया राजकर्म्मचारिणां मन्त्रणआमनुसरन् निरतां नृपप्रियं सभापण्डितं बाणेश्वरविद्यालङ्कारमुपेत्य सकलभेव व्यजिज्ञपत्। स च वक्ष्यमाणश्लोकं हरनाथहस्तेन राजान्तिके प्रेषयामास :–
जले लवणवल्लीनं मानसं तन्मनोहरम्।
मनोजिहीर्षया दव्याः किरीटं हरते हरः॥
(बाणेश्वर-विद्यालङ्कारस्य)
टि—
मानसं मदीयमिति शेषः जले लवणवत् देव्यां लीनं तन्मयम् आसीत्। अतस्तत् प्रतिहर्त्तुं न शक्नोमि, इति पराभवं प्रतिकर्त्तुं हरः महादेवः पक्षे हर-नामकः पुरोहितः देव्या मनोजिहीर्षया चित्तं हर्त्तुमिच्छया तन्मनोहरं तस्या देव्या मनोहरं चित्ताकर्षकं किरीटं मुकुटं हरते चोरयति।
</3-128>
<3-129>
(129)
कथं बालगोपालस्य एकश्चरणः पश्चादभागे करश्चैकः सम्मुखे प्रसारित इति कृष्णचन्द्रेण पृष्टस्य बाणेश्वरस्योक्तिरियम् :–
पाणौ मे नवनीतपुञ्जमधुना हारश्च वक्षःस्थले
चूड़ायामपि चारुचन्द्रकशिखा कुत्रास्ति चित्तं हृतम्।
पादाब्जे वचसेति जानु धरणौ संपात्य संगोपयन्
गोपालो हरिरेष तस्करतया खिन्नः स्वयं पातु वः॥
(बाणेश्वर-विद्यालङ्कारस्य)
</3-129>
<3-130>
(130)
एकदा जनन्या आद्यश्राद्धवासरे हस्तिनं दातुकामेन महाराजकृष्णचन्द्रेण कुतश्चित् कारणात् कम्पमानं तं गजमवलोक्य तत् कारणं पृदस्य बाणेश्वरविद्यालङ्कारस्योक्तिरियम् :–
हस्तन्यस्तुकुशोदके त्वयि न भूः सर्वंसहा कम्पते
देवागारतयैव काञ्चनगिरिश्चित्ते न धत्ते भयम्।
अज्ञातद्विपभक्ष्यभिक्षुभवनप्रस्थानदुःश्थाशया
वेपन्ते मददन्तिनो नरपतेः श्रीकृष्णचन्द्रस्य ते॥
(बाणेश्वर-विद्यालङ्कारस्य)
टि—
इस्तन्यस्तकुशोदके–दानार्थं कुशवारि गृह्णति सति। भूः–पृथिवी। न कम्पते–यस्मै कस्मैचिद् दानाशङ्कयेत्यर्थः। सर्वंसहा–यतः सा निखिलं क्लेशं सहितुं समर्था। देवागारतया–देवानां निवासस्थानतया। काञ्चनगिरिः–सुमेरुः। न ज्ञातं द्विपानां हस्तिनां भक्ष्यं येन तादृशस्य भिक्षोर्भवने प्रस्थानेन या दुःस्था दुःखेनावस्थितिः तस्या आशया शङ्कया।
</3-130>
<3-131>
गङ्गागोविन्दः।
(131)
वङ्गदेशीयेन प्रथितयशसा भूस्वामिना गङ्गागोविन्द-सिंहेन प्रेषितानां गोलालूनां लाभेन नितरां परितुष्टस्य जगन्नाथतर्कपञ्चाननस्योक्तिरियम् :–
निरञ्जनं सुदुष्प्रापं सर्वव्यञ्जनरञ्जनम्।
प्राप्तं श्रीगङ्गागोविन्दादु गोलालु ब्रह्मवन्मया॥
(जगन्नाथ-तर्कपञ्चाननस्य)
टि—
निरञ्जनम्–निर्म्मलम्, उत्कृष्टमित्यर्थः; पक्षे अञ्जनशून्यं पवित्रमित्यर्थः। मुदुष्प्रापम्–उभयपक्षे मुदुर्लभम्। सर्वव्यञ्जनरञ्जनम्–सर्व्वेषु अन्नभोजनस्य उपकरणेषु सुखदायक्; पक्षे सर्व्वेषां सर्गादौ अव्यक्तानां पदार्थानां व्यञ्जनेन सगुणावस्थायां व्यक्तीकरणेन रञ्जनं लोकप्रत्यक्षीभोवजननम्।
</3-131>
<3-132>
नन्दकुमारः।
(132)
परमसखस्यापि महाराजस्य नन्दकुमारस्य भवने उत्सवनिबन्धनं निमन्त्रणमनाप्नुवता जगन्नाथतर्कपञ्चाननेन तमुद्दिश्य लिखितेयं लिपिः :–
त्वञ्चच्चारयसे मुदा बहुगवानं दिग्दन्तिनां का क्षतिः
पत्रैर्मस्तकभूषणानि कुरुषे स्वर्णस्य किं लाघवम्।
गोपीपादतले सदा पतसि चेत् किं निन्द्यते स्वर्वधूः
किं ब्रूमो वत कुञ्जघट्टनृपते श्रीनन्दबालाऽधुना॥
(जगन्नाथ-तर्कपञ्चाननस्य)
टि–
कुञ्जघट्टनृपते–मुर्शिदावादप्रदेशान्तर्गतं कुञ्जघठ्ठनामकं स्थानं महाराजनन्दकुमारस्य वासस्थानमिति प्रसिद्धिः।
</3-132>
<3-133>
नवकृष्णः।
(133)
एकदा जगन्नाथतर्कपञ्चाननो वृद्धिरोगदुष्टस्य कस्यचित् छात्त्रस्योपकारार्थं महाराजं नवकृष्णं प्रति अनुरोधपत्रमिदं प्रदत्तवान् :–
द्वितीयभूतभूयिष्ठा मूर्त्तिरल्पाद्यसम्भवा।
अस्या- पार्थिवसम्बन्धे यतनीयं क्षितीश्वरैः॥
(जगन्नाथ-तर्कपञ्चाननस्य)
टि–
द्वितीयभूतभूयिष्ठा–जलबहुला। अल्पाद्यसम्भवा–स्वल्पक्षितिका। अस्याः–मूर्त्तेः। पार्थिवसम्बन्वः–भूमिसम्पर्कः; पक्षे पाथिवस्य राज्ञस्तव सम्बन्धः कृपाट्टष्टिरिति यावत्। यथा जलबहुलं स्वल्पक्षितिकं हि द्रव्यं अधिकतरक्षितिसंयोगं विना न कुत्राप्युप युज्यते, तद्विदियमपीति भावः।
</3-133>
<3-134>
(134)
कलिकातास्थ-शोभावाजार-निवासिना महाराजेन नवकृष्णेन प्रेषितानां कमलानिम्बुकानां लाभेन नितख परितुष्टस्य जगन्नाथतर्कपञ्चाननस्योक्तिरियम् :–
अगस्त्यवंशसम्भूता वयं वातापिभक्षकाः।
नवकृष्णप्रसादात्तु कमलारसपायिनः॥
(जगन्नाथ-तर्कपञ्चाननस्य)
टि—
अगस्त्यवंशसम्भूताः–अगस्त्यकुलजाता ब्राह्मणा इत्यर्थः। वातापि असुरविशेषः; पक्षे निम्बुविशेषः। नवकृष्णः–नूतनावतारो श्रीकृष्णः; पक्षे तन्नामको महाराजः। कमला–निम्बुविशेषः; पक्षे नवकृष्णमहाराजस्य सहधर्म्मिणी।
</3-134>
<3-135>
प्रतापादित्यः।
(135)
महाराजप्रतापादित्यस्य दानस्य दानयशःप्रतापान् वर्णयति :–
दानाम्बुसेकशीतार्त्ता यशोवसनवेष्टिता।
त्रिलोकी ते प्रतापार्कं प्रतापादित्य सेवते॥
(अविलम्ब-सरस्वत्याः)
</3-135>
<3-136>
राजसिंहः।
(136)
कदाचित् इदिलपुरनिवासिना निमन्त्रितेन चन्द्रमणिन्थायभूषणेन सुसङ्गाधिपालयमागत्य कथिर्तं राजन् पथि चक्रवाकमिथुनस्य कथोपकथनादेव सर्वैव भवतः क्रियाकलापवार्त्ता मया ज्ञातेति :–
इत्यूचे चक्रवाकं वचनमनुदिनं दुःखभाक् चक्रवाकी
क्वापि स्यादेष देशो न भवति रजनी यत्र हे प्राणनाथ।
कान्ते चिन्तां त्यज त्वं दिनकरकिरणच्छादकस्याद्य मेरो-
र्मूले दत्त्वाऽस्ति हस्तं विविधबुधमुदे राजसिंहः प्रदाता॥
(चन्द्रमणि-न्यायभूषणस्य)
</3-136>
<3-137>
वर्द्धमान-राजः।
(137)
एकदा बाणेश्वरोऽर्थं भिक्षितुं वर्द्धमानराजसदनमुपगम्य शिवपूजानिरतो नरपतिर्नायमवसरः साक्षात्कारस्येति निशम्य दौवारिकमुवाच–ब्रूहि मद्वचनाद् राजानं “त्वं यस्य पूजायां व्यापृतः स शिवः पञ्चत्वं गतः। तस्य विभवादयोऽपि सर्वैरेव विभव्य गृहीताः। मयापि तस्य एकं द्रव्यं लब्धम्। तदेव भवन्तं दर्शयितुमिहागतः।” तदाकर्ण्य राजा बाणेश्वरमानाय्य पप्रच्छ किं त्वया लब्धमिति। स आह :–
अर्द्धं दानववैरिणा गिरिजयाऽप्यर्द्धं हरस्याहृतं
देवत्वं धरणीतले स्मरहराभावे समुन्मीलति।
गङ्गा वारिधिमम्बरं शशिकला नागाधिपः क्षमातलं
सर्वज्ञत्वमधीश्वरत्वमगमत् त्वां माञ्च भिक्षाश्रयः॥
(शङ्करकवेः, केषाञ्चिन्मते बाणश्वर-विद्यालङ्कारस्य)
टि—
भिक्षाश्रयः–भिक्षालब्धद्रव्यस्य पात्रम्।
</3-137>
<3-138>
(138)
चन्देर या कृष्णरेखा सा तस्य न दोषचिह्नमित्याह :–
त्वत्कीर्त्तिशीतकिरणेऽभ्युदितेऽतिसाध्वी
रोहिण्यपि स्वपतिसंशयजातशङ्का।
श्रीवर्द्धमाननृप कज्जललाञ्छनेन
प्रेयांसमाङ्कयदसौ न विधौ कलङ्गः॥
(जयगोपाल-तर्कालङ्कारस्य)
टि—
त्वत्कीर्त्तिशीतकिरणे–तव यशोरूपचन्द्रे। रोहिणी–चन्द्रपत्नी। स्वपतीत्यादि–स्वस्याः पतिः तस्मिन् संशयः उभयोः सौन्दर्य्यादिना तुल्यत्वात् को मे पतिरिति सन्देहस्तेन जातशङ्का पातिव्रत्यभङ्गभयेन भीता सती। कज्जललाञ्छने–कृष्णवर्णाञ्जनचिह्नेन। प्रेयासं–प्रियतमं गगनचन्द्रम्। आङ्कयत्–अङ्कतमकरोत्। कलङ्गः–कुकर्म्मजो दोषः।
</3-138>
<3-139>
वीरबालः।
(139)
जम्बुद्वीपपुरप्रकाशनकरी स्नेहक्षमाधायिनी
नीत्यद्गीर्णमसीततिः खलजनश्रेणीपतङ्गान्तकृत्।
गाजीन्द्राकवरक्षितीश्वरवरस्वान्तान्धकारापहा
धन्या वीरबलस्य भारतगृहे दीपोपमा लेखनी॥
</3-139>
<3-140>
(ख) मुसलमान-नवावगणः।
आलीवर्द्दिः।
(140)
गुप्तपल्लीवास्तव्यः कविकुलतिलको बाणेश्वरविद्यालङ्कारस्तदानीं कवित्वेन समग्रवङ्गाधिपतिं नवावालिवर्द्धिं, नवद्वीपाधिपतिं महाराजं कृष्णचन्द्रं, कलिकाता-शोभावाजारनिवासिनं भूपतिं नवकृष्णञ्च परं परितोषयामास। अथैकदा स स्वस्य चित्तं सम्बोध्य इदमुवाच :–
आलीवर्द्दिनवावमप्यथ नवद्वीपेश्वरञ्चाश्रितं
तत्पश्चान्नवकृष्णभूपतिममुं रे चित्त वित्ताशया।
सर्वत्रैव नवेतिशब्दघटितं त्वञ्चेत् कमालम्बसे
तद् देवं परमार्थदं नवघनश्यामं कथं मुञ्चसि॥
(बाणेश्वर-विद्यालङ्कारस्य)
टि—
आलीवर्द्दिनवावं–वङ्गविहारोत्कलानामधिपतिम्। नवद्वीपेश्वरं–नवद्वीपाधिपतिं महाराजं कृष्णचनद्रम्। नवकृष्णभूपतिम्–कलिकाता-शोभावाजाराधिपतिं नवकृष्णम्।
</3-140>
<3-141>
सिराजद्दौला।
(141)
उपरते आलीवर्द्दिनवावे तद्दौहित्रः मन्सूर्-उल्-मुल्क्-सिराजद्दौला-नवावो ब्राह्मणपण्डितान् निमत्रियतुमिच्छन् श्लोकरचनार्तं महाराजं कृष्णचन्द्रमनुरुरुधे। स च श्लोकमिमं तदन्तिके प्रेषयामास :–
खोदापादारविन्दद्वयभजनपरो मातृतातो मदीय
आलीवर्द्दीनवावो विविधगणयुतोऽल्लामुखः पश्चिमास्यः।
मर्त्त्यं देहं जहौ स्वं मुनसरमुलुकः सीरजद्दौलनामा
याचेऽहं मां भवन्तो गलधृतवसनः शुद्धतां मंनयन्ताम्॥
(बाणेश्वर-विद्यालङ्कारस्य)
टि—
मातृतातः–मातामहः आलिवर्द्दिनवाव इत्यर्थः। अल्लामुखः–अल्लेति परमदेवताया नाम मुखे यस्य सः। मुनसुरमुलुकः–सिराजद्दौला-नवावस्य नामान्तरम्।
</3-141>
<3-142>
(ग) मोगलसम्राड्गणः।
वावरः।
(142)
वैकुण्ठाभिप्रणीतः कमलयुतशिराः कुञ्जराकृष्टदृष्टिः
कोदण्डोदारनामाप्यमितपरिजनो विश्वविख्यातकर्त्तिः।
मुन्दर्य्यासक्तचित्तः समरणविजयी कङ्कणाहारयुक्तो
वीर श्रीवावराख्य त्वमवि तव रिपुर्हन्त मुक्तादिवर्णः॥
(शालिकनाथस्य)
टि—
मुक्तादिवर्णः–खण्डिताद्याक्षरः; श्लोकेऽत्र शत्रुपक्षे आद्याक्षरत्याग इत्यर्थः. वैकुण्डाभिप्रणीतः–(सम्राट्पक्षे) वैकुष्ठः विष्णुः अभिप्रणीतः आराधितः येन सः; (शत्रुपक्षे)—कुण्ठा सङ्कोचः अभिप्रणीता सम्यग्रचिता येन सः। कोदण्डोदारनामा–(सम्राट्पक्षे) कोदण्डेन धनुषा उदारं प्रशस्तं नाम यस्य सः; (शत्रुपक्षे)–दण्डेन दण्डप्राप्त्या उदारं विख्यातं नाम यस्य सः, दण्डग्रहणएन अपयशोभागीत्यर्थः। अन्यत् सुगमम्।
</3-142>
<3-143>
आकबरः।
(143)
कर्णाटं देहि कर्णाधिकविधिविहितत्याग लाटं ललाट-
प्रोत्तुङ्ग द्राविड़ं वा प्रबलभुजबलप्रौढ़मागाढ़राढ़म्।
प्रस्फूर्जद्गुर्ज्जरं वा दलितरिपुवधूगर्भ वैदर्भकं वा
गाजी राजीवदृष्टे कुशशतमथवा साहजल्लालुदीन॥
(नायक-गोपालस्य)
</3-143>
<3-144>
सेरसाहः।
(144)
कस्याञ्चिद् वाचि कैश्चिन्ननु यदि निहितं दूषणं दुष्टचित्तैः
किं मालिन्यं तदा स्यात् प्रथितगुणवतां काव्यकोटीश्वराणाम्।
वाहाश्चेद् गन्धवाहाधिकविहितजवाः पञ्चशश्चान्धखञ्जाः
का हानिः सेरसाहक्षितिपतितिलकस्याश्वकोटीश्वरस्य॥
(भट्टमल्लस्य)
टि—
गन्धवाहाधिकविहितजवाः–वायोरप्यधिकवेगशालिनः।
</3-144>
<3-145>
जाहार्ङ्गीरः।
(145)
श्यामं यज्ञोपवीतं तव किमिति मसीसङ्गमात् कुत्र जातः
सोऽयं तिग्मांशुकन्यापयसि कथमभूत् तज्जलं कज्जलाभम्।
व्याकुप्यन्नरदीनक्षितिरमणरिपुणौणिभृत्पक्ष्मलाक्षी-
लक्षाक्षीणाश्रुधारासमुदितसरितां सर्वतः सङ्गमेन॥
(पण्डितराज-जगन्नाथस्य)
टि—
सोऽयं–मसीसङ्गमः। तिम्मांशुकन्या–सूर्य्यतनया, यमुना इति यावत्। नूरदीनः–जाहाङ्गीर-वादसाहस्य नामान्तरम्।
</3-145>
<3-146>
साजाहानः।
(146)
भूमीनाथ सहाजहान भवतस्तुल्यो गुणानां गणै-
रेतद्भूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे।
धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये-
न्न स्यादेव तथापि तावकतुलालेशं दधानो नरः॥
(पण्डितराज-जगन्नाथस्य)
</3-146>
<3-147>
(147)
शास्वाण्याकलितानि नित्यविधयः सर्वेऽपि सम्भाविता
दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः।
सम्प्रत्युज्झितमासनं मधुपुरीमध्ये हरिः सेव्यते
सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम्॥
(पण्डितराज-जगन्नाथस्य)
टि—
सम्भाविताः–सादरं कृताः। दिल्लीवल्लभः–अत्र साजाहान-वादसाहः। आसनं–वासस्थानं आग्रानगरीत्यर्थः। मधुपुरी–मथुरा।
</3-147>
<3-148>
दारा।
(148)
अनुकूलभावमथवा
प्रतिकूलत्वं सहैव नरलोके।
अन्योन्यविहितमन्त्रौ
विधिदाराभूपती वहतः॥
(पण्डितराज-जगन्नाथस्य)
</3-148>
<3-149>
(149)
माहात्म्यस्य परोऽवधिर्निजगृहं गम्भीरतायाः पिता
रत्नानामहमेक एव भुवने को वापरो मादृशः।
इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो
दुग्धाब्धे भवता समो विजयते दाराधरावल्लभः॥
(पण्डितराज-जगन्नाथस्य)
टि—
असी दारा (दारासिकः) साजाहान-सम्राजो ज्येष्ठपुत्त्रः।
</3-149>
<3-150>
कवि-समष्टिः।
(150)
माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः
श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराजः।
श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो भट्टबाणः
ख्याताश्चान्ये सुबन्ध्वादय इह कृतिभिर्विश्वमाह्लादयन्ति॥
</3-150>
<3-151>
(151)
यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो
भासो हासः कविकुलगुरुः कालिदासो विलासः।
हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः
केषां नैषा कथय कविताकामिनी कौतुकाथ॥
(प्रसन्नराघवकार-जयदेवस्य)
</3-151>
<3-152>
(152)
शीलाविज्जामारुलामोरिकाद्याः
काव्यं कर्त्तुं सन्ति विज्ञाः स्त्रियोऽपि।
विद्यां वेत्तुं वादिनो निर्विजेतुं
विश्वं वक्तुं यः प्रवीणः स वन्द्यः॥
(धनदेवस्य)
</3-152>
<3-153>
(153)
वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां
जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्य्यगोवर्द्धन-
स्पर्द्धी कोऽपि न विश्रुतः श्रुतधरो धोयी कविक्ष्मापतिः॥
(गीतगोविन्दकार-जयदेवस्य)
टि—
द्रुरूहद्रुते–दुरूपश्लोकानां द्रुतरचनायाम्।
</3-153>
<3-154>
(154)
गोवर्द्धनश्च शरणो जयदेव उमापतिः।
कविराजश्च रत्नानि समितौ लक्ष्मणस्य च॥
(गीतगोविन्दकार-जयदेवस्य)
</3-154>
<3-155>
(155)
भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कवि-
र्मेण्ठो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः।
दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः
सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽपि ते॥
(राजशेखरस्य)
</3-155>
<3-156>
विशिष्ट-कविः।
कालिदासः।
(156)
कवयः कालिदासाद्याः कवयश्च वयं भुवि।
पर्वते परमाणौ च सादृश्यं न कदाचन॥
(कृष्णभट्टस्य)
</3-156>
<3-157>
(157)
आहो मे सौभाग्यं मम च भवभूतेश्च भणितं
तलायामरोप्य प्रतिफलति तस्मिन् लधिमनि।
गिरां देवी साक्षात् श्रुतिकलितकह्लारकलिका-
सधूलीमाधुर्य्यं क्षिपति परिपूर्त्त्यै भगवती॥
(कालिदासस्य)
</3-157>
<3-158>
दण्डी।
(158)
जाते जगति वाल्मीकौ कविरित्यभिधाऽभवत्।
कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि॥
</3-158>
<3-159>
(159)
त्रयोऽग्नयस्त्रयो देवास्त्रयो वेदास्त्रयो गुणाः।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः॥
(राजशेखरस्य)
</3-159>
<3-160>
पण्डितराज-जगन्नाथः।
(160)
कवयति पण्डितराजे
कवयन्त्यन्येऽपि विद्वांसः।
नृत्यति पिनाकपाणौ
नृत्यन्त्यन्येऽपि भूतवेतालाः॥
(पण्डितराज-जगन्नाथस्य)
</3-160>
<3-161>
पाणिनिः।
(161)
स्वस्ति पाणिनये तस्मै यस्य रुद्रपसादतः।
आदौ व्याकरणं काव्यमनु जाम्बवतीजयम्॥
(राजशेखरस्य)
</3-161>
<3-162>
बाणभट्टः।
(162)
श्लेषे केचन शब्दगुम्फविषये केचिद् रसे चापरे-
ऽलङ्कारे कतिचित् सदर्थविषये चान्ये कथावर्णने।
आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी-
सञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः॥
(चन्द्रदेवस्य)
टि—
गुम्फः–विस्तारः सञ्चार इति यावत्। उदृङ्किताः–उत्कीर्णा उल्लिखिता इत्यर्थः।
</3-162>
<3-163>
(163)
हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां
श्रीहर्षेण समर्पितानि गुणिने बाणाय कुत्राद्य तत्।
या बाणेन तु तस्य सूक्तिविसरैरुट्टङ्किताः कोर्त्तय-
स्ताः कल्पप्रलयेऽपि यान्ति न मनाङ् मन्ये परिम्लानताम्॥
टि—
विसरः–विस्तारः सञ्चार इति यावत्। उट्टङ्गिताः–उत्कीर्णा उल्लिखिता इत्यर्थः।
</3-163>
<3-164>
(114)
मुबन्धौ भक्तिर्नः क इह रघुकारे न रमते
धृतिर्दाक्षीपुत्त्रे हरति हरचन्द्रोऽपि हृदयम्।
विशुद्धोक्तिः शूरः प्रकृतिमधुरा भारविगिर-
स्तथाप्यन्तर्मोदं कमपि भवभूतिर्वितनुते॥
(सदुक्तिकर्णामृते)
टि—
रघुफारे–कालिदासे। दाक्षीपुत्त्रे–पाणिनौ।
</3-164>
<3-165>
भारविः।
(165)
भारवेर्भा रवेर्भाति यावन्माधस्य नोदयः।
उदिते तु पुनर्माधे भारवेर्भा रवेरिव॥
टि—
भा-दीप्तिः; पक्षे यशः इत्यर्थः। रवेः–रवेरिव (लुप्तोपमा) माधस्य–माघकविविरचितशिशुपालवधकाव्यस्य; पक्षे माघमासस्य।
</3-165>
<3-166>
माघः।
(166)
उपमा कालिदासस्य भारवेरर्थगौरवम्।
नैषधे पदलालित्यं माधे सन्ति त्रयो गुणाः॥
टि—“दण्डिनः पदलालित्यमि"ति दाक्षिणात्यदेशीयः पाठः।
</3-166>
<3-167>
(167)
माधेन विघ्नितोत्साहा नोत्सहन्ते पदक्रमे।
स्मरन्तो भारवेरेव कवयः कपयो यथा॥
(धनपालस्य)
टि—
मघेन–तन्नामककाव्येन; पक्षेः माघमासेन। पदक्रमे–सुप्तिङन्तपदविन्यासे; पक्षे चरणक्षेपे। भारवेः–तन्नामककवेः (स्मरन्त इत्यस्य कर्म्मणि षष्ठी); पे रवेः सूर्य्यस्य भाः किरणान्।
</3-167>
<3-168>
मातङ्गदिवाकरः।
(168)
अहो प्रसादो वाग्देव्या यन्मातङ्गदिवाकरः।
श्रीहर्षस्याभवत् सभ्यः समो बाणमयूरयोः॥
(राजशेखरस्य)
टि—
बाणभट्टः मयूरकवेर्जामाताऽसीदिति प्रसिद्धिः।
</3-168>
<3-169>
मुरारिः।
(169)
देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः।
अब्धिर्लङ्घित एव वानरभटैः किन्वस्य गम्भीरता-
मापातालनिमग्नपीवरवपुर्जानाति मन्थाचलः॥
टि—
असौ मुरारिकविरेव अनर्घराघवकारः। जनकोऽस्य भट्टश्रीवर्द्धमानो जननी च तन्तुमती। “भवभूतिमनादृत्य निर्वाणयतिना मया। मुरारिपदचिन्तायाभिदमाधीयते मनः।”–कस्यचित्
</3-169>
<3-170>
यशोवर्मा।
(170)
कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः।
जेता ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम्॥
(राजतरङ्गिण्याम्)
टि—
कान्यकुब्जमहाराजो यशेवर्मा प्रसिद्धः कविरासीत्। तस्य सभा वाक्पतिराजभवभूतिभ्यामेव समलह्कृताऽसीत्।
</3-170>
<3-171>
वाल्मीकिः।
(171)
कूजन्तं राम रामेति मधुरं मधुराक्षरम्।
आरूढ़कविताशाखं वन्दे वाल्मीकिकोकिलम्॥
(रामानुजस्य)
</3-171>
<3-172>
(172)
कवीन्दं नौमि वाल्मीकिं यस्य रामायणीं कथाम्।
चन्द्रिकामिव चिन्वन्तु चकोरा इव कोविदाः॥
(शार्ङ्गधरस्य)
</3-172>
<3-173>
विकटनितम्बा।
(173)
के वैकटनितम्बेन गिरां गुम्फेन रञ्जिताः।
निन्दन्ति निजकान्तानां न मौग्ध्यमधुरं वचः॥
(राजशेखरस्य)
टि—
मौग्ध्यमधुरम्–अतीव मनोहरम्।
</3-173>
<3-174>
व्यासः।
(174)
अचतुर्वदनो ब्रह्मा विष्णुरप्यचतुर्भुजः।
अभाललोचनः शम्भुर्भगवान् बादरायणः॥
</3-174>
<3-175>
श्रीहर्षः।
(175)
तावद् भा भारवेर्भाति यावम्माधस्य नोदयः।
उदिते नैषधे काव्ये क्क माधः क्व च भारविः॥
</3-175>
<3-176>
जन्तुवर्गः।
अश्वः।
(176)
जवेन धावितो वाजी विभिद्य वायुमण्डलम्।
तस्य संश्लोषतः पूर्वमेव प्रत्यागतः पुनः॥
</3-176>
<3-177>
(177)
आकर्षन्निव गां वमन्निव खुरौ पश्चार्द्धमुज्झन्निव
स्वीकुर्वन्निव खं पिबन्निव दिशो वायूंश्च मुष्णन्निव।
साङ्गारप्रकरां स्पृशन्निव भुवं छायाममृष्यन्निव
प्रेङ्खच्चामरवीज्यमानवदनः श्रीमान् हयो धावति॥
(सिंहदत्तस्य, केषाञ्चिन्मते नकुलस्य)
टि—
गाम्–पृथिवीं भूमिमित्यर्थः। साङ्गारप्रकरां–प्रज्वलिताङ्गारयुक्ताम्। अमृष्यन्–असहसानः। प्रेङ्खत्–चलत्।
</3-177>
<3-178>
इल्लिशः।
(178)
कश्चिद् इल्लिशभक्तः कविरिल्लिशं स्तौति :–
विश्वाधारो हि वायुस्तदुपरि कमठस्तत्र शेषस्ततो भू-
स्तस्यां कैलासशैलस्तदुपरि भगवान् मस्तके तस्य गङ्गा।
स्निग्धः पीयूषतुल्यस्तदुदरकुहरे श्रील्लिशोऽकिल्विषोऽस्ति
माहात्म्यं तस्य को वा प्रकथयितुमलं भक्षणाद् यस्य मुक्तिः॥
(कविचन्द्रस्य)
टि—
अकिल्विषः–निष्पापः, गङ्गाजलसंसर्गाद् निर्दोष इति यावत्। प्रियस्य दोषदृष्टिः प्रायशो न भवतीति विशेषणसङ्गतिः। मुक्तिः–मोक्षः; पक्षे मोचनं विरेचनमित्यर्थः।
</3-178>
<3-179>
उष्ट्रः।
(179)
रूक्षं वपुर्न च विलोचनहारि रूपं
न श्रोत्रयोः सुखदमारटितं कदापि।
इत्थं न साधु तव किञ्चिदिदञ्च साधु
तुच्छे रतिः करभ कण्टकिनि द्रुमे यत्॥
(धर्मकीर्त्तेः)
टि—
विनीचनहरि–नेत्रतृप्तिकरम्। आरटितं–शब्दः। करभ–उष्ट्र।
</3-179>
<3-180>
काकः।
(180)
स्थानमहिम्ना अशोभनान्यपि वस्त—भनानि भवन्तीत्याह :–
माकन्दं मकरन्दतुन्दिलमश्नुं गाहस्व काक स्वयं
कर्णारुन्तुदमन्तरेण रणितं त्वां कोकिलं मन्महे॥
रम्याणि स्थलसौष्ठवेन कतिचिद् वस्तूनि कस्तूरिकां
नेपालक्षितिपालभालमिलिते पङ्के न शङ्केत कः॥
टि—
माकन्दम्–आम्रम्। मकरन्दतुन्दिलं–प्रचुरमधुयुक्तम्। कर्णारुन्तुदं–श्रुतिकटु। शङ्केत–मन्येत।
</3-180>
<3-181>
(181)
किं केकीव श्विखण्डमम्डिततनुः किं कीरवत् पाठकः
किं वा हंस इवातिमन्दसुगतिः शारीव किं सुस्वरः।
किं वा हन्त शकुन्तराजपिकवत् कर्णामृतं भाषते
काकः केन गुणेन काञ्चनमये संरक्षतिः पिञ्जरे॥
</3-181>
<3-182>
कोकिलः।
(182)
अपसर परभृत दूरं
गोष्ठीयं काकरवरसिका।
दूर्वाचर्वणदक्षा
इक्षुं मधुरं न जानते गावः॥
टि—
परभृत—कोकिल। गोष्ठी–सभा।
</3-182>
<3-183>
(183)
भ्रातः कोकिल भीतभीत इव किं पत्रावृतो वर्त्तसे
नीचैः पश्य सखे शरासनकरा धावन्ति भिल्लार्भकाः।
का भीतिस्तव यत् कुहूरिति परा विद्या मुधास्यन्दिनी
किं क्रूरे गुणगौरवं किमसतीचित्ते पतिप्रेम वा॥
टि—
भिल्लार्भकाः–भिल्ला म्लेच्छजातिविशेषास्तेषामर्भका बालकाः।
</3-183>
<3-184>
चक्रवाकः।
(184)
अस्तं गतोऽयमरविन्दवनैकबन्धुः।
सूर्य्यो न लङ्घयति कोऽपि विधेरनुज्ञाम्।
हे चक्र धैर्य्यमवलम्ब्य विमुञ्च शोकं
धीरास्तरन्ति विपदं न कदाप्यधीराः॥
टि—
अरविन्दवनैकबन्धुः–पद्म्यसमूहसुहृत्। चक्र–चक्रवाक।
</3-84>
<3-185>
चक्रवाकी।
(185)
रात्रौ व्याधेन पञ्चरबद्धायाश्चक्रवाक्याः चक्रवाकं प्रति उक्तिरियम् :–
श्लाघ्या बन्धनवेदना चरणयोः श्लाध्या निराहारता
श्लाध्यश्चाप्युपकारकारणतया मृत्युर्द्वयोरावयोः।
शर्वर्य्यां प्रियसङ्गमो मम कुले स्वप्नेऽपि नैव श्लुतो
ब्याधः साधुरसौ प्रजापतिलिपिर्व्यर्थोकृता येन हि॥
</3-185>
<3-186>
चातकः।
(186)
वापी स्वल्पजलाशया विषमयो नीचावगाहो ह्रदः
क्षुद्रात् क्षुद्रतरो महाजलनिधिर्गण्डूष एको मुनेः।
गङ्गाद्याः सरितः पयोनिधिगताः संत्यज्य तस्मादिदं
सम्मानी खलु चातको जलमुचामुच्चैर्जलं वाञ्छति॥
</3-186>
<3-187>
(187)
गङ्गाजले प्लवमानं मियमाणञ्च कञ्चित् चातकं प्रति कस्यचिद् उक्तिरियं, पुनश्च तं प्रति चातकस्य प्रत्युक्तिः :–
रे रे चातक पातितोऽसि मरुता गङ्गाजले चेत् तदा
पेयं नीरमशेषपातकहरं काशा पुनर्जीवने।
मैवं ब्रूहि लघीयसो यमभयादुदर्ग्रीवतामुञ्झता
गङ्गाम्भ पिबता मया निजकले किं स्थाप्यते दुर्यशः।
</3-187>
<3-188>
धेनुः।
188)
स्तन्यं पाययन्ती धेनुं पिबन्तं वत्सञ्च स्वभावोक्त्या वर्णयति :–
आहत्याहत्य मूर्ध्ना द्रुतमनुपिबतः प्रमुतं मातुरूधः
किञ्चित् कुव्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः।
उत्कर्णं तर्णकस्य प्रियतनयतया दत्तहुङ्कारमुद्रा
विच्योतत्क्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढ़ि॥
(मयूरस्य)
टि—
प्रियतनयतया–तनयवात्स्यल्येन। दत्तहुङ्कारमुद्रा–दत्तहुङ्कारसङ्केता। धेनुः–सवत्सा पयस्विनी गौः। मूर्धा–मस्तकेन। आहत्याहत्य–पुनःपुनः पीड़यित्वा। अनु–पश्चात्। प्रस्नुतं–क्षरितदुग्धम्। ऊधः–स्तनम्। किञ्चिदित्यादि–किञ्चिद् ईषत् कुब्जं वक्रम् एकं जानु यस्य तादृशस्य। अनवरतेत्यादि–तया अनवरतं चलत् अस्थिरं चारु सुन्दरं पुच्छं यस्य तथोक्तस्य। विच्योतत्क्षीरेति–विच्योतन्ती क्षरन्ती या क्षीरधारा तस्या लवेन लेशेन शवलं नानावर्णं मुखं यस्य तथाभूतस्य। तर्णकस्य–वत्सस्य। उत्कर्णं–उट्गतौ कर्णौ यस्य तम्। आतृप्त–तृप्तिपर्य्यन्तं वत्सस्येति शेषः। लेढ़ि–स्वदते।
</3-188>
<3-189>
बकः।
(189)
न भ्रूणां स्फुरणं न चञ्चुचलनं नो चूलिकाकम्पनं
न ग्रीवाबलनं मनागपि न यत् पक्षद्वयोत्क्षेपणम्।
नासाग्रेक्षणमेकपाददमनं कष्टैकनिष्ठं परं
यावत् तिष्ठति मीनहीनवदनस्तावद् बकस्तापसः॥
</3-189>
<3-190>
भेकः।
(190)
गङ्गादीनां सकलसरितां प्राप्य तोयं समुद्रः
किञ्चिद् गर्वं न भजति महान् दिव्यरत्नाकरोऽपि॥
एको भेकः परमसुदितो गोष्पदाम्भोऽपि गत्वा
को मे को मे रटति बहुशोऽखर्वगर्वेण नीचः॥
</3-190>
<3-191>
भ्रमरः।
(191)
अपसर मधुरकर दूरं
परिमलबहुलेऽपि केतकीकुसुमे।
इह नहि मधुलवलाभो
भवति परं धूलिधूसरं वदनम्॥
टि—
परिमलबहुले–सुगन्धपूरिते। (गीति-च्छन्दः)
</3-191>
<3-192>
(192)
अनुसरति करिकपोलं
भ्रमरः श्रवणेन ताड्यमानोऽपि।
गणयति न तिरस्कारं
दानान्धितलोचनो नीचः।
टि—
दानान्धितलोचनः–दानेन स्रवन्मदेन वितरणेन वा अन्धिते विलोचने चक्षुषी यस्य सः (पथ्यार्य्या-च्छन्दः)।
</3-192>
<3-193>
मत्स्यरङ्कः।
(193)
कविर्मत्स्यरङ्कमुपजीव्य किञ्चित्सुखाशया बहुविघ्नसंकुले कर्म्मणि न प्रवर्त्तेत डत्युपदिशतिः :–
क्षारं वारि न चिन्तितं न गणिता नक्रादयो भीषणा-
श्चञ्चत्तुङ्गतरङ्गडम्बरपरित्रासोऽपि नालोचितः।
मध्येम्भोनिधि मत्स्यरङ्क भवता झम्पः कृतोऽयं मुदा
सम्पच्चेत् शफरार्जनं विपदिह प्राणप्रयाणावधिः॥
</3-193>
<3-194>
मशकः।
(194)
काचिद् विदुषी रमणी रात्रौ मशकपौड़नमसहमाना प्रोषितं भर्त्तारमुद्दिश्य श्लोकमिमं लिखित्वा प्रेषयामास :–
जितधूमसमूहाय जितव्यजनवायवे।
मशकाय मया कायः सायमारभ्य दीयते॥
(जयन्तीदेव्याः)
टि—
अौ परमविदुषी जयन्तीदेवी फरिद्पुर-जेलान्तर्गत-कोटालिपाड़ानिवासिनः प्रसिद्धनैयायिकस्य श्रीकृष्णसार्व्वभौमस्य भार्य्याऽसीत्। तौ उभौ मिलित्वा “आनन्दलतिका”-नामकं ग्रन्थमेकं रचयामासतुः। “आनन्दलतिकाग्रन्थो येनाकारि स्त्रिया सह” इत्येव वचनं ग्रन्थशेषे प्राप्तम्।
</3-194>
<3-195>
महिषः।
(195)
बहुलाभप्रत्याशया दूरदेशवर्त्तिनमविदितदातृत्वं कञ्चित् धनिनमुपगव्य स्वाभीष्टमप्राप्तवतां भिक्षुकाणामियमुक्तिः :–
स्थूलतया नीलतया
दूरतया दानलोलुपैर्मधुपैः।
धावितमिभराजधिया
हन्तासीदन्ततो महिषः॥
</3-195>
<3-196>
राघवः।
(196)
यस्मिन् वेल्लति सर्वतः परिचलत्कल्लोलकोलाहलै-
र्मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे।
सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः
क्रोड़े क्रीड़तु कस्य केलिकलहत्यक्तार्णवो राघवः॥
टि—
वेल्लति सतीत्यर्थः। हरिद्दन्तावला–दिग्दन्तिनः।
</3-196>
<3-197>
शङ्खः।
(197)
कीटगृहं कुटिलोऽन्तः
कठिनः क्षाराम्बुसम्भवः शुन्यः।
शङ्खः श्रीपतिनिकटे
केन गुणएन स्थितिं लेभे॥
(शार्ङ्गधरस्य)
टि—
कीटगृहं–शङ्खो हि कीटविशेषस्यावासः। अन्तः–मध्ये। क्षाराम्बुसम्भवः–लवणजलसमुद्गूतः, एतेनास्य जम्म च निन्दितमिति सूचितम्। शून्यः–अन्तःशून्यः असार इति यावत्। इत्थं बहुदोषदूषितोऽपि शङ्खः केन गुणेन श्रीपतिनिकटे विष्णुसन्निधौ स्थितिं लेभे इति साक्षेपः प्रश्नः। कश्चित् गुणहीनोऽपि कस्यचित् गुणिनः प्रीतिपात्रं भवतीति भावः। (पथ्यार्य्या-च्छन्दः)
</3-197>
<3-198>
शफरः।
(198)
बहुविद्वदधिष्ठिते सदसि अकृतविद्यस्य कस्यचिद् वाचालतामाकर्ण्यकविराह :–
शफर संहर चञ्चलतामिमां
द्रुतमगाधजलप्रणयी भव।
इह हि कूजितमञ्जुलजालके
वसति दुष्टबकः सकुटुम्बकः॥
टि—
कूजितमञ्जुलजालके–विहगध्वनिविशिष्टशैवालसमूहे।
</3-198>
<3-199>
शुकः।
(199)
उच्चैरेष तरुः फलञ्च विपुलं दृष्ट्वैव हृष्टः शुकः
पक्वं शालिवनं विहाय जड़धीस्तन्नारिकेलं गतः।
तत्रारुह्य बुभुक्षितेन मनसा यत्नः कृतो भेदने
चाशा तस्य न केवलं विदलिता चञ्चुर्गता चूर्णताम्॥
</3-199>
<3-200>
सर्पः।
(200)
यस्य कतिचिद् दोषाः सन्ति तादृशं जनं सर्पवणैनमुखेनाक्षिपति :–
मौलौ सन्मणयो गृहगं गिरिगुहा त्यागः किलात्मत्वचो
निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्य्येदृशी।
अन्यत्रानृजुवर्त्मता द्विरसना वक्त्रे विषं वीक्षणं
सर्वामङ्गलसूचकं कथय भो भोगिन् किमेतत् सखे॥
(जीवनागस्य)
टि—
आत्मत्वचस्त्यागः–एतेन महतो त्यागशीलता दर्शिता; निर्यत्रोपनतैः–अनायासलब्धैः। वृत्तिः–जीविका। एकत्र–एकस्मिन् पक्षे। चर्य्या–आचरणम्। अनृजुवर्त्मता–वक्रगतिः; पक्षे कपटव्यवहारः। वक्त्रे द्विरसना–मुखे जिह्वाद्वयं। पक्षे वाक्यनिष्ठाभावः। वीक्षणं–दृष्टिः; पक्षे विषदृष्टिः। भोगिन्–सर्प; पक्षे भोगासक्त।
</3-200>
<3-201>
सिंहः।
(201)
नास्योच्छ्रायवती तनुर्न दशनौ दीर्घौ न दीर्घः करः
सत्यंवारण येन केशरिशिशुस्त्वां स्पर्द्धते नित्यशः।
तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा
तादृक् त्वादृशमेव येन सुतरां भक्ष्यं पशुं मन्यते॥
(आनन्दवर्द्धनस्य)
</3-201>
<3-202>
हंसः।
(202)
कोऽपि सर्वत्र समदर्शिनस्तत्त्वविदो विकारहेतुर्न भवतीत्याह :–
गाङ्गमम्बु सितमम्बु यामुनं
कज्जलाभमुभयत्र मज्जतः।
राजहंस तव सैव शुभ्रता
चीयते न च न चापचीयते॥
टि—
सितं–शुभ्रम्। कज्जलाभं–कृष्णवर्णम्; चीयते–वर्द्धते। अपचीयते–मन्दीभवति। उभयत्र कर्म्मकर्त्तरि प्रयोगः।
</3-202>
<3-203>
(203)
गतं तद् गाम्भीर्य्यं तटमपि चितं जालिकशतैः
सखे हंसोत्तिष्ठ त्वरितममुतो गच्छ सरसः।
न यावत् पङ्कान्तःकलुषिततनुर्भूमिविलसद्-
बकोऽसौ वाचालश्चरणयुगलं मूर्ध्निं कुरुते॥
</3-203>
<3-204>
हस्ती।
(204)
सञ्चर करिवर धीरं
मा मर्दय मर्म्मराणि पत्राणि।
इह पुरतो गिरिकुहरे
किमु सुखशायी न गोचरः सिंहः॥
टि—
गिरिकुहरे–पर्व्वतगुहायाम्।
</3-204>
<3-205>
(205)
नाभूवन् भुवि यस्य कुत्रचिदपि स्पर्द्धाकराः कुञ्जराः
सिंहेनापि न लङ्घिता किमपरं यस्योद्धता पद्धतिः।
कष्टं सोऽपि कदर्थ्यते करिवर स्फारारवैः फेरवै-
रापातालगभीरपङ्कपटलीमग्नोऽद्य भग्नोद्यमः॥
(विह्लणस्य)
</3-205>
——————————————-
** जीव-तरङ्गः।**
राजा।

———————————————————-
** उद्भित्-तरङ्गः।**
सामान्य-वृक्षः।
(206)
<3-206>
ये पूर्वं परिपालिताः फलदलच्छायादिभिः प्राणिनो
विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतम्।
एताः सङ्गतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो
यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि॥
</3-206>
<3-207>
आम्रः।र
(207)
त्रपाश्यामं जम्बु स्फुटितहृदयं दाड़िमफलं
सशूलं संधत्ते हृदयमभिमानेन पनसम्।
अभूदन्तस्तोयं तरुशिखरजं लाङ्गलिफलं
समायाते चूते जगति फलराजे रसमये॥
टि—
त्रपाश्यामं–त्रपया लज्जया स्यामवर्णं। जम्बु–जम्बुफलम्। फपनसम्–कण्टकिफलम्। लाङ्गलिफलम्–नारिकेलम्।
</3-207>
<3-208>
कदली।
(208)
वल्कं श्राद्धविधायकं तव फलं देवादिसन्तर्पणं
पुष्पं व्यञ्जनमुत्तमं परिभवेद् मूलं दरिद्रादनम्।
पत्रं भोजनसौख्यदं किमपरं क्षारेण मृष्टं पटं
धन्यस्त्वं कदलीतरो परहिते यद् देहपातः पणः॥
टि—
अलिनः–वृश्चिकस्य। कदलीमूलरसेन वृश्चिकदंशनजनितज्वाला निवार्य्यते। दरिद्रादनम्–दरिद्रजनस्य खाद्यद्रव्यम्। मृष्टं पटम्–धौतं वस्त्रम्।
</3-208>
<3-209>
(209)
धिग् दैवं कदली झटित्युपकृतिं कर्त्तुं क्षमा लीलया
शाखापत्रफलैश्च मूलकुमुमैस्त्वग्भिर्न जीवेच्चिरम्।
शाखोटः करटालयोऽप्यसरलं काष्ठं न तुष्टिप्रदं
प्रायो भूतनिकेतनं कथमसौ दीर्घायुरेवं तरुः॥
टि—
करटालयः–काकवसतिः। भूतनिकेतनं–देवयोनिविशेषवासस्थानम्।
</3-209>
<3-210>
कल्पवृक्षः।
(210)
औदार्य्यं भुवनत्रयेऽपि विदितं सम्भूतिरम्भोनिधे-
र्वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः।
एवं दातृगुणोत्करः सुरतरोः सर्वोऽपि लोकोत्तरः
स्यादर्थिप्रवरार्थितर्पणविधावेको विवेको यदि॥
टि—
सम्भूतिः–जन्म। परिमलः–सुगन्धः। गीर्व्वाणचेतोहरः–देवानां मनोमोहनः. दातृगुणोत्करः–दानकत्तुंगुणसमूहः। अर्थीत्यादि–अर्थिप्रवराणां याचकश्रेष्ठानां या अर्थिता तस्याः अर्पणविधौ दानविषये। विवेकः–ज्ञानम्.
</3-210>
<3-211>
चन्दनः।
(211)
वासः शैलशिलान्तरेषु सहजः सङ्गो भुजङ्गैः सह
प्रेङ्खत्क्षारपयोधिवीचिभिरभूदुद्भूतसेकक्रिया।
जानीमो न वयं प्रसीदतु भवान् श्रीखण्ड तत् कथ्यतां
कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम्॥
टि—
प्रेङ्खत्–चलत्। श्रीखण्ड–चन्दन।
</3-211>
<3-212>
चम्पकः।
(212)
चम्पकेषु समरा नासते इति मनसिकृत्य आह :–
यन्नादृतं त्वमलिना मलिनाशयेन
किं तेन चम्पक विषादमुरीकरोषि।
विश्वाभिरामनवनीरदनीलवेशाः
केशाः कुशेशयदृशां कुशलीभवन्तु॥
टि—
अलिना–भ्रमरेण। चम्पक–हे चम्पकपुष्प; उपीकरोषि–अवलम्बसे, प्राप्नोषीति यावत्। कुशेशयदृशां–कुशेशयं पद्मम्, तद्वत् दृशो यासां तासां, कमललोचनानां रमणीनामित्यर्थः।
</3-212>
<3-213>
(213)
कम्पं चम्पक मुञ्च याचकजनैरायासितस्त्वं सखे
मा म्लासीः परितो विलोकय तरून् कस्ते विधत्ते तुलाम्।
स्याच्चेच्चेतसि कोप एव नितरां धात्रे तदा कुप्यतां
येन त्वं हि सुवर्णवर्णकुसुमामोदोऽद्वितीयः कृतः॥
</3-213>
<3-214>
ताम्बूलम्।
(214)
ताम्बूलं गदराशिनाशनिपुणं दुर्गन्धविध्वंसनं
रुच्यं जाठरवह्निवृद्धिजननं सुस्वप्नसंवर्द्धनम्।
आस्यालङ्करणं विनोदसदनं संवर्द्धनासूचनं
रागेणैव विभातु तस्य नियतं श्रीपूर्णचन्द्राननम्॥
(उद्भटसागरस्य)
टि—
गदराशिनाशनिपुणं–रोगसमूहविनाशदक्षम्।
</3-214>
<3-215>
तालः।
(215)
अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादराद्
दूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मुग्धात्मनः।
स्वं मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
शीर्णेनापि हि नोपयोगमगमत् पर्णेन तालद्रुमः॥
टि—
स्वं मूलं–स्वीयं मूलदेशम्। नोपयोगमगमत्–आनुकूल्यं न चकार।
</3-215>
<3-216>
तृणम्।
(216)
उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्द्धिभि-
र्धन्योऽसौ नितरामुलूपकचयो नद्यास्तटेऽवस्थितः।
एवं यः कृतबुद्धिरुद्धतजलव्यालोलवीचीवशाद्
मज्जन्तं जनमुद्धरेत सहसा तेनैव मज्जेच्च वा॥
(राणकस्य)
टि—
उलूपविटपी–`उलुखड़’ इति भाषा।
</3-216>
<3-217>
धुस्तूरः।
उन्मत्त घूर्त्त तरुणेन्दुनिवासयोग्ये
स्थाने पिशाचपतिना विनिवेशितोऽसि।
किं कैरवाणि विकसन्ति तमः प्रयाति
चन्द्रोपलो द्रवति वार्द्धिरुपैति वृद्धिम्॥
(उद्भटसागरस्य)
टि—
उन्मत्त–रे घुस्तूर। पिशाचपतिना–महादेवेन। चनद्रोपलः–चन्द्रकान्तमणिः। वार्द्धिःसमुद्रः।
</3-217>
<3-218>
तालः।
(215)
अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादराद्
दूरादुन्नतिसंस्रयव्यसनिनः पान्थस्य मुग्धात्मनः।
स्वं मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
शीर्णेनापि हि नोपयोगमगमत् पर्णेन तालद्रुमः॥
</3-218>
<3-219>
तृणम्।
(216)
उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्द्धिभि-
र्धन्योऽसौ नितरामुलूपकचयो नद्यास्तटेऽवस्थितः।
एवं यः कृतबुद्धिरुद्धतजलव्यालोलवीचीवशाद्
मज्जन्तं जनमुद्धरेत सहसा तेनैव मज्जेच्च वा॥
(राणकस्य)
टि—
मज्जीवनम्–मम प्राणस्वरूपम्। जोवनम्–जलम्। तच्च–जीवनञ्च। प्रसारितदला–विस्तारितपत्रा। मित्रे–सूर्य्ये।
</3-219>
<3-220>
धुस्तूरः।
(217)
उन्मत्त घूर्त्त तरुणेन्दुनिवासयोग्ये
स्थाने पिशाचपतिना विनिवेशितोऽसि।
किं कैरवाणि विकसन्ति तमः प्रयाति
चन्द्रोपलो द्रवति वार्द्धिरुपैति वृद्धिम्॥
(शार्ङ्गधरस्य)
</3-220>
<3-221>
(221)
देशान्तरगमनोन्मुखं प्रियतममुद्दिश्य तत्प्रियायाः करुणोक्तिं भङ्ग्यन्तरेणाह :–
अस्तं गच्छसि गच्छ वर्त्मनि तव स्वस्त्यस्तु भोः सर्वथा
वक्तव्यं कियदस्ति मेऽत्र जगदानन्दैकसिन्धो रवे।
नाहं कैरविणी न वास्मि रजनी यत्प्रीतिरिन्दूदये
पद्मिन्या न गतिर्विना दिनमणिं स्मर्त्तव्यमेतत् त्वया॥
</3-221>
<3-222>
पलाण्डुः।
(222)
कर्पूरधूलीरचितालबालः
कस्तूरिकाकुङ्कुमलिप्तदेहः।
सुवर्णकुम्भैः परिषिच्यमानो
गन्धं निजं मुञ्चति किं पलाण्डुः॥
टि—
कर्पूरेति–कर्पूरमिश्रिता धूल्यस्ताभिः रचितम् आलवालं यस्य सः। पलाण्डुः–`पेयाजं इति भाषा।
</3-222>
<3-223>
बदरी।
(223)
श्रीमन् वसन्त भवतोऽभ्युदये तरूणां
के नाम नो सुफलपल्लवशालिनः स्युः।
अस्माकमल्पतपसां बदरीतरूणां
भ्रष्टं फलं वत शिखाऽपि जनैर्विलूना॥
टि—
श्रीमन् वसन्त–हे शोभासम्पन्नवसन्तसमय। विलूना–छिन्ना।
</3-223>
<3-224>
मन्दारः।
(224)
नहि च्छायादानात् पथिकजनसन्तापहरणं
फलैर्वा पुष्पैर्वा नहि सुरनरप्रीतिजननम्।
इदन्ते मन्दारद्रुम सहजमेतत्त्वनुचितं
व्रतीभ्रतो रक्षस्यपरमणरेषां फलमपि॥
टि—
मन्दारः–`मादार’ इति भाषा। वृतिः–वेषटनम; `वेड़ा’ इति भाषा।
</3-224>
<3-225>
शालिः।
(225)
सालिधान्यं छेत्तुकामं कृषं प्रति शालिधान्यस्य खेदोक्तिः :–
येनैते जनिता वयं प्रतिदिनं स्नेहेन संवर्द्धिता
येनास्मत्तृणपीड़नं न सहितुं शक्तं स एव स्वयम्।
छेत्तुं नः कथमद्य वाञ्छति शिरो मत्वेति नम्राननाः
क्रन्दन्तीव तुषारवाष्पविगलद्बिन्दुच्छलाच्छालयः॥
टि—
शालयः–हेमन्तिकधान्यानि।
</3-225>
<3-226>
शाल्मलिः।
(226)
दातृत्वविहीनं विलासिनं धनिनं प्रति कवेरुक्तिरियम् :–
हंसा- पद्मवनाशया मधुलिहो माध्वीकलाभाशया
यान्थाः स्वादुफलाशया बलिभुजो गृध्राश्च मांसाशया।
द्रान्निष्फलरक्तपुष्पनिकरैर्निःसार मिथ्योन्नते
रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः॥
टि—
मधुलिहः–भ्रमराः। माध्वीकं–मधु। बलिभुजः–काकाः।
</3-226>
—————————————–
स्भावोक्ति-तरङ्गः।
(क) पर्वतः।
मन्दरः।
(227)
<3-227>
दुर्भाग्यवशात् कष्टसहिष्णजनोऽपि फलं न लभते :–
मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं
करीन्द्रं पौलोमीपतिरपि स लेभे जलनिधेः।
त्वया किं वा लब्धं कथय मथने मन्दरगिरे
शरण्यः शैलानां यदयमददादु रत्ननिलयः॥
टि—
करीनद्रम्–ऐरावतम्! पौलोमीवतिः–शचीपतिरिन्द्र इत्यर्थः। मथने—समुद्रमन्थने। मन्दरगिरे–हे मन्थाद्रे। शरण्यः शैलानां–पर्व्वतानां रक्षकः। रत्ननिलयः–रत्नाकरः समुद्र इत्यर्थः। अददादृ–ददौ।
</3-227>
<3-228>
मलयः।
(228)
महाधनिनोऽपि जनस्य उत्तमाधमविवेको नास्तीत्याह :–
विख्याताः कति सन्ति भूधरगणाः श्लाघ्योऽसि भूमण्डले
यताश्चन्दनतां यतो विटपिनः सर्वे तवैवाश्रयात्।
विन्त्वेकं मलय त्वदीयमयशो लोकैश्चिरं गीयते
थत् शाखोटरसालसालवकुले नासीद् विशेषग्रहः॥
टि—
शाखोटः–वृक्षविशेषः, `सेअड़ा’ इति भाषा। रसालः–आम्रः। विशेषग्रहः–उत्तमाधमविवेकः।
</3-228>
<3-229>
मैनाकः।
(229)
विपन्नं पितरं परित्यज्य पुत्रस्य आत्मरक्षाचेष्टा नोचिता :–
वरं पक्षच्छेदः समदमघवम्मुक्तकुलिश-
प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः।
तुषाराद्रोः सूनोरहह पितरि क्लोशविवशे
न चासौ सम्पातः पयसि पयसां पत्युरुचितः॥
</3-229>
<3-230>
विन्ध्यः।
(230)
कालचक्रे धूर्ण्यमानस्य महतोऽपि परिणामदुर्गतिरेव स्यात् :–
आचक्ष्महे तव किमद्यतनीमवस्थां
हा तस्य विन्ध्य शिखरस्य महोन्नतस्य।
यत्रैव सप्तमुनयस्तपसा निषेदुः
सोऽयं विलासवसतिः पिशिताशनानाम्॥
टि—
आचक्ष्महे–कथयामः। सप्तमुनयः–मरीचिः, अत्रिः, अङ्गिराः, पुलत्यः, पुलहः, क्रतुः, वशिष्ठः। विलासवसतिः–लीलाभूमिः। पिशिताशनानां–मांसभक्षकाणां हिंस्रजन्तूनां राक्षसानां वा।
</3-230>
<3-231>
सुमेरुः।
(231)
सन्तोषामृततृप्तस्य बहुमूल्यमपि धनम् अतीव तुच्छमित्याह :–
ये सन्तो षसुखप्रबुद्धमनसस्तेषामभिन्ना मृदो
ये चान्ये धनलोभसङ्कुलधियस्तेषां हि भिन्ना नृणाम्।
इत्थं कस्य कृते कृतञ्च विधिना तादृक् पदं सम्पदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते॥
(लुल्लसूनोर्विद्याधरस्य, केषाञ्चिन्मते विद्यापतेः)
</3-231>
<3-232>
हिमालयः।
(232)
क्षौणी यस्य हिरण्मयी मणिमयः प्राकारशैलोच्चयः
कुञ्जः कल्पलतामयः सुरधुनीधारामयो निर्झरः।
किं चेन्द्रादिसमस्तदिक्पतिपुरीं व्याप्नोति यत्पल्लवः
शैलः सोऽपि गिरिर्वयञ्च गिरयस्तत्रैव नः का मतिः॥
टि—
पल्लवः विस्तारः वनं वा।
</3-232>
<3-233>
(ख) जलाशयः।
कूपः।
(233)
गुणग्राहिणं जनं विना गुणिनो ग्राहको न स्यात् :–
गुणवानपि पूर्णोऽपि कुम्भः कूपे निमज्जति।
तस्य भारसहो न स्याद् गुणस्य ग्राहकं विना॥
</3-233>
<3-234>
त़ड़ागः।
(234)
नवीनदीनभावस्य दानशीलस्य धनाढ्यस्य खेदोक्तिरियम् :–
पीतं मे सकलं जलं जलनिधेशच्ण्डालचण्डांशुना
गाम्भीर्य्यं क्व गतं क्व चाम्बुजगणस्ते मीनहंसादयः।
सोढ़ा गाढ़तमा मया विपदियं नैतत्तु सह्यं मम
तृणान्धाः पथिका यदेत्य सहसा हाहारवं कुर्वते॥
टि—
जलनिधेः–बहुजलस्य। चण्डालेति–चण्डालवन्निष्ठुरसूर्य्येण।
</3-234>
<3-235>
सागरः।
(235)
यस्य गृहाद् दरिद्रा भग्रमनोरथाः प्रतिनिवर्त्तन्ते तस्य सम्पदो वृथैवेत्याह :–
यद् वीचीभिः स्पृशसि गगनं यच्च पातालमूलं
रत्नैरुद्दीपयसि पयसा यत् पिधत्से धरित्रीम्।
धिक् सर्वं तत् तव जलनिधे यद् विमुच्याऽश्रुधारा-
स्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोऽसि॥
(गौराभिनन्दस्य)
टि—
पिधत्से–आवृणोषि। नीरग्रहणरसिकैः–जलपानानुरागिभिः। अध्वगैः–पथिकैः. उज्झितः–त्यक्तः।
</3-235>
<3-236>
(ग) ऋतुः।
ग्रीष्मः।
(236)
सुतप्ता सौभाग्यस्वलितवनितावद् वसुमती
विवस्वान् दुष्प्रेक्ष्यो द्रविणमदमत्तस्य मुखवत्।
समीरो मन्थाद्रिभ्रमणफणभृत्फुत्कृतिसमो
जगद् योगोनद्राणां नयनमिव निस्पन्दमनिशम्॥
</3-236>
<3-237>
वर्षाः।
(237)
घनतरघनवृन्दच्छादिते व्योमलोके
दिनमणिरजनीशौ नाममात्रावशेषौ।
दिवसरजनिभेदं मन्दवाताः शशंसुः
कमलकुमुदगग्धानाहरन्तः क्रमेण॥
</3-237>
<3-238>
शरत्।
(238)
तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः
शःङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञम्।
तोयं प्रसीदति मुनेरिव चित्तवृत्तिः
कामी दरिद्र इव शोषमुपैति पङ्कः॥
टि—
अचिराढ्यः–सम्प्रति धनाढ्यो नीच इव रविस्तीक्ष्णं तपति, अकृतज्ञो जनो मित्रं यथा त्यजति, तथा रुरुः मृगविशेषः शृङ्गं त्यजति। अन्यत् सुगमम्।
</3-238>
<3-239>
हेमन्तः।
(239)
वेपन्ते कपयो भृशं जड़समं गोवाजिकं ग्लायति
श्वा चुल्लीकुहरोदरं क्षणमपि प्राप्याऽपि नैवोञ्झति।
शीतार्त्तिव्यसनातुरः पुनरसौ दीनो जनः कूर्म्मवत्
स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति॥
(लक्ष्मीधरस्य)
</3-239>
<3-240>
शिशिरः।
(240)
(क)
कन्याप्रसूतस्य धनुःप्रसङ्गा-
दङ्गाधिकासादितविक्रमस्य।
धनञ्जयाधीनपराक्रमस्य
हिमस्य कर्णस्य च को विशेषः॥
(ख)
श्लोकेऽत्र कविर्माधमासेन सह भीष्मदेवस्य सादृश्यं दर्शयति :–
अलं हिमानीपरिदीर्णगात्रः
समापितः फालुनसङ्गमेन।
अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा
भीष्मो महात्माऽजनि माघतुल्यः॥
</3-240>
<3-241>
वसन्तः।
(241)
पतङ्गपाकसमये पतङ्गपतिविक्रमाः।र
पतङ्गस्योदये चेलुः पतङ्गा इव वानराः॥
टि—
(क) पतङ्गपाकसमये–पतङ्गस्य शालिधान्यविशेषस्य पाकसमये परिपाककाले। पतङ्गपतिविक्रमाः–पतङ्गानां पक्षिणां पतिः गरुड़ः तस्य विक्रम इव विक्रमो येषाम् ते। पतङ्गस्य–सूर्य्यस्य। पतङ्गाः–शलभाः। “पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्य्ययोः”।–मेदिनी।
(ख)
लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्
समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन्।
मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन्
रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि
(नवीनचन्द्र-विद्यारत्नस्य)
</3-241>
<3-242>
(घ) काल-विशेषः।
प्रभात-वर्णनम्।
(242)
परं प्राची पिङ्गा रसपतिरिव प्राश्य कनकं
परिम्लानश्चन्द्रो बुधजन इव ग्राम्यसमदसि।
परिक्षीणास्तारा नृपतय इवानुद्यमपरा
नराजन्ते दीपा द्रविणरहितानामिव गुणाः॥
(भोजराजकविवर्गस्य)
टि—
प्राची–पूर्वदिक्। पिङ्गा–पिङ्गलवर्णा। रसपतिः–पारदः। ग्राम्यसदसि–ग्राम्यजनसभायाम्। द्रविणरहितानां–निर्धनानाम्।
</3-242>
<3-243>
सूर्य्योदय-वर्णनम्।
(243)
राजीवानि विहासयन् कुमुदिनीराजिञ्च संरोदयन्
घूकालीञ्च विभाययन् निजकरैः कोकान् समुल्लासयन्।
नक्षत्राण्यपसारयन् शशभृतः कान्तिञ्च सङ्कोचयन्
लोकालिञ्च विबोधयन् तरलयन् सूर्य्यः समुज्जृम्भते॥
(उद्भटसागरस्य)
टि—
धूकालीं–पेचकसमूहम्। कोकान्–चक्रवाकान्। लोकालिं–जनसमूहम्।
</3-243>
<3-244>
सूर्य्यास्त-वर्णनम्।
(244)
सीताविरहिणा रामचन्द्रेण अस्तगामिनं सूर्य्यमवलोक्य भग्नमनसा सेतुबन्धनाशां विहाय लक्ष्मणं प्रति कथितम् :–
(क)
समग्रामादित्यप्रियकमलिनीं षट्पदहृतां
विलोक्यान्तर्मोदाद् मृद्रु कुमुदवृन्दं विहसति।
रविः खिन्नः पन्था हृतनववधूनामयमिदं
निमज्जन्नम्भोधौ कलयति करैरुद्धृततरैः॥
टि—
(क) हृताः अन्येनापहृता नववध्वो येषां तादृशानां पुरुषाणाम् अयम् अम्भोनिधिनिमज्जनरूपः पन्थाः। करैः–किरणैः; पक्षे हस्तैः।
(ख)
समुद्रतरणए निरुत्साहं श्रीरामचन्द्रम् अवलोक्य सूर्य्यास्तं प्रदर्श्य तं बोधयति लक्ष्मणः :–
समुद्विग्नानस्मानतलजलपारे गतिविधौ
विलोख्य व्यामर्षात् स्वनगतघनोर्मिं विदधतः।
पयोधेर्गाम्भीर्य्यं क्रियदिति स आवेदनपरो
निमज्जन्नम्भौधौ कलयति करैरुद्धृततरैः।
टि—
(ख)अस्मान्–रामादीन्। व्यामर्षात्–क्रोधात्। स्वनगतघनोर्ममिम्–निद्रामुद्रां–निद्राचिह्नम्, निद्रया नेत्रनिमीलनं वा।
</3-244>
<3-245>
सन्ध्या-वर्णनम्।
(245)
रवेरस्तं तेजः समुदयति खद्योतपटली
मरालाली मूका कलकलमुलूका विदधति।
इदं दृष्ट्वा कष्टं परमसहमाना कमलिनी
चिरान्निद्रामुद्रामहह तनुते क्लान्तनयना॥
</3-245>
<3-246>
चन्द्रोदय-वर्णनम्।
(246)
पाथोजानि निमीलयन् कुमुदिनीजालं समुन्मीलथन्
कोकानाकुलयन् चकोरमिथुनाशंसाञ्च सम्पूरयन्।
ज्योत्स्नां कन्दलयन् तमः कवलयन् सिन्धुं समुद्वेलयन्
लोकानारमयन् धरां धवलयन् सोमः समुज्जृम्भते॥
(उद्भटसागरस्य)
</3-246>
<3-247>
(ङ) मण्यादयः।
मणिः।
(247)
क्षितीशानां कोषान्तरतिमिरदोषक्षयकरः
फणीशानां शीर्षे प्रचुरशोभाशुभकरः।
स एवाहं दैवात् तव करमुपेतो मणिवणिग्-
उपेक्षाऽपेक्षा वा तव गुणपरीक्षापरिचयः॥
</3-247>
<3-248>
शङ्खः।
(248)
स्वभावकुटिलस्य महादुर्गतिः स्यात् :–
एकोत्पत्ती प्रकृतिधवलौ सुन्दरौ सोमशङ्खौ
शम्भुः सोमं प्रकृतिसुभगं स्वोत्तमाङ्गेन धत्ते।
शङ्खस्तत्र क्रकचनिकरैर्भिद्यते शङ्खकारैः
को नामान्तःप्रकृतिकुटिलो दुर्गतिं न प्रयाति॥
टि—
तत्र–तयोर्मध्ये। क्रकचनिकरैः–शङ्खभेदकास्त्रविशेषैः।
</3-248>
<3-249>
स्वर्णम्।
(249)
स्वर्णस्य खेदोक्तिरियम् :–
न वा ताड़नात् तापनाद् वह्निमध्ये
न वा च्छेदनात् क्लिश्यमानोऽहमस्मि।
सुवर्णस्य मेऽसह्यदुःखं तदेकं
यतो मां जना गुञ्जया तोलयन्ति॥
टि—
गुञ्जया सह–गुञ्जा कुचं इति भाषा। तोलयन्ति–ऊर्ध्वपरिमाणएन समीकुर्व्वन्ति। (भुजङ्गप्रयात-च्छन्दः)
</3-249>
<3-250>
(250)
दानपात्राणां विद्यादिगुणवत्तया विशेषमकुर्वन्तं धनवन्तं दैवस्य निर्व्विवेकताव्याजेन तिरस्करोति :–
(क)
धिग् दैवं निर्म्मलं नेत्रं कृतं कज्जलसंयुतम्।
सच्छिद्रः समलो वक्रः कर्णः स्वर्णएन भूषितः॥
टि—
(क) सच्छिद्रं–छिद्रं रन्धं; पक्षे दोषः वक्रः कुटिलः।
(ख)
नायं दैवस्य दोष इति द्वाभ्यां श्लोकाभ्यां कश्चिदाह :–
दैवस्य नैव दोषोऽयं गुणः प्रत्युत मन्यते।
रञ्जितं कज्जलैरक्षि भृङ्गालिभिरिवाम्बुजम्॥
टि—
(ख) अलिकुलैः कमलमिव कज्जलैरक्षिकमलं रञ्जितमित्यर्थः।
(ग)
विधिनैवेदमादिष्टं स्वर्ण कर्णगतं भव।
अजानद्भिस्तदर्थन्तु तेन कर्णावलङ्कृतौ॥
(एतौ शिवनारायणशिरोमणेः)
टि—
विधिना इदमेवादिष्टं, हे स्वर्ण त्वं कर्णगतं भव, श्रुतिमात्रे तिष्ठ; कामिनीकाञ्चनयोस्तत्त्वज्ञानपरिपन्थित्वाद् व्यवहारसंसर्गं मा कुरु। तु किन्तु तदर्थं विधातृवाक्यार्थम् अजानङ्भिः बोद्धुमक्षमैर्मूढ़ैरित्यर्थः। तेन–स्वर्णेन।
</3-250>
<3-251>
मेघः।
(251)
सत्पात्रेभ्या धनं दत्त्वा निर्धनस्य दातुर्दारिद्र्यमपि शोभते इत्याह :–
आसिच्य पर्वतकुलं तपनोष्मतप्तं
निर्वाप्य दावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा
रिक्तोऽसि यद् जलद सैव तवोन्नता श्रीः॥
टि—
दावविधुराणि–दावानलदग्धानि। रिक्तः–शून्यः जलरहित इत्यर्थः।
</3-251>
<3-252>
(252)
धनिनो गृहे बहुषु याचकेषु कृतार्थेषु प्रतिगतेषु तेषामेकस्तत्र तद्दानमनधिगम्य र्तधनवन्तमिदमाह :–
हे धाराधर धीर नीरनिकरैरेषा रसा नीरसा-
ऽशेषापूषकरोत्करैरतिखरैरापूरि भूरि त्वया।
पकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तय-
न्नाश्चर्य्यं परिपीड़ितोऽयमभितो यच्चातकस्तष्णया॥
टि—
रसा–पृथ्वी। पूषकरोत्करैः–पूष्णः सूर्य्यस्य कराणाम् उत्करैः समूहैः। एकान्तेन–तट्गतेन–तट्गतेन। अन्तरागतम्–अवसरप्राप्तम्। स्वानतेन–चेतसा। अभितः–सम्मुखे।
</3-252>
<3-253>
(253)
मेघ त्वं निजजीवनेन जगतः संतृप्तिसंवर्द्धकः
प्रायस्त्वत्सदृशो न कोऽपि भविता भूतोऽथवा विद्यते।
किन्त्वेकन्त्वसमञ्जसं व्यथयति प्रज्ञावतां मानसं
यन्मण्डूकमयूरमोदनविधौ तुल्यस्तवानुग्रहः॥
टि—
असमञ्जसम्–अयोग्यम्। मण्डूकः–भेकः।
</3-253>
————————————–
** निन्दाप्रशंसा-तरङ्गः।**
(क) निन्दा-तर्गः।र
असन्तोष-निन्दा।
(254)
<3-254>
भोगवासनैव महतां महत्त्वं दूषयतीत्याह :–
आशालताच्छेदनमन्तरेण
भवेदनर्थो महतामवश्यम्।
भोगप्रसक्तः क्रमशो विवस्वान्
मीनञ्च मेषञ्च वृषञ्च भुङ्क्ते॥
(कविचन्द्रस्य)
टि—
विवखान्–सूर्य्यः। मीनमेषवृषाणां क्रमपाठात् भोगवासनाया उत्तरोत्तरं प्राबल्यं सूचितमिति।
</3-254>
<3-255>
आत्मगौरव-निन्दा।
(255)
क्षुद्रा एवात्मानं श्लाघन्ते इत्याह :–
भेको वक्ति विलङ्घ्य कूपसलिलं को मे हनूमान् पुरो
गन्धर्वं हसति स्वरं स्वरतरं कृत्वा मुदा गर्दभः।
खद्योतः परिदर्श्य दीधितिलवं चन्द्रप्रभां निन्दति
क्षुद्रः पश्यति नात्मनोचतमतां मिथ्याभिमानोद्धतः॥
</3-255>
<3-256>
उदर-निन्दा।
(256)
श्रीकृष्णस्य स्तोत्रं रचयितुमिच्छुर्वाग्धेवतायाः साम्मुख्यमाधत्ते :–
मातर्नातः परमनुचितं यत् खलानां पुरस्ता-
दस्ताशङ्कं जठरपिठरीपूर्त्तये नर्त्तितासि।
तत् क्षन्तव्यं सहजसरले वत्सले वाणि कुर्य्यां
प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः॥
टि—
खलानां–सदसद्विवेकविधुराणाम्। अस्ताशङ्कं–अस्ता नष्टा आशङ्गा यस्मिन् तद् यथा तथा। जठरपिठरीपूर्त्तये–उदररूपस्थालीपूरणाय। गोपवेशस्य विष्णोः–श्रीकूष्णस्य। गुणगणनया–गुणकीर्त्तिनरूपस्तोत्ररचनया प्राययश्चित्तं कुर्य्याम्।
</3-256>
<3-257>
कलिकाल-निन्दा।
(257)
केचिद् वा यदि सन्ति वैदिकरतास्ते विप्रलम्भव्रताः
कारुण्यादिगुणास्तु कुत्र यदि ते वेदक्रियावर्ज्जिताः।
इत्थं पापकलापदूषिततराः प्रायेण सर्व्वें नराः
सत्यस्यापि तथा न तत् तव कले बाल्येऽपि या वीरता॥
(राखालदास-न्यायरत्नस्य)
</3-257>
<3-258>
(258)
कलौ प्रायशो जनाः स्वधम्मं नानुरज्यन्ते इत्याह :–
न सन्ध्यां सन्धत्ते नियमित `निमाजान्’ न कुरुते
न वा मौञ्जीबन्धं कलयति न वा `सुन्नत’विधिम्।
न `रोजां’ जानीते व्रतमपि हरेर्नैव भजते
न काशी `मक्का’ वा शिव शिव न हिन्दुर्न यवनः॥
</3-258>
<3-259>
कुपुत्त्र निन्दा।
(259)
पित्रोर्नैव वचः शृणोति दिवसेऽतीते व्रजत्यालयं
विद्याभ्यासपराङ्युखश्च नितं दुर्बुद्धिमालम्बते।
बन्धूनामुपदेशवाचि वदाति क्रोधैकतानं वचः
साधुन् निन्दति दुर्जनञ्च मनुते मित्रं कूपुत्त्रो भुवि॥
</3-259>
<3-260>
कुभृत्य-निन्दा।
(260)
आहारे वड़वानलश्च शयने यः कुम्भकर्णायते
सन्देशे बधिरः पलायनविधौ सिंहः शृगालो रणे।
अन्धो वस्तुनिरीक्षणेऽथ गमने खञ्जः पटुः क्रन्दने
भाग्येनैव हि लभ्यते प्रभुजनैरेवंविधः सेवकः॥
टि—
कुम्भकर्णायते–कुम्भकर्णवत् दीर्घनिद्रां याति। सन्देशे–संवादवहने। वस्तुनिरीक्षणे–द्रव्यदर्शने।
</3-260>
<3-261>
(261)
आह्वानेषु गृहीतमौननियमः स्तेयव्रते दीक्षितः
पङ्गुः पर्य्यटने निरन्तरमृषाजल्पेषु पञ्चाननः।
निद्रायां खलु कुम्भकर्णविजयी हस्ती तथा भोजने
कोलः शौचविधावयं सुकृतिनां भाग्येन भृत्यो भवेत्॥
टि—
स्तेयव्रते–चौरकर्म्मणि। मृषाजल्पेषु–मिथ्याकथनेषु। कोलः–शूकरः।
</3-261>
<3-262>
कुवैद्य-निन्दा।
(262)
न धातोर्विज्ञानं न च परिचयो वैद्यकनये
न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः!
तथाप्येते वैद्या इति तरलयन्तो जड़जना-
नसून् मृत्योर्भत्या इव वसु हरन्ते च गदिनाम्॥
(वेङ्कटाध्वरिणः)
टि—
वायुपित्तकफादयो धातव उच्यन्ते। वैद्याकनये–वैद्यशास्त्रे। तरलयन्तः–व्याकुलीकुर्वन्तः।
</3-262>
<3-263>
कुसंसर्ग-निन्दा।
(263)
दुष्टस्य सङ्गतिरनर्थपरम्पराया
हेतुः सतां भवति किं कथनीयमत्र।
लङ्केश्वरो हरति दाशरथेः कलत्रं
प्राप्नोति बन्धनमहो किल सिन्धुराजः॥
(विञ्जकायाः)
टि—
सागरस्य रावणसन्निहितत्वादिति।
</3-263>
<3-264>
कृतन्घ-निन्दा।
(264)
उपकारिणः परिणामे सुगतिरपकारिणय दुर्गतिरेव स्यात् :–
दन्तान्तःपरिलग्नदुःखदकणा निःसार्य्यते जिह्वया
तां हन्तुं सरलां सदोद्यमयुता दन्तास्तु हन्तानुजाः।
आ मूलान्निपतन्ति दष्टदशना जिह्वा चिरस्थायिनी
मित्रद्रोहदुरन्तदुष्कृतफलैर्नो मुच्यते कश्चनः॥
</3-264>
<3-265>
कृपण-निन्दा।
(265)
सा माता मम भारती प्रतिदिनं लक्ष्म्या विमात्रा सह
मौखर्य्यं विदधाति सापि चपला रुष्टा गृहान्निर्गता।
तामन्वेषयता मयात्र भवतो द्वारं प्रविष्टं मुदा
मन्ये त्वद्वचसाऽत्र नागतवती स्थानान्तरं गम्यते॥
टि—
अन्वेषयता–अन्येषणम् अन्वेषस्तं कुर्व्वता। `त् करोति तदाचष्टे’ इति णिच्, ततः शतृ-प्रत्ययः।
</3-265>
<3-266>
(266)
दृढ़तरनिबद्धमुष्टेः
कोषनिषस्मस्य सहजमलिनस्य।
कृपणस्य कृपाणस्य च
केवलमाकारतो भेदः॥
टि—
दृढ़तरं निबद्धा मुष्टिर्येन, पक्षे यस्मिन् तस्य। एकत्र दृढ़मुष्टिबन्धेन धनं रक्षतः, अन्यत्र धारणकाले कोषे धनागारे निषणस्य अपहरणादिभयात् सदैव दत्तदृष्टेः, पक्षे कोषे आवरणए स्थितस्य। सहजमलिनस्य–नीचस्वभावस्य; पक्षे स्वभावतः कृषणवर्णस्य। आकारतः–आकृत्या, आकारेण वर्णेन च।
</3-266>
<3-267>
(267)
धनस्य सञ्चयवद दानमपि कार्य्यमित्याह :–
दातव्यं कृतिभिर्धनं न खलु तैः सञ्चीयतां केवलं
दान श्रीबलिकर्णविक्रमरवेः ख्यातं पृथिव्यां परम्।
दृष्ट्वा स्वं मधु दानभोगरहितं नष्टं चिरात् सञ्चितं
निर्वेदादिव पाणिपादयुगलं घर्षन्त्यहो मक्षिकाः॥
</3-267>
<3-268>
गृहविशेष-निन्दा।
(268)
कृतदाराणां पुंसां प्रायशो गृहजनविच्छेदो भवतीत्याह :–
यस्या जन्मान्यवंशे वसतिरपि सदा दूरदेशे पुरासीत्
सैषा भूत्वा वधूटी प्रकटितविनया वेश्ममध्यं प्रविश्य।
आजन्मप्राणतुल्यान् गुरुजनजननीसोदरानन्तरङ्गान्
दूरीकृत्य स्वगेहात् पतिमनुरमते धिग् गृहस्थाश्रमं नः॥
टि—
वधूटी–बाला वधूः। अनु–सह।
</3-268>
<3-269>
(269)
अन्नचिन्ता हि पुरुषाणां सर्वगुणसंहारिणीत्याह :–
तावद् विद्याऽनवद्या गुणगणमहिमा शौर्य्यगाम्भीर्य्यवीर्य्यं
गेहे स्वे सर्वशान्तिः परगुणकथने वाक्पटुत्वं प्रभूतम्।
यावत् पाकाकुलाभिः स्वगृहयुवतिभिः प्रेषितापत्यवक्ता-
द्धा बाबा नास्ति तैलं न च लवणमपीत्यादिवाचां श्रुतिर्न॥
टि—
अनवद्योति पदं परत्र यथाशम्भवं लिङ्गव्यत्ययेनान्वेतव्यम्।
</3-269>
<3-270>
जामातृ-निन्दा।
श्वशुरगृहचिरवासिनं जामातरं लक्ष्यीकृत्य कथयति :–
श्वशुरगृहनिवासः स्वर्गवासो धरायां
निवसति ननु कश्चिद् वासरान् पञ्चषांश्चेत्।
तदधिकमपि तिष्ठेद् दुग्धलुब्धो विड़ाल-
स्तदधिकदिनवासे पाटुकापूतपृष्ठः॥
</3-270>
<3-271>
(271)
भारतं पञ्चमो वेदः सुपुत्त्रः सप्तमो रसः।
दाता पञ्चदशं रत्नं जामाता दशमो ग्रहः॥
टि—
वेदादीनां पञ्चमादित्वादीनाम् असत्त्वेऽपि तत्कथनात् तेषा तद्वत् कार्य्यकारित्वमिति बोध्यम्। चक्र-रथ-मणि-खङ्घ-चर्म्म-केतु-निधि-भार्य्या-पुरोहित-सेनानी-रथकृत्-पत्ति-घोटक-कलभा एतानि चतुर्द्दशरत्नानि।
</3-271>
<3-272>
टीकाकार-निन्दा।
(272)
विविधशास्त्रेषु वैचक्षण्यं विना कस्यचिद् ग्रन्थस्य दीकाप्रणयनमुपहासाय भवतीत्याह :–
दुबोधं यदतीव तद् विजहति स्पष्टार्थमित्युक्तिभिः
स्पष्टार्थेष्वतिविस्तृतिं विदधति व्यर्थैः समासादिकैः।
अस्थानेऽनुपयोगिभिश्च बहुभिर्जल्पैर्भ्रमं तन्वते
श्रोतॄणामिति वस्तुविप्लवकृतः प्रायेण दीकाकृतः॥
(भोजराजस्य)
</3-272>
<3-273>
दारिद्र्य-निन्दा।
(273)
कमलश्रीहरश्चन्द्रः पूर्णचन्द्रस्ततोऽधिकम्।
तत् तत्र विषदृष्टिस्ते किं मातः कमलालये॥
(उद्भटसागरस्य)
टि—
तत्र–पूर्णचनद्रे। कमलालये–इत्यनेन विषदृष्टिहेतुः सूचितः।
</3-273>
<3-274>
(274)
पलालोपरि वस्त्रखण्डमेकं पातयित्वा निशि शयानस्य भर्त्तुः समीपे स्तनन्धयशिशुमादाय शयितुमागता पत्री भर्त्तारमिदमाह :–
वासःखण्डमिदं प्रयच्छ ननु वा स्वाङ्के गृहाणार्भकं
रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः।
दम्पत्योरिति जल्पितं निशि यदा शुश्राव चोरस्तदा
लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः॥
टि—
अर्भकम्–शिशुम्। कर्पटम्–वस्त्रम्।
</3-274>
<3-275>
(275)
दारिद्र्यमूलां दुरवस्थां दर्शयति :–
वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोऽभ्यर्णजलागणः कुशलिनी वत्सस्य वार्त्तापि नो।
यत्नात् सञ्चिततैलबिन्दुघटिका भग्नेति पर्य्याकुला
दृष्ट्वा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति॥
टि—
स्थूणा–गृहस्तम्भः, `खुटि इति भाषा। अभ्यर्णजलागमः–अभ्यर्णः आसन्नः जलागमः यस्मिन् तादृशः कालः।
</3-275>
<3-276>
(276)
क्षुत्तृषासास्त्रयो दारा मयि जीवति नान्यगाः।
तासामाशा महासाध्वी मुञ्चन्तं मां न मुञ्चति॥
टि—
मयि जीवति सति नान्यगाः–अन्यं पुरुषान्तरं गच्छन्ति यास्तादृश्यो न। यद्यपि क्षुधा तृष्णाच कदाचिन्मां मुञ्चति आशा तु न क्षणमपि।
</3-276>
<3-277>
(277)
वाग्वैचित्र्येण दारिद्र्यं निन्दन्नाह :–
चौरेभ्यो न भयं न दण्डपतनात् त्रासोऽपि वा भूपतेः
शङ्का नो शयने निशासु गमने दुर्गे च दूरे पथि।
दाग्द्र्यिं सुखमेव केवलमहो दुःखद्वयं दुःमह-
मायान्तोऽतिथयः प्रयान्ति विमुखा निन्दन्ति च ज्ञातयः॥
<3-277>
<3-278>
(278)
दरिद्रस्य विद्या विफलैव ग्रासाच्छादनार्थं भिक्षाश्रयणादित्याह :–
विद्या मे वनिता ततोऽजनि सुतैर्लज्जायशोमानकै-
र्दैन्यात् साऽनशना।नशत् सह सुतैर्भिक्षाऽपरा संग्रहा।
साऽबाध्या भजते सदैव धनिनस्तस्याञ्च जातः सुतः
सोऽर्थः क्षेत्रज एव पाति ससुखं मां किं तया विद्यया॥
टि—
संग्रहा–सं सम्यक् ग्रहो ग्रहणं यस्याः सा, यथाविधि परिणीता अमूदिति शेषः।
</3-278>
<3-279>
(279)
दारिद्र्यान्मरणमपि वरमिति भङ्ग्यन्तरेणाह :–
उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्याभारं मम्
श्रान्तस्तावदहं चिरं मरणजं सेवे त्वदीयं सुखम्।
इत्युक्तो धनवर्ज्जितेन विदुषा सख्या श्मशाने शवो
दारिद्र्यान्मरणं परं सुखमिति ज्ञात्वेव तूष्णीं स्थितः॥
</3-279>
<3-280>
(280)
धनाशया धनिगृहाङ्गनं प्रविष्टस्य दौवारिकेण गलहम्तं दत्त्वा बहिष्कृतस्य क चिदुक्तिरियम् :–
भस्माच्छन्नतनुः कदर्य्यशयनाच्छूली कदन्नाशनात्
तैलाभाववशात् सदा शिरसि मे केशा जटात्वं गत
गौरेकः स च नैव लाङ्गलवहो भार्य्या गृहे चण्डिका
प्राप्य त्वत्त इहार्द्धचन्द्रमधुना प्राप्तं पदं शाम्भवम्
</3-280>
<3-281>
(281)
सर्वें व्लेशबहुलैः कर्म्मभिः रामपदं प्राप्तुमभिलषन्ति दारिद्र्यन्तु मामयत्रसुलभं रामत्वं प्रापयदित्याह :–
जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम्।
कृतालङ्काभर्त्तुर्वदनपरिपाटीषुरचना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता॥
(भट्टवाचस्पतेः)
टि—
जनस्थानं–दण्डकारण्यमध्यवर्त्ती भूखण्डविशेषः; पक्षे लोकालयः। कनकमृगेति–कनकमृगः मायामृगाः, तद्विषयिणी तृष्णा लिप्सा तदन्धितधिया; पक्षे कनकमेव मृगतृष्णा मरोचिका तदनुगतबुद्धिना। अयि वैदेहि! इति वचः। प्रदिपदम्–पदे पदे। उदश्रु–सजलनयनं यथा यथा। प्रलपितं–मृषा कथितं; पक्षे वै इति पादपूरणे। देहि इति वचः, अन्थत् सुगमम्। लङ्काभर्त्तुः–रावणस्य वदनानां या परिपाटी अनुक्रमस्तस्यां इषुचरना वाणवर्षणं कृता; पक्षे ईषत् भर्त्ता काभर्त्ता निकृष्टस्वामी तस्य समीपे वदनपरिपाटीषु गुणकथनशृङ्खलासु रचना अलम् अत्यर्थं कृता। कुशलवसुता–सीता; कुशलवौ सुतौ यस्याः सा, पचे कुशलानि पटूनि योग्यानीत्यर्थः वसूनि धनानि यस्य तस्य भावः। अधिगता–प्राप्ता।
</3-281>
<3-282>
(282)
सुखदुःखं हि भाग्यमूलकमिति उक्तिप्रत्युक्तिभ्यामाह :–
कस्त्वं भोः कविरस्मि तत् किमु सखे क्षीणोऽस्यनाहारतो
धिग् देशं गुणिनोऽपि दुर्गतिरियं देशं न मामेव धिक्।
पाकार्थी क्षुधितो यदैव विदधे पाकाय बुद्धिं तदा
विन्ध्ये नेन्धनमम्बुधौ न सलिलं भूमौ न वा तण्डुलः॥
</3-282>
<3-283>
(283)
किञ्चित्कार्य्यानुरोधेन चिरं प्रोषितं पुनः प्रत्यागतं बाणेश्वरविद्यालङ्कारमवलोक्य महाराजकृष्णचन्द्रेण किमवस्था भवतो गृहिणीति पृष्टः स “प्रेषिते मलिना कृशे"ति शास्त्रनियमं स्मारयन् प्रत्युवाच :–
न भाले सुन्दूरं न च नयनयोरञ्जनरसो
न गात्रे स्नेहादिर्न च खदिररागोऽधरपुटे।
अवैधव्यं किञ्चित् कथयति मदम्भोरुहदृशो-
र्लुठत्यग्रे बाहोर्विगतकलहो लोहवलयः॥
(बाणेश्वर-विद्यालङ्कारस्य)
टि—
विगतकलहः–सति द्वितीये आभरणे कलहृः सम्भवेत्, अत्र तु तदभावात् कलहाभाव इति भावः।
</3-283>
<3-284>
(284)
दारिद्र्यात् परो रिपुर्नास्तीत्याह :–
शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्ति क्रमाद्
दैन्यं दीपयति क्षमां ज्ञपयति व्रीड़ां निरस्यत्यपि।
तेजो जर्जरयत्यपास्यति मतिं विस्तारयत्यर्थितां
दारिद्र्यं पुरुषस्य किं न कुरुते वैरं परं भीषणम्॥
(त्रिविक्रमस्य)
टि—
शातयति–पातयति। ज्ञपयति–नाशयति।
</3-284>
<3-285>
(285)
केनचित् नरपतिना नियम एष प्रचारितः यत् तस्य राज्यमध्ये कोटीश्वरं बिना कश्चिदपि जनो वस्तुं न समर्थो भविष्यतीत्याकर्ण्य कश्चिद् दरिद्रः कविः राजानमिदमुवाच :–
वाट्यं वाट्यालकोटिः कुपिठरजठरे मक्षिकाणाञ्च कोटिः
कोटिर्गण्डपदानां मम गृहपटले कुन्तले यूककोटिः।
अङ्गे विस्फोटकोटिः कटितटविलसत्कर्पटे ग्रन्थिकोटिः
श्रीषट्कोटीश्वरोऽहं कथय नृप कथं ते पुरे मे न वासः॥
टि—
वाट्यालाः–जघन्यवृक्षविशेषाः (`वेलेड़ा’ इति भाषा)। कुपिठरजठरे–कुत्सितपाकस्थालीरूपजठरे। गण्डूपदानां–किञ्चलुकानाम्। कर्पटे–वस्त्रे।
</3-285>
<3-286>
(286)
सर्वऽपि पुरुषकारा दैवप्रतिकूलत्वे विफलत्वमायान्तीत्याह :–
विद्या सत्कविता तथा सुजनता सेवापि च प्रार्थना
पञ्चैताः परिणिन्यिरे जनयुतं वित्तात्मजं यत्नतः।
व्यापारं सकलं विहाय सततं ताखेव रक्तं मया
दुर्दैवेन दुरात्मना नरपते पञ्चैव बन्ध्याः स्त्रियः॥
</3-286>
<3-287>
(287)
एकदा महाराजः कृष्णचन्द्रः बहुदिनादागतं गुप्तपल्लीग्रामनिवासिनं बाणेश्वरविद्यालङ्कारमपृच्छत् भो महात्मन् कस्ते निलयसंवाद इति। स च वक्ष्यमाणश्लोकेन तदुत्तरं दत्तवान् :–
दारिद्र्येण सहोदरेण सकलं तातस्य नीतं बलाद्
विद्यामानधनञ्च किञ्चन मया स्वोपार्ज्जितं यत्नतः।
तेनाद्यापि सह स्थित्न बलिना तत् सर्वमाकृष्यते
श्रीमन्नाथ विचारणैः समुचितैस्तं मत्पृथक् कारय॥
(बाणेश्वर-विद्यालङ्कारस्य)
टि—
सकलं–सर्व्वं पैतृकं धनम्। लयं–नाशम्। तं–दारिद्र्यसहोदरम्। आकृष्यते–गृह्यते।
</3-287>
<3-288>
(288)
वर्द्धमानाधिपेन कदाचित् पृष्टः स बाणेश्वरविद्यालङ्कारमहोदयः स्वां पारिवारिकीमवस्थां वर्णयति स्म :–
लज्जा मानसुता ममाद्यवनिता भिक्षाऽपरा दैन्यजा
तातैश्वर्य्यविगर्विता बलवती भिक्षा प्रगल्भाऽभवत्।
सा लज्जा निहता तयैव तनयाशोकेन मानो मृतो
भिक्षा दैन्यसुता चिरात् पतिरता नाद्यापि मां भुञ्जति॥
(बाणेश्वर-विद्यालङ्कारस्य)
टि—
मानसुता–मानस्य सुता मम आद्यवनिता प्रथमा स्त्री। अपरा वनिता भिक्षा दैन्यस्य कन्या। तातैश्वर्य्यविगर्विता–तातस्य दैन्यस्य ऐश्वर्य्येण प्रभुत्वेन विशेषेण गर्विता। एतेन दैन्यस्य प्राबल्यं सूचितम्।
</3-288>
<3-289>
(289)
दानार्थं कृतमानसेऽपि दातरि द्वारे दौवारिकेण प्रह्रियमाणो वैयाकरणदरिद्रः श्लोकमिमं दातरं श्रावयामास :–
सर्वज्ञ त्वं वदसि बहुधा दीयतां दीयतां भो
दाधातूनां भवति सदृशं रूपमेवं चतुर्णाम्।
द्वौ दानार्थौ भवत इतरौ पालने खण्डने च
नो जानीमः कथयतु भवान् कस्य वायं प्रयोगः॥
</3-289>
<3-290>
कविवरबाणेश्वरविद्यालङ्कारः कस्यचित् राज्ञः समीपमुपेत्याह राजन् जात्या ब्राह्मणोऽप्यहमिदानीं कुम्भकारवृत्तिमवलम्बितवानस्मीत्युक्त्वा स्वस्य तद्बृत्तिं प्रमाणयति :–
चिन्ताचक्रे भ्रमति नियतं मन्मनोमृतिकेय-
मार्द्रीभूता नयनसलिलैर्भ्रम्यते दैन्यदण्डैः।
आशाकुम्भाः कति कति कृताश्छेदिताः कर्म्मसूत्रै-
र्जात्या विप्रः पुनरहमहो कुम्भकारोऽस्मि वृत्त्या॥
(बाणेश्वर-विद्यालङ्कारस्य)
टि—
कृता–दैन्यदण्डैरिति शेषः।
</3-290>
<3-291>
(291)
प्रबलवर्षासु कस्यचिद् दरिद्रस्य कवेः स्वाश्रयलाभार्थं राज्ञे निवेदनमेतत् :–
पीठाः कच्छपवत् तरन्ति सलिले सम्मार्जनी मीनवद्
दर्वी सर्पविचेष्टितानि कुरुते सन्त्रासयन्ती शिशून्।
शूर्पार्द्धावृतमस्तका च गृहिणी भित्तिः प्रपातोन्मुखी
रात्रौ पूर्णतड़ागसन्निभमभूद् राजन् मदीयं गृहम्॥
(निद्रादरिद्रस्य)
</3-291>
<3-292>
दुर्जन-निन्दा।
(292)
दुर्जनं प्रथमं वन्दे सुजनं तदनन्तरम्।
मुखप्रक्षालनात् पूर्व्वं गुह्यप्रक्षालनं यथा॥
(निविड़नितम्बायाः)
</3-292>
<3-293>
(293)
स्वार्थः पुरुषाणां रुचिभेदेन तान् उत्तममध्यमाधमतां नयतीत्याह :–
ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्य ये बाधया
मध्यस्थाः परकीयकार्य्यकशलाः स्वार्थाविरोधेन ये।
तेऽमी मानुषराक्षसा- परहितं यैः स्वार्थतो हन्यते
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे॥
</3-293>
<3-294>
(294)
खला हि विषकुम्भाः पयोमुखा इति रेफसादृश्येन प्रमाणयति :–
सम्मुखवर्त्ती पिशुनो
भवति सदा यः पदे लग्नः।
स पुनः पृष्ठनिविष्टः
रेफ इवायं शिरःस्थायी॥
</3-294>
<3-295>
(295)
परस्परस्य अकृत्रिमं चिरमेलनमपि वियोजयुतुं कर्णेजपानामलौकिकी शक्तिरित्याह :–
दर्वीदीर्घविघदृनेन शिखिना भूयोऽपि सन्तापनै-
र्विश्लेषः पयसः कदापि हविषः केनापि नोद्भावितः।
मन्थानः पुनरेव विस्तुतमुखो भूयो भ्रमन्नन्तरे
पार्यक्यं विदधाति तादृगनयोरैक्यं यथा ना नुनः॥
</3-295>
<3-296>
(296)
खलस्वभावा अपरेषां गुणान् विहाय दोषानेव पश्यन्ति :–
काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहु-
र्दोषान्वेषणमेव मत्सरजुषां नैसर्गिको दुर्ग्रहः।
कासारेऽपि विकासिपङ्कजचये खेलन्मराले पुनः
क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः शम्बूकमन्विष्यति॥
टि—
मत्सरजुषां–खलानाम्। दुर्ग्रद्धिः। कासारे–सरसि।
</3-296>
<3-297>
(297)
दातुं कृतयत्नस्यापि दातुर्मतिविपर्य्ययं कुर्वन्तं खलं प्रति कस्यचिद् याचकस्योक्तिरियम् :–
प्रायः स्वभावमलिनो महतं समीपे
तिष्ठन् खलः प्रकुरुतेऽर्थिजनोपघातम्।
शीतार्दितैः सकललोकसुखावहोऽपि
धूमे स्थिते नहि सुखेन निषेव्यतेऽग्निः॥
टि—
अर्थिजनोपघातम्–याचकजनानां रविघ्नम्।
</3-297>
<3-298>
द्विपत्नीक-निन्दा।
(298)
द्विपत्रीकस्य दुरवस्थां दर्शयति :–
बिलाद् बहिर्बिलस्यान्तः स्थितमार्जारसर्पयोः।
आखुर्मध्य इवाभाति द्विभार्य्यो दुर्बलो नरः॥
(विकटनितम्बायाः)
</3-298>
<3-299>
(299)
कलौ भाग्यवशादेक एव धनस्वामी अवस्थाभेदेन पञ्चोपास्यदेवतात्मको भवतीत्याह :–
दूरादर्थिनमाकलय्य भजते सद्यो विरूपाक्षतां
सङ्गे किञ्च विरोचनत्वमथ संस्थाने नृसिंहाकृतिम्।
पाण्डित्योक्तिषु वक्रतुण्डरचनं दाने त्वपर्णात्मता-
मेकः पञ्चसुरात्मकः प्रभुरहो भाग्यैः कलौ लभ्यते॥
टि—
आकलय्य–ज्ञात्वा। विरूपाक्षतां–विकटलोचनत्वं विमुखत्वमिति यावत्; पक्षे शिवत्वम्। सङ्गे–संसर्गे समीपागमने इति यावत्। विरोचनत्वं वैतृष्ण्यम्; पक्षे सूर्य्यत्वम्। संस्थाने–सम्मुखे। नृसिंहाकृतिं–नराकारसिंहभावं; पक्षे तद्देवत्वम्। वक्रतुण्टरचनं–वक्रेण वक्रभावापन्नेन तुण्डेन मुखेन रचनं वाक्यविन्यासं; पक्षे वक्रेण शनिना कृतं तुण्डस्य मुखस्य रचनं निर्म्माणं तद्रूपं गमपतिभावम्। अपर्णात्मतां–पर्णस्यापि अभावशालिदरिद्रस्वरूपताम्। पक्षे अपर्णा दुर्गा तत्स्वरूपतां शक्तिरूपमिति यावत्।
</3-299>
<3-300>
(300)
धनिगृहे दरिद्रयाचकस्य दुरवस्थां कथयति :–
निद्राति स्नाति भुङ्क्ते चरति कचभरं शोधयत्यन्तराऽस्ते
दीव्यत्यक्षैर्न चायं गदितुमवसरः सायमायाहि याहि।
इत्युद्दण्डैः प्रभूणामसकृदधिकृतैर्वारितान् द्वारि दीना-
नस्मान् पश्याऽब्धिकन्ये सरसिरुहरुचामन्तरङ्गैरपाङ्गैः॥
(प्रेमचन्द्र-तर्कवागीशस्य)
टि—
शेषे–अनन्तनागे। भवभराक्रान्ते–ब्रह्माण्डभारनिपीड़िते। श्रिया–लक्ष्या। लक्ष्मीविशिष्टाः धनिन इत्यर्थः।
</3-300>
<3-301>
(301)
धनिगृहे दरिद्रयाचकस्य दुरवस्थां कथयति :–
निद्राति स्नाति भुङ्क्ते चरति कचभरं शोधयत्यन्तराऽस्ते
दीव्यत्यक्षैर्न चायं गदितुमवसरः सायमायाहि याहि।
इत्युद्दण्डैः प्रभूणामसकृदधिकृतैर्वारितान् द्वारि दीना-
नस्मान् पश्याऽब्धिकन्ये सरसिरुहरुचामन्तरङ्गैरपाङ्गैः॥
(प्रेमचन्द्र-तर्कवागीशस्य)
टि—
सरसिरुहरुचां–कमलकानतीनाम्। अन्तरङ्गैः–आत्मीयैः तत्तुल्यकान्तिविशिष्टैरित्यर्थः।
<3-302>
निर्गुण-निन्दा।
(302)
छेदश्चम्पकचूतचन्दनवने रक्षा करीरद्रुमे
हिंसा हंसमयूरकोकिलकुले काकेषु बह्वादरः।
मातङ्गेन खरक्रयः सुसमता कर्पूरकार्पासयो-
रेषा यत्र विचारणा गुणिगणए देशाय तस्मै नमः॥
टि—
करीरद्रुमे–वंशाङ्कुरे कण्टकिवृक्षविशेषे वा। खरः–गर्दृभः अश्वतरो वा।
</3-302>
<3-303>
निर्लज्ज-निन्दा।
(303)
लज्जाभयरहितस्य वाक्यं रोद्धुं न कोऽपि समर्थः :–
कामः को मे पुरस्तादिति वदति मुहु- पेचको मेत्वकाभः
संख्यो सिंहेन हेलां प्रथयति नितरां जीर्णबालः शृगालः।
उड्डीयोड्डीय काकोऽप्युपहसति गरुत्मन्तमप्यन्तराले
तज्जाभीतिच्युतानां वद वदनभृतां वाचि को बाधकः स्यात्॥
टि—
संख्ये–युद्धे। हेलाम्–अवहेलाम्; गरुत्मन्तं–गरुड़म्। वदनमृतां–मुखविशिष्टानां जनानाम्।
</3-303>
<3-304>
नीच-निन्दा।
(304)
स्वभावेन हि यः क्षुद्रो द्विगुणाद्युन्नतोऽपि सः।
न जहाति निजं भावं संख्यासु लाकृतिर्यथा॥
टि—
द्विगुणाद्युन्नतः–द्वित्रिचतुरादिभिर्विषयैरन्वितः; पक्षे द्वित्रिचतुरादिभिरङ्गैर्गुणितः। लाकृतिः–लृकारस्य आकृतिरिव आकृतिर्यस्याः सा नवमसंख्येत्यर्थः। द्विगुणादिसंख्यया नवमसंख्याया गुणो कृते यो राशिर्भवति तस्य योगफलेनापि पुनर्नवमसंख्यैक जायते। यथा, 2x9=18; 1+8=9। एवं त्र्यादिभिर्गुणेऽपि।
</3-304>
<3-305>
परिजन- निन्दा।
(305)
मूर्खो बहुविषं पुत्त्रो बहुतूलो लघुः सुता।
बहुवज्रं खरा दारा ज्ञातिश्च बहुवृश्चिकः॥
(उद्भटसागरस्य)
</3-305>
<3-306>
पुत्र-निन्दा।
(306)
नानादुःखदायी पुचो रिपुरिव इत्यत्र कवेरुक्तिः :–
पुत्त्रः स्यादिति दुःखितः सति सुते तस्यामये दुःखित-
स्तद्दुःखादिकमार्जने तदनयात् तन्मूर्खतादुःखितः।
जातश्चेत् सगुणोऽथ तन्मृतिभयं मृत्यौ भृशं दुःखितः
पुत्त्रव्याजमुपागतो रिपुरयं मा कस्यचिज्जायताम्॥
(भर्त्तृहरेः)
</3-306>
<3-307>
भिक्षा-निन्दा।
(307)
भिक्षुकाः कुक्कुरसमा इति दर्शयति :–
द्वारे द्वारे परेषामविरलमटति द्वारपालैः करालै-
रालोक्यैवाहतो यः स्वनति गणयति स्वापमानं न किञ्चित्।
सोढुं शक्नोति नान्यं स्वसदृशमितरागारमप्याश्रयन्तं
श्राम्यत्यात्मोदरार्थे स कथमिह शुना नो समो भिक्षुक्रो यः॥
(दामोदरगुप्तस्य)
</3-307>
<3-308>
9308)
याच्ञासन्निपातज्चरयोः साम्य दर्शयति :–
सप्रस्वेदः पुलकपरुपः संभ्रमी सप्रकम्पः
सान्तर्दाहः प्रशिथिलधृतिः सास्यशोषः सतर्षः।
संवृत्तो यो गुरुरपि लघुर्हन्त तैस्तैः प्रकारै-
र्याच्ञाशब्दः स्पृशति पदवीं सन्निपातज्वरस्य॥
टि—
सप्रस्वेदः–घर्म्मार्त्तः। पुलकपरुषः–रोमाञ्चान्वितः। संभ्रमी–भ्रमणशीलः भ्रान्तश्च। सप्रकम्पः–कम्पयुक्तः। सान्तर्द्दाहः–दरिद्रः चन्नचिन्तया, ज्चरी च ज्चरप्रकोपाद अन्तर्द्दाहविशिष्टः। प्रसिथिलधृतिः–च्युतधैर्य्यः, उभयोरपि विचारबुद्धेरभावात्। सास्यशोषः–चिन्तया ज्वरप्रकोपेण च शुष्कमुखमध्यः।
</3-308>
<3-309>
मद्यपान-निन्दा।
(309)
यत् पीत्वा गुरवेऽपि कुप्यति विना हेतोस्तथा रोदिति
भ्रान्तिं याति करोति साहसमपि व्याधेर्भवत्यास्पदम्।
कौपीनञ्च जहाति लोकपुरतोऽप्युन्मत्तवच्चेष्टते
तल्लज्जापरिपन्थि मोहजनकं मद्यं न पेयं नरैः॥
(शङ्कुकस्य)
</3-309>
<3-310>
मूर्ख-निन्दा।
(310)
लक्ष्मीवन्तो जना गोसमबुङ्कय इति वर्णयति :–
गोभिः क्रीड़ितवान् कृष्ण इति गोसमबुद्धिभिः।
क्रीड़त्यद्यापि सा लक्ष्मीरहो देवी पतिव्रता॥
(विज्जकायाः)
</3-310>
<3-311>
(311)
मुर्खस्य अष्टविधभावान् विवृणोति :–
मूर्खत्वं सुलभं भजस्व कमते मूर्खस्य चाष्टौ गुणा
निश्चिन्तो बहुभोजकोऽतिमुखरो रात्रिन्दिवं स्वप्नभावा।
कार्य्याकार्य्यविचारणाविरहितो मानापमाने समः
प्रायेणामयवर्जितो दृढ़वपुर्मूर्खः सुखं जीवति॥
</3-311>
<3-312>
लोम-निन्दा।
(312)
लोभपरतन्त्रा हि जीवनाशामप्यपहाय किं न कुर्वन्तीत्याह :–
यद्दुर्गामटवीमटन्ति विकटं क्रामन्ति देशान्तरं
गाहन्ते गहनं समुद्रमथनक्लेशां कृषिं कुर्वते।
सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसञ्चरं
गच्छन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम्॥
टि—
गजघटासंघट्टदुःसञ्चरम्–मदमत्तगजसद्धर्षदुर्गमम्। प्रधनं–युद्धम्। सर्पन्ति–गच्छन्ति।
</3-312>
** (ख) प्रशंसा-तरङ्गः।**
उद्भटकविता-प्रशंसा।
<3-313>
(313)
रसा तस्मै नम उद्भटस्य
शीतायते हृत् पृषताऽपि यस्य।
प्रफुल्लभावं सुजनस्य चास्य-
माविल्यमेवैति सुदुर्जनस्य॥
(उद्भटसागरस्य)
</3-313>
<3-314>
(314)
खिन्नं स्वेन समुद्भटेन सरसं स्वीयं मनो जायते
श्रुत्वाऽन्यस्य समुद्भटं खलु मनः श्रोतुं पुनर्वाञ्छति।
अज्ञान् ज्ञानवतोऽपि येन वशगान् कर्त्तुं समर्थः सुधीः
कार्य्यस्तस्य समुद्भटस्य मनुजैरत्यादरात् संग्रहः॥
टि—
स्विन्नं–स्वेदयुक्तं क्तिष्टमित्यर्थः। स्वेन समुद्भटेन–स्वरचितेन उद्भटश्लोकेन।
</3-314>
<3-315>
(315)
अस्थाने पतितः स उद्भटरसो वाणीप्रियः कल्पते
त्यक्काराय धृणाचयाय नितरां तापाय पापाय च।
स्थाने स व्ययितः परं प्रभवति प्रख्यातये भूतये
चेतोनिर्वतये परोपकृतये शेषे शिवस्याप्तये॥
(पण्डितजगद्धरस्य)
टि—
न्यक्वाराय–धिक्वाराय पातयितुः कवेरिति शेषः। एवं परत्र। पापं हि अस्थानोपन्यासजनितमिति बोध्यम्।
</3-315>
<3-316>
(316)
किं हारैः किमु कङ्कणैः किमतुलैः कर्णावतंसैरलं
केयूरैर्मणिकुणअडलैरलमलं साड़म्बरैरम्बरैः।
पुंसामेकमखण्डितं पुनरिदं मन्यामहे मण्डनं
यन्निष्पीड़ितपार्वणामृतकरस्यन्दोपमा उद्भटाः॥
(वल्लभदेवस्य)
टि—
हारैः–स्नग्भिः। साड़म्बरैः–वैचित्र्यबाहुल्ययुक्तैः। अम्बरैः–वस्त्रैः। निष्पीड़ितो यः पार्वणामृतकरः पूर्णचन्द्रः तस्य स्यन्देन क्षरता अमृतेन उपमा येषं ते।
</3-316>
<3-317>
उद्यम-प्रशंसा।
(317)
स्वपोषणार्थं कृतप्रयत्नो जनः सिद्धिं लभते :–
भ्रमन् स्वं पूरयेद् वैद्यो भ्रमन् स्वं पूरयेद् द्विजः।
भ्रमन् स्वं पूरयेत् तर्कुरभ्रमन् स्वं न पूरयेत्॥
(कविचन्द्रस्य)
टि—
तर्कुः–`टेको’ इति भाषा। स्वपोषणार्थं कृतयत्नो जनः सिद्धिं लभते इति भावः।
</3-317>
<3-318>
गुणज्ञ-प्रशंसा।
(318)
गुणपरिचयेन तदास्वादो यस्य कस्यापि न घटते इत्याह :–
संगृह्लाति गुणी गुणं गुणिगणाद् गृह्लाति तं नागुणो
दूरारण्यनिकेतनोऽपि मधुपः प्राप्यैव तत् पङ्कजम्।
माध्वीकं परिषेवतेऽस्य नितरामाकण्ठमुत्कण्ठितो
भेकस्तन्निकटस्थितोऽपि नियतं खादत्यहो कर्दमम्॥
</3-318>
<3-319>
गृहि-प्रशंसा।
(319)
हरौ तुष्टे गृही जनः सर्व्वाणि सुखानि लभते :–
पुत्त्रः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः
स्निग्धं मित्रमवञ्चकः परिजनो निष्क्लेशलेशं मनः।
आकारो मधुरः स्थिरश्च विभवो विद्यावदातं मुखं
तुष्टे विष्टकष्टहारिणि हरौ संप्राप्यते गेहिना॥
टि—
विद्यावदातं–विद्यया अवदातं शुभ्रं निर्म्मलमित्यर्थः। विष्टपकष्टहारिणि–भुवनदुःखविमोचके।
</3-319>
<3-320>
छात्त्र-प्रशंसा।
(320)
छात्त्रेषुकः प्रशस्यः को वा निन्द्यस्तदाह :–
यश्छात्त्रः श्रुतमात्रमर्थमखिलं गृह्णाति स श्राव्यतां
यो वेत्ति द्बिरुदाहृतं कृतफलं तत्रापि वक्तुर्वचः।
यस्तु स्पष्टमनेकशोऽप्यभिहितः कुर्य्यान्न किञ्चिद् ग्रहं
धिक् तं तत्पितरौ धिगेव नितरां धिक् तद्गुरुं गर्दभम्॥
(हरिभट्टस्य)
टि—
श्राव्यताम्–गुरुणा पाठ्यताम्। कृतफलम्–सफलम् ग्रहम्–ग्रहणम्, अर्थबोधमिति यावत्।
</3-320>
<3-321>
तेजस्वि-प्रशंसा।
(321)
तेजस्वी जनः दुःस्थोऽपि कदापि न नीचकार्य्यं करोति :–
स्वपौरुषमहायशाः समयदोषदुःस्थोऽपि सन्-
नल्पविषयाशयो लघुषु नेहते कर्म्मसु।
महोधरसहोदरद्विरदयूथविद्रावणो
बुभुक्षुरपि केशरी न खलु मूषिकं धावति॥
</3-321>
<3-322>
दया-प्रशंसा।
(322)
दया परं धर्म्मममुत्र चात्र
दयावतां न स्वपरप्रभेदः।
दुःखं परेषामवलोकते चेद्
मत्वाऽत्मनस्तद् व्यथते दयालुः॥
(शिवनारायण-शिरोमणेः)
</3-322>
<3-323>
दातृ-प्रशंसा।
(323)
दरिद्रदुःखदूरीकरणे देवानां वैमुख्यं दर्शयन् दानशीलान् महाजनान् स्तौतिः :–
रुद्रोऽद्रिं जलधिं हरिर्दिविषदो दूरं विहायः श्रिता
भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः।
लीना पद्मवने सरोजसदना मन्थेऽरथिसार्थाद् भिया
दीनोद्धारपरायणाः कलियुगे धन्या उदारा जनाः॥
(शङ्कुकस्य)
टि—
दिविषदः–देवाः। दूरं विहायः–दूरवर्त्ति आकाशं स्वर्गमित्यर्थः। अर्थिसार्थात्–याचकगणात्।
</3-323>
<3-324>
(324)
एक एव दानशौण्डो जनो बहुजनान् परितोषयति :–
एकोऽयं पृथिवीपतिः क्षितितले लक्षाधिका भिक्षुकाः
किं कस्मै वितरिष्यतीति किमहो मिथ्यैव तच्चिन्त्यते।
आस्ते किं प्रतियाचकं सुरतरुः प्रत्यम्बुजं किं रविः
किं वाऽस्ति प्रतिचातकं प्रतिलतागुल्मञ्च धाराधरः॥
</3-324>
<3-325>
दाम्पत्यप्रेम-प्रशंसा।
(325)
दाम्पत्यप्रेमभावाभावादेव सांसारिकसुखदःखं भवति :–
प्रशंसन्ति च निन्दन्ति निगमा यद् गृहाश्रमम्।
दाम्पत्यसाम्यवैषम्यभेदादेतद्व्यवस्थितिः॥
(नीलकण्ठदीक्षितस्य)
टि—
निगमाः–शास्त्राणि। दाम्पत्यसाम्ये गृहाश्रमः प्रशस्यः, तद्धैवम्ये निन्द्य इति भावः।
</3-325>
<3-326>
दुःख-प्रशंसा।
(326)
द्विष्टत्वेन विबुध्य दुःखमबुधैर्नैतत् कदा काम्यते
न द्विष्टं परमिष्टसाधनमिदं विज्ञेन विज्ञायते।
वैराग्यं नहि जायते जनिहरं शोकादिजं तद्विना
तस्मादेव गुणत्वमत्र मुनिना गोतं कणादादिना॥
(महामहोपाध्याय-राखालदास-न्यायरत्नस्य)
</3-326>
<3-327>
धन-प्रशंसा।
(327)
धनसम्बन्धादेव पुंसां सम्मानभागित्वमित्याह :–
लक्ष्मीश इति गोविन्दः श्रीदमित्रमितीश्वरः।
हिरण्यगर्भ इत्येव ब्रह्मापि बहु मानितः॥
(नीलकण्ठ-दीक्षितस्य)
टि—
श्रीदः कुवेरः तस्य मित्रम्। लक्ष्मीकुवेरहिरण्यानां यथाक्रमसम्बन्धाद् गोविन्दादीनां सम्मान इत्यर्थः।
</3-327>
<3-328>
धनि-प्रशसा।
(328)
धनगुणयोर्धनमेव गरीय इत्याह :–
धिगस्त्वेषां विद्यां धिगपि कवितां धिक् सुजनतां
वयो रूपं धिग् धिग् धिगपि च कुलं दुर्गतिमताम्।
असौ जीयादेकः सकलगुणहीनोऽपि धनवान्
बहिर्यस्य हारे तृणलवसमाः सन्ति गुणिनः॥
</3-328>
<3-329>
धर्म-प्रशंसा।
(329)
धर्म्मबुद्धिः सुदुर्लभैव :–
मानुष्ये सति दुर्लभा पुरुषता पुंस्त्वे पुनर्विप्रता
विप्रत्वे बहुविद्यता नययुता विद्यावतोऽर्थज्ञता।
अर्थज्ञस्य विचित्रवाक्यपटुता तत्रापि लोकज्ञता
लोकज्ञस्य समस्तशास्त्रविदुषो धर्म्मे मतिर्दुर्लभा॥
(क्षेमेन्द्रस्य)
</3-329>
<3-330>
(330)
धर्म्मात् परं धनं नास्ति :–
धर्म्मः शर्म्म परत्र चेह च नृणां धर्म्मोऽन्धकारे रविः
सर्वापत्प्रशमक्षमः सुमनसां धर्म्मो निधिर्मूल्यवान्।
धर्म्मो बन्धुरबान्धवे पृथुपथे धर्म्मः सुहृन्निश्चलः
संसारोरुमरुस्थले सुरतरुर्नास्त्येव धर्म्मात् परम्॥
(क्षेमेन्द्रस्य)
टि—
पृथुपथे–सुविस्तृतपथे स्वर्गगमनपथे इत्यर्थः। संसारेति–संसाररूपं पृथु विस्तृतं भीषणमित्यर्थः मरुस्थलं तस्मिन्। सुदतरुः–कल्पवृक्षः।
</3-330>
<3-331>
पण्डित-प्रशंसा।
(331)
पण्डितस्य अष्ट गुणान् बिवृणोति :–
दम्भं नोद्वहते न निन्दति परान् नो भा,ते निष्ठरं
प्रोक्तं केनचिदप्रियञ्च सहते क्रोधञ्च नालम्बते।
ज्ञात्वा शास्त्रमपि प्रभूतमनिशं सन्तिष्ठते मूकवद्
दोषांश्छादयते गुणान् वितनुते चाष्टौ गुणाः पण्डिते॥
</3-331>
<3-332>
(332)
उपादाता यावन्न भवति गुणानां गुणवता-
मसत्कल्पास्तावत्त्रिभुवनमहार्घा अपि गुणाः।
अपि प्राग् दैत्यरिर्हृदयवसतेः कौस्तुभमणिः
स किं नासीदब्धौ श्रुतिरपि किमस्य क्वचिदभूत्॥
टि—
गुणवतां गुणानाम् उपादाता ग्रहीता यावन्न भवति तावत् त्रिभुवनमहार्घाः त्रिषु भुवनेषु महामूल्या अपि गुणवतां गुणाः असत्कल्पाः मन्दाभिप्राया भवन्तीति शेषः। अत्र दृष्टान्तमाह–दैत्यारेर्विष्णोः हृदयवसतेः हदि धारणात् प्राक् अपि स प्रसिद्धः कौस्तुभमणिः अब्धौ समुद्रे किं नासीत् अपि त्वासीदेव। क्वचित् कुत्रापि अस्य मणएः श्रुतिः श्रवणमपि अभूत् उपादातुरभावान्नाभूदेव इत्यर्थः। गुणपरिचयेन गुणवतां माहात्म्यम् आश्रयमूलमेवेति भावः।
</3-332>
<3-333>
परोपकार-प्रशंसा।
(333)
सङ्गिः स्वोपार्जितधनैः परोपकारः कर्त्तव्य इति दृष्टान्तेन द्रढ़यति :–
रत्नाकरः किं कुरुते स्वरत्नै-
र्विन्ध्याचलः किं करिभिः करोति।
श्रीखण्डखण्डैर्मलयाचलः किं
परोपकाराय सतां विभूतिः॥
टि—
रत्राकरः–समुद्रः स्वरत्नैः किं कुरुते आत्नः किं हितं साधयति न किमपीत्यर्थः। एवं सर्वत्र। श्रीखण्डस्वण्डैः–चन्दनकाष्ठैः। विभूतिः–सम्पत्।
</3-333>
<3-334>
प्रेम-प्रशंसा।
(334)
दूरत्वं निकटत्वं वा प्रगाढ़प्रेमसम्बन्धं न विच्छनत्ति :–
इन्दुः क्व क्व च सागरः क्व च रविः पद्माकरः क्व स्थितः
क्वाऽभ्रं वा क्व मयूरपङ्क्तिरमला क्वाऽलिः क्व वा मालती।
मन्दाध्वक्रमराजहंसनिचयः क्वाऽसौ क्व वा मानसं
यो यस्याऽभिमतः स तस्य निकटे दूरेऽपि वा वल्लभः॥
टि—
मन्दाध्वक्रमराजहंसनिचयः–अध्वनि पथि क्रमः पादविक्षेपः अध्वक्रमः। मन्दः अध्यक्रमो स्य स चासौ राजहंसनिचयश्चेति।
</3-334>
<3-335>
(335)
दोषः कश्चिद् यदि निजजने सम्भवेद् दैवयोगाद्
नासौ ग्राह्यो भवति महतां रीतिरेषास्ति लोके।
भृङ्गो दैवाद् यदि कुमुदिनीं गच्छति भ्रान्तचेताः
पद्मन्या स प्रियमधुकरस्त्यज्यते किं कदाचित्॥
टि—
महान् जन आत्मीयजनस्य दोषानपि न गृह्णातीति भावः।
</3-335>
<3-336>
ब्रह्मतेजः-प्रशंसा।
(336)
ब्रह्मतेजोबलादेव क्षोदीयानपि गरीयः कार्यं करोति :–
अल्पीयसैव पयसा यः कुम्भः परिपूर्य्यते।
पपौ तदुद्भवः सिन्धुं गुरुत्वाद् ब्रह्मतेजसः॥
टि—
तदुङ्भवः–तस्मात् कुम्भाद् उद्भवो यस्य सः अगस्त्य इत्यर्थः।
</3-336>
<3-337>
भक्ति-प्रशंसा।
(337)
श्लोकेऽत्र कविर्हरिभक्तिं याचते :–
नो मुक्त्यै स्पृहयामि नाथ विभवैः कार्य्यं न सांसारिकैः
किन्त्वायोज्य करौ पुनः पुनरिदं त्वामीशमभ्यर्थये।
स्वप्ने जागरणे स्थितौ विचले दुःखे सुखे मन्दिरे
कान्तारे निशि वासरे च सततं भक्तिर्ममास्तु त्वयि॥
(वाग्भटस्य)
</3-337>
<3-338>
मनस्वि-प्रशंसा।
(338)
धनलोभेन परेषां सेवावृत्त्यपेक्षया व्याधिना तत्करणाक्षमत्वमपि वरमित्याहः :–
पङ्गो वन्द्यस्त्वमसि न गृहं यासि योऽर्थो परेषां
धन्योऽन्ध त्वं धनमदवतां नेक्षसे यम्मुखानि।
श्लाघ्यो मूक त्वमपि कृपणं स्तौषि नार्थाशया यः
स्तोतव्यस्त्वं बधिर न गिरं यः खलानां शृणोषि॥
</3-338>
<3-339>
महत्त्व-प्रशंसा।
(339)
खभावत उन्नतचेता जनो बहुविभवयुक्तोऽपि निजमौन्नत्यं न कदाचित् परिहरतीत्याह :–
महतां प्रकृतिः सैव वर्द्धितानां परैरपि।
न जहाति निजं भावं संख्यासु लाकृतिर्यथा॥
(शिवनारायण-शिरोमणेः)
टि—
परैः–अन्यैः स्तुतिपाठकैः; पक्षे द्वित्रिचतुरादिभिरङ्कैः। वर्द्धितानामपि–उप्कर्षं गमितानामपि; पक्षे गुणितानामपि। लाकृति–लृकारस्य आकृतिरिव आकृतिर्यस्याः सा, नवमसंख्येत्यर्थः। द्व्यदिसंख्यया नवमसंख्याया गुणे कृते यो राशिर्भवति तस्य सङ्गलनेनापि पुनर्नवमसंख्यैव जायते। यथा, 2x9=18; 1+8=9। एवं त्र्यादिभिर्गुणेऽपि।
</3-339>
<3-340>
मौन-प्रशंसा।
(340)
वाचालतां निन्दन् मौनं स्तौति :–
मौखर्य्यं लघुताहेतुमौनमुन्नतिकारणम्।
मुखरं नूपुरं पादे कण्ठे हारो विराजते॥
टि—
मौखर्य्यं–वाचालता। मौनं–तुष्णीम्भावः।
</3-340>
<3-341>
(341)
अमुष्मिन्नुद्याने विहगखल एव प्रतिपलं
विलोलः काकोलः क्वणति खलु यावत् कटुतरम्।
सखे तावत् कीर द्रढ़य हृदि वाचञ्च सकलां
न मौनेन न्युनो भवति गुणभाजां गुणगणः॥
टि—
विहगखलः–विहगेषु खलः. “पक्षिधूर्त्तश्च वायसः” इत्युक्तेः। प्रतिपलं–प्रतिक्षणम्। वलोलः–चञ्चलः। काकोलः–द्रोणकाकः (`दोड़काक’ इति प्रसिद्धः)। कीर–हे शुक।
</3-341>
<3-342>
विद्या-प्रशंसा।
(342)
विद्याधनस्य मूल्यवत्त्वं दर्शयति :–
विद्या नाम नरस्य कीर्त्तिरतुला भाग्यक्षये चाश्रयो
धेनुः कामदुघा रतिश्च विरहे नेत्रं तृतीयं च सा।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणं
तस्मादन्यमुपेक्ष्य सर्वसुखदं विद्याधिकारं कुरु॥
टि—
कामदुघा धेनुः–अभीष्टदायिनी गवी। तृतीयं नेत्रं–विद्यायाः सूक्ष्मदर्शनसाधनत्वात्. सत्कारातनं–समादरभूमिः।
</3-342>
<3-343>
स्वरूपनिरूपण-प्रशंसा।
(343)
एवं बहवो जना दृश्यन्ते ये तावत् स्यानविशेषवासित्वात् तदनुसारेण निन्द्यन्ते तन्न युक्तमित्याह :–
पुंसः स्वरूपपरिदर्शनमेव कार्य्यं
तज्जन्मभमिगुणदोषकथा वृथैव।
रत्नाकरोत्थमभिनन्दति को विषं वा
को वा न पद्ममभिनन्दति पङ्कजातम्॥
</3-343>
<3-344>
सहाय-प्रशंसा।
(344)
सद्वंशजातं गुणकोटिनम्रं
धनुः कथं क्षत्त्रियवामहस्ते।
शरः परप्राणहरोऽप्यसव्ये
सत्पक्षयोगादधमो गरीयान्॥
टि—
मद्वंशजातम्–उत्कृष्टवेणुरचितं; पक्षे सत्कुलसम्भूतञ्च। गुणकोटिनम्रं–गुणेन मौर्व्या कोट्योः कोटिद्वये नम्रं; पक्षे बहुगुणैरवनतस्वभावम्। असव्ये–दक्षिणे। सत्पक्षयोगात्–सद्भ्यां वर्त्तमानाभ्यां पक्षाभ्यां पार्श्वद्वयनिहिताभ्यां पक्षिपक्षाभ्यां सह योगात्; पक्षे सता साधुना पक्षेण सहायेन सह सम्बन्धात्। उक्तञ्च “कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः” इति।
</3-344>
<3-345>
(345)
दुर्बलोऽपि सहायवत्तया सकलदुःसाध्यं साधयतीत्याह :–
अत्युच्चभूधरवरोपरि तुङ्गवृक्षात्
काकोऽपि पक्वफलमालभते सपक्षः।
सिंहो बली द्विरदवर्य्यबलाधिकोऽपि
सीदत्यहो तरुतले स हि पक्षहीनः॥
टि—
सपक्षः–पक्षाभ्यां सह वर्त्तमानः; पक्षे सहययुक्तः। म हि पक्षहीनः–हि यतः स सिंहः पक्षहीनः पक्षशून्यः असहाय इत्यर्थः।
</3-345>
<3-346>
सुकवि-प्रशंसा।
(346)
सिद्धहस्तचौरेण सह सिद्धहस्तकवेः सादृश्यं दर्शयति :–
धीरं निक्षिपते पदं हि परितः शब्दं समुद्वीक्षते
नानार्थाहरणञ्च वाच्छति मुदाऽलङ्कारमाकर्षति।
आदत्ते विमलं मुवर्णनिचयं धत्ते रसान्तर्गतं
दोषान्वेषणतत्परो विजयते सच्चोरवत् सत्कविः॥
टि—
धीरं–सुविचारपुरःसरम्; पक्षे मन्दमन्दम्। पदम्–सुप्तिङन्तादि पदम्; पक्षे चरणम्; शब्दं समुद्वीक्षतं–शब्दोऽयं शुद्धः अश्रुद्धो वा इति विचारयति; पक्षे कुत्र कः शब्दो जायते इति शृणोति। नानार्थाहरणम्–श्लिष्टपदप्रयोगेण विविधार्थसंग्रहम्; पक्षे खर्णंरौप्याद्यपहरणम्। अलङ्कारम्–उपमादिविविधालङ्कारम्; पक्षे कङ्कणादिभूषणम्। सुवर्णनिचयम्। –सुश्राव्यवर्णसमूहम्; पक्षे स्वर्णसमूहम्। रसान्तर्गतम्–शृङ्गारादिरसमिश्रं वाक्यम्; पक्षे रसायाः पृथिव्याः अन्तर्गत्तम् अभ्यन्तरस्थं लुक्कायितं धनम्। दोषान्वेषणतत्परः–दोषाणां दुःश्रवत्वादीनां काव्यस्येति शेषः अन्वेषणे तत्परः मनोयोगी; पक्षे दोषा रात्रिः तस्या अन्वेषणे तत्परः।
</3-346>
<3-347>
(347)
अथरसालङ्कारा हि कवितायाः सारवस्तूनीत्याह :–
अर्थान् केचिदुपासते कृपणवत् केचित्त्वलङ्कुर्वते
नष्टावत् खलु धातुवादिन इवोद्बध्नन्ति केचिद् रसान्।
अर्थालङ्कृतिसदरसद्रवमुचां वाचां प्रशस्तिस्पृशां
कर्त्तारः कवयो भवन्ति कतिचित् पुण्यैरगण्यैरिह॥
(राघवचैतन्यस्य)
</3-347>
<3-348>
(348)
काव्यालङ्कारज्ञ एव सुकविर्भवेदित्याह :–
नैव व्याकरणज्ञमेति पितरं न भ्रातरं तार्किकं
दीरात् सङ्कुचितेव गच्छति पुनश्चण्डालवच्छान्दसात्।
मीमांसानिपुणं नपुंसकमिति ज्ञात्वा निरस्तादरा
काव्यालङ्करणज्ञमेत्य कविताकान्ता वृणीते स्वयम्॥
(क्षेमेन्द्रस्य)
टि—
कविताकान्ता स्वयंवरेति शेषः। व्याकरणज्ञं पितरं नैव एति कविताया व्याकरणज्ञान्यत्वात् तस्याः पितृत्वम्। छान्दसात्–वेदाध्यायिनो जनात्।
</3-348>
<3-349>
सुजनः-प्रशंसा।
(349)
जगत्यां सुजनसंख्या स्वल्पैव :–
दृश्यन्ते भुवि भूरिनिम्बतरवः कुत्रापि ते चन्दनाः
पाषाणैः परिपूरिता वसुमती वज्रो मणिर्दुर्लभः।
श्रूयन्ते करटारवाश्च नियतं चैत्रे कुहूकूजितं
तन्मन्ये खलसङ्कलं जगदिदं द्वित्राः क्षितौ सज्जनाः॥
टि—
वज्रो मणिः–हीरकम्। करटारवाः–करटानां काकानां आरवाः शब्दाः।
</3-349>
<3-350>
(350)
उत्तमानां जनानां कदापि प्रकृतिविकृतिर्न स्यात् :–
घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुदण्डम्।
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं
प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम्॥
टि—
चन्दनशब्दस्य क्लीवत्वे चन्दनकाष्ठार्थप्रतीतिः।
</3-350>
<3-351>
सुपुत्त्र-प्रशंसा।
(351)
सुपुत्त्रः स्वगुणेन पितरमपि अतिशेते :–
कुम्भः परिमितमम्भः
पिबत्यसौ कुम्भसम्भवोऽम्भोधिम्।
अतिशेते हि सुपुत्त्रः
कश्चिज्जनकं निजेन चरितेन॥
(भट्टभल्लटस्य)
टि—
कुम्भसम्भवः–कुम्भजातोऽगस्त्यमुनिः।
</3-351>
<3-352>
(352)
सत्पुत्त्र एव कुलप्रदीप इत्याह :–
पात्रं न तापयति नैव मलं प्रसूते
स्नेहं न संहरति नैव गुणान् क्षिणोति।
द्रव्यावसानसमये चलतां न धत्ते
सत्पुत्त्र एव कुलसद्मनि कोऽपि टीपः॥
टि—
पात्रम्–दीपाधारम्; पक्षे परिवारवर्गम्। मलं–पापं; पक्षे सुगमम्। म्नेहं–तैलं; पक्षे सुगमम्। गुणान्–दीपवर्त्तिकाः; पक्षे विनयादीन्। क्षिणोति–नाशयति। द्रव्यावसानसमये–तैलाद्यभावे; पक्षे खाद्यपरिधेयाद्यभावे। कुलसद्मनि–वंशरूपगृहे। कोऽपि–अनिर्व्वचनीयः, साधारणदीपादितर इत्यर्थः।
</3-352>
<3-353>
(353)
गुणवान् जनः स्वगुणेनैव नितरां विभाति :–
अस्तंगते भास्वति नान्धकारान्
शनैश्चरो हन्ति विधौ बुधश्च।
पितुर्गुणैर्न प्रतिभाति पुत्त्रो
गुणान्वितो हि स्वगुणेन भाति॥
टि—
भास्वति–सूर्य्ये। शनैश्चरः–सूर्यय्सुतः। विधौ–अस्तं गते इति शेषः। बुधः–सौम्यः।
</3-353>
<3-354>
सुवंश-प्रशंसा।
(354)
सहं शजा एव नम्रा भवन्ति :–
गणप्रयुक्ताः परमर्मभेदिनः
शरा इवावंशभवा भवन्ति हि।
तथाविधा ये च विशुद्धवंशजा
व्रजन्ति चापा इव तेऽतिनम्रताम्॥
टि—
अवंशभवाः–वेणुभिन्नवस्तुनिर्म्मिताः; पक्षे नीचकुलोत्पन्नाः। गुणेण मौर्व्या नेपुण्यादिगुणेन च प्रयुक्ताः प्रेरिताः सन्तः परमर्म्मभेदिनः परेर्षा मर्म्मस्थानविदारकाः भवन्ति। ये च विशुद्धवंशजा उत्कृष्टवेणुनिर्म्मिताः उत्कृष्टकुलोत्पन्नाश्च ते तथाविधाः गुणप्रयुक्ताः चापा इव नम्रतां व्रजनति। वंशस्य गुणदोषा हि पुंसां सदसत्प्रवृत्तिं जनयन्तीति भावः।
</3-354>
<3-355>
सुसंसर्ग-प्रशंसा।
(355)
सुजनसंसर्गेण दुर्ज्जनोऽपि सुजनायते इत्याह :–
मलयाद्रेः समीपस्थो विटपी चन्दनायते।
कृतवासः समं सद्भिर्दुर्जनः सुजनायते॥
(रत्नाकरस्य)
</3-355>
<3-356>
(356)
दूरीकरोति कुमतिं विमलोकरोति
चेतश्चिन्तनमघं चुलुकीकरोति।
भूतेषु किञ्च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति॥
(अर्गटस्य)
टि—
चुलुकीकरोति–गुण्डूषीकरोति नाशयतीत्यर्थः। किञ्च–अन्यच्च।
</3-356>
<3-357>
स्थानमहिम-प्रशंसा।
(357)
बकस्य चन्द्राद् गुणाधिक्ये सत्यपि स चन्द्रवत् किं नाद्रियते इति शङ्कां निरस्यन्नाह :–
उभौ पक्षौ शुक्लौ भुवि वियति चाव्याहतगतिः
सदा मीनं भुङ्क्ते वसति सकलस्थाणुशिरसि।
बके चान्द्रस्तुल्यो गुणसमुदयः कश्चिदधिको
गुणाः स्थाने मान्या न च पुनरमी स्थानरहिताः॥
(वररुचेः)
टि—
पूर्वार्द्धेन बकस्य गुणाधिक्यं दर्शयति। उभौ पक्षौ शुक्ली शुभ्रौबकम्येति यावत्; चनद्रस्य तु एकपक्ष एव शुक्लः। वियति–आकाशे। अव्याहतगतिः–बकः इति शेषः; चन्द्रस्तु केवलाकाशे। बकः सदा मीनं भुङ्क्ते खादि; चन्द्रस्तु मासमेकं मीनरासिं जजते। बकः सकलस्थाणुशिरसि समस्तशाखापत्रशून्यवृक्षोपरि वसति; चन्द्रस्तु एकस्य स्थाणोः शिवस्य शिरसि वसति। कश्चित् एभ्यः पृथक् कोऽपि अधिकः गुणः चनद्रेऽस्तीति शेषः। स क इत्याह; चन्द्रः सकलः कलया सह वर्त्तमानः न तु बकः। गुणाः स्थाने योग्याधिकरणे मान्याः पूज्या- ; स्थानरहिता अयोग्यस्थाने निहिताश्चेत् नहि, न तादृक् मान्या भवन्तीति फलिताथः। स्थानोत्कर्षेणैव गुणानामुत्कष इति भावः।
</3-357>
रस-तरङ्गः।
(1) शृङ्गार-रसः।
<3-358>
(358)
वक्षःस्थलीवदनवामशरीरभागैः
पुष्यन्ति यस्य विभुतां पुरुषास्त्रयोऽपि।
सोऽयं जगत्त्रितयजित्वरचापधारी
मारः परान् प्रहरतीति न विस्मयाय॥
टि—
वक्षःस्थलीति–हरेर्वक्षःस्थली, विधेर्वदनं, हरस्य वामशरीरभागः तैः। पुरुषास्व्रयः–हरिविधिहराः।
</3-358>
<3-359>
(2) वीर-रसः।
(359)
वक्ष उपरि मेतबन्धत्वाद् रावणो दशमुखैः समुद्रं तिरस्करोति :–
पीतोऽब्धे कलसोद्भवेन मुनिना ध्वस्तोऽसि देवासुरै-
राबद्धोऽमि च राघवेण मृदुना शाखामृगैर्लङ्घितः।
धिक् त्वां नाम च तेऽम्बुधिः पानीयधिस्तोयधिः
पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः॥
</3-359>
<3-360>
(360)
अर्ज्जुन एव श्चेष्ठधनुर्धर इत्याह :–
लक्ष्मणो लघुमन्धानो दूरपाती च राघवः।
कर्णो दृढ़प्रहारी च पार्तश्यैते त्रयो गुणाः॥
(क्षेमेन्द्रस्य)
टि—
समुद्रं प्रति रावणस्य तिरस्कारोक्तिरियम्। रावणेन दशभिर्मुखैः अम्बुधिशब्दाद उच्चारिताः।
</3-360>
<3-361>
(3) करुण-रसः।
(361)
व्याधेन जालनिबद्धा काचिन्मृगी सकरुणं ब्रवीत् :–
आदाय मांसमखिलं स्तनवर्जमङ्गाद्-
मां मुञ्च वागुरिक यामि कुरु प्रसादम्।
मीदन्ति शष्पकवलग्रहणानमिज्ञा
मन्मार्गवीक्षणपराः शिशवो मदीयाः॥
(मुक्तापीड़स्य)
टि—
वागुरिक–व्याध। सीदन्ति–दुःखमनुभवन्ति। शष्पकबलग्रहणानभिज्ञाः नवकोमलतृणान्यपि भक्षयितुमक्षमाः।
</3-361>
<3-362>
(362)
महापण्डितस्य बाणभट्टस्य मृत्युसमये खेदोक्तिरियम् :–
ध्वस्तः काव्योरुमेरुः कविविपणिमहारत्नराशिर्विशीर्णः
शुष्कः शब्दौघसिन्धुः प्रलयमुपगतो वाक्यमाणिक्यकोषः।
दिव्योक्तीनां निधानं निधनमुपगतं हा हता दिव्यवाणी
बाणे गीर्वाणवाणीप्रणयिनि विधिना प्रापिते दीर्घनिद्राम्॥
(बाणभट्टस्य)
</3-362>
<3-363>
(4) अद्भुत-रसः।
(363)
मूकारब्धं कमपि बधिराः श्लोकमाकर्णयन्ति
श्रद्धालुस्तं विलिखति कुणिः श्लाघया वीक्षतेऽन्धः।
अभ्यारोहत्यहह सहसा पङ्गुरप्य द्रिशृङ्गं
सान्द्रालस्याः शिशुभरणतो मन्दमायान्ति बन्ध्याः॥
</3-363>
<3-364>
(5) हास्त-रसः।
(364)
चूर्णखदिरयुतवीटी-
जनिताधररागभङ्गभयात्।
पितरि प्रेते गणिका
रोदिति हा ताततातेति॥
(क्षेमेन्द्रस्य)
</3-364>
<3-365>
(6) भयानक-रसः।
(365)
दीप्तक्षुद्वेगयोगाद् वदनलहलहल्लम्बजिह्वाग्रलीढ़-
ब्रह्माण्डक्षौद्रबिन्दुप्रबलतरभवज्जाठराग्निस्फुलिङ्गाम्।
कालीं कङ्कालशेषामतुलगलचलन्मुण्डमालाकरालां
गुञ्जासंवादिनेत्रामजिननिवसनां नौमि पाशासिहस्ताम्॥
(शार्ङ्गधरस्य)
</3-365>
<3-366>
(7) बीभत्स-रसः।
(366)
उत्कृत्य ज्वलितां शवात् कथमपि प्रेताशनः पैशितीं
पेशीमग्निमयीं निगीर्य्य सहसा दन्दह्यमानोदरः।
धावत्युत्प्लवते मुहुर्निपतति प्रोतिष्ठति प्रेक्षते
विष्वक् क्रोशति संपिनष्टि जठरं मुष्ट्या चलन्मस्तकः॥
</3-366>
<3-367>
(8) रौद्र-रसः।
(367)
रे धृष्टा धार्त्तराष्ट्राः प्रबलभुजबृहत्ताण्डवाः पाण्डवा रे
रे वार्ण्येयाः सकृष्णाः शृणुत मम वचो यत् ब्रवीम्यूर्ध्वबाहुः।
एतस्योत्खातबाहोर्द्रुपदनृपसुतातापिनः पापिनोऽहं
पाता हृच्छोणितानां प्रभवति यदि वः कोऽपि वा तं स पातु॥
टि—
कौरवपाण्डववार्ष्णेयान् सम्बोध्य दुःशासनं प्रति भीमस्य क्रोधोक्तिरियम्। वः–युष्माकम्। तम्–दुःशासनम्।
</3-367>
<3-368>
(9) शान्त-रसः।
अनित्यता।
(368)
अनित्ये जीवने शिव एव सेव्य इति कवेरुक्ति :–
सेवध्वं विबुधास्तमन्धकरिपुं मा क्लिश्यतान्यश्रुते
यस्मादत्र परत्र च त्रिजगति त्राता स एकः शिवः।
आयाते नियतेर्वशात् सुविषमे कालात् करालाद् भये
कुत्र व्याकरणं क्व तर्ककलहः काव्यश्रमः क्वापि वा॥
(राजानकलौकस्य)
टि—
अन्यस्रुते–श्रुतं विद्या।
</3-368>
<3-369>
अनुतापः।
(369)
कविर्वार्द्धकं निन्दति :–
गात्रं संकुचितं गतिर्विगलिता दनताः समुन्मूलिता
दृष्टिर्नश्यति रूपमेव चलितं वक्तञ्च लालाकुलम्।
आलापं न करोति बान्धवजनः पत्नी न शुश्रूषते
हा कष्टं स्थविरः पिताऽपि बहुभिः पुत्त्रैरवज्ञायते॥
</3-369>
<3-370>
कर्मफलम्।
(370)
लक्ष्मीनाथं वहति गरुड़स्तस्य भक्ष्यो भुजङ्ग
उक्षा वोढ़ा धनपतिसखं सोऽपि घासं जघास।
हंसो भुङ्क्ते विसकिशलथं ब्रह्मणो वाहकोऽपि
सेवाभिर्न क्षयति महतां कर्म्मणो दुर्विपाकः॥
टि—
वोढ़ा–वहनशीलः। धनपतिसखम्–कुवेरमित्रं शिवमित्यर्थः।
</3-370>
<3-371>
(371)
लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यशोभाकरः
स्थित्यर्थं शितिकण्ठमप्युपगतस्तेनापि शीर्षे धृतः।
वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत
प्रायः प्राक्तनमेव कर्म बलवत् कस्योपकुर्वीत कः॥
(पण्डित-श्रीबकस्य)
</3-371>
<3-372>
काल-चरित्रम्।
(372)
पृथ्वीतलेऽस्मिन् यावतीया जीवाः सर्वथा सवदैव आहारान्वेषणतत्परा न सृत्युचिन्तां कुवन्तीत्याह :–
भेको धावति तञ्च धावति फणी सर्पं शिखी धावति
व्याधो धावति केकिनं विधिवशाद् व्याघ्रोऽपि तं धावति।
स्वस्वाहारविहारसाधनविधौ सर्वे जना व्याकुलाः
कालस्तिष्ठति पृष्ठतः कचधरः केनापि नो दृश्यते॥
</3-372>
<3-373>
दैव-बलम्।
(373)
(क)
दाता बलिः प्रार्तयिता रमेशो
दानं मही वाजिमखस्य कालः।
दातुः फलं बन्धनमेव जातं
नमोऽस्तु दैवाय यथेष्टकर्त्त्रे॥
(क्षेमेन्द्रस्य)
टि—
(क) वाजिमखस्य–अश्वमेधस्य।
(ख)
यो यं जनापकरणाय सृजत्युपायं
तेनैव तस्य नियमेन भवेद् विनाशः।
धूमं प्रसौति नयनान्ध्यकरं यमग्नि-
र्भूत्वाऽम्बुदः स शमयेत् सलिलैस्तमेव॥
(कह्नणस्य)
टि—
(ख) प्रसौति– ऐश्वर्य्यप्रसवयोरित्यदादिगणीयस्य सु-धातो रूपम्। “प्रसौति विजयं धर्म्मः” इति हलायुधः।
</3-373>
<3-374>
प्रार्थना।
(374)
मुक्तिकामिनः कस्यचिदुक्तिरियम् :–
सुव्यक्ता वेदभागैश्चरमदुरितजध्वंसरूपा हि मुक्ति-
स्तत्तातस्तत्त्वबोधो ननु जनकतया तस्य दौत्यं न युक्तम्।
भक्ते त्वं तत्त्वबोधस्य हि निजजननी धर्मतः सापि नप्त्री
गद्यैः पद्यैर्वचोभिः परिहसनविधौ त्वं हि वक्तुं समर्था॥
(अर्गटस्य)
टि—
तत्तातः–तस्या मुक्तेः तातः पिता। दौत्यं–दूतकर्म्म, विवाहकार्य्ये घटकत्वमिति यावत्। भक्ते–हे भक्ते। परिहसनविधौ–कौतुकच्छलेन।
</3-374>
<3-375>
(375)
गङ्गातीरवासी स्थविरः कोऽपि धनवान् कदाचित् केनचिदात्मीयेन “कथं भवान् शरीररक्षार्थं ग्रासाच्छादनादिषु न यतते” इत्येवं पृष्टस्तं प्रत्युवाच :–
स्वःसिन्धुतीरेऽघविघातवीरे
वहत्समीरे करलभ्यनीरे।
वसन् कुटीरे परिधाय चीरे
करोम्यधीरे न रुचिं शरीरे॥
टि—
स्वःसिन्धुतीरे–स्वर्गगङ्गातटे, मन्दाकिनीतीरे इत्यर्थः। अघविघातवीरे–अघानां पापानां विघाते विनाशविषये वीरे वीरसदृशे। चीरे–अजने। अधीरे–नश्वरे।
</3-375>
<3-376>
(376)
वाराणस्यां विश्वेश्वरसमीपे प्रार्थना :–
हर हर ह रतिं मे देहगेहेषु गङ्गा-
धर धर धरभावं चेतसः स्वे पदाव्जे।
भव भव भवसिन्धौ कर्णधारोऽत्र मृत्युं-
जय जय `जय-शम्भो’-वाक् सदा स्यानमदास्ये॥
(श्यामाचरण-कविरत्नस्य)
टि—
हर–शिव। हर–नाशय। ह–सम्बोधने। “ह स्यत् सम्बोधने बादपूरणे च विनिग्रहे” इति मेदिनी। गङ्गेत्यादि–हे गङ्गाधर स्वे पदाब्जे मे चेतसः धरभावं धारकत्वं धर अवलम्बस्व, स्वकीये पादपद्मे मदीयं चित्तं स्थापयइत्यर्थः। भवेत्यादि–हे भव, भव एव सिन्धुः तस्मिन् भवसिन्धी संसारगागरे मे कर्णधारः नाविकः भव, मां संसारसागरस्य पारं नय इत्यर्थः। अपिच भवः सिन्धुरिव तस्मिन् भवसिन्धौ सिन्धुवत् महाविपत्सङ्कले संसारे मे कर्णधारः भव अतिमूढ़त्वात् असत्यथप्रवृत्तस्य मम कर्णं धृत्वां सत्पथप्रवर्त्तको भव इत्यर्थः। किञ्च भवसिन्धौ सर्वमङ्गलास्पदे अत्र काशीक्षेत्रे मे कर्णधारो भव, मरणसमये तारकमन्त्रं दातुं मम कर्णौ धारय; “यत्र काश्यां शवत्वेऽपि जन्तुर्नाश्वचितां व्रजेत्। अतस्तत्कर्णसंस्पर्शं करोम्यहमपि स्वयम्” इति प्रतिज्ञातवान् त्वं यथा मे काशीमृत्युर्भवेत् तथा करुणां कुरु इति भावः। “भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः” इति मेदिनी। सत्यमित्यादि–हे मृत्युञ्जयत्वं जय सर्व्वोत्कर्षेण वर्त्तस्व, देवतान्तराणि परित्यज्य केवलं त्वामेवाहं प्रणमामीत्यर्थः। `जयशक्ष्मे’ इति वाक् तदा मदास्ये मदीयवदने स्यात् अस्तु।
</3-376>
<3-377>
विषय-तृष्णा।
(377)
(क)
समाप्य विषयान् सर्वान् यः कृष्णे भक्तिमिच्छति।
सागरे शान्तकल्लोले स्नातुमिच्छुः स दुर्मतिः॥
टि—
(क) समाप्य–उपभुज्य। विषयान्–भोग्यवस्तूनि। कल्लोलः–तरङ्गः।
(ख)
यस्या बीजमहङ्कृतिर्गुरुतरं मूलं ममेति ग्रहा
भोगस्य स्मृतिरङ्कुरः सुतसुताज्ञात्यादयः पल्लवाः।
स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः
सा मे ब्रह्मविभावनापरशुना तृष्णालता लूयताम्॥
</3-377>
<3-378>
वराग्यम्।
(378)
भयमये भवेऽत्र वैराग्यमेकमेव अभयमिति कवेरुक्ति :–
भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं
दास्ये स्वामिभंय गुणे खलभयं वंशे कुयोषिद्भयम्।
माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्भयं
सर्वं नाम भवे भवेद् भयमयं वैराग्यमेवाभयम्॥
(क्षेमेन्द्रस्य)
</3-378>
** विविध-तरङ्गः।**
प्रथम-बिन्दुः।
प्राचीन-शिलालिपिः।
(1) पुरीधामस्थ-जगन्नाथमन्दिरम्।
<3-379>
(379)
(क)
पुरीधामस्थजगन्नथदेवस्य वत्तमानमन्दिरस्य निर्म्माणकालमाह :–
शकाब्दे रन्ध्रशुभ्रांशुरूपनक्षत्रनायके।
प्रासादः कारितोऽनङ्गभीमदेवेन धीमता॥
टि—
(क) (रन्ध्रम्=9; शुभ्रांशुः=1; रूपम्=1; नक्षत्रनावकः=1) अतएव 9111 अङ्कस्य वामगत्वा 1119 शकाब्दाः (604 वङ्गाव्दाः, 1197 खृष्टाब्दाः वा) अद्भवन्ति।
(ख)
वासुदेवरथकृते `गङ्गावंशानुचरिते’ ग्रेन्थे नायिकां प्रति अनङ्गसुन्दरनायकेन कथिताऽयं श्लोकः पूर्व्वोक्तस्य श्लोकस्यैव समर्थक :–
अङ्कक्षौणिशशाङ्केन्दुसम्मिते शकवत्सरे।
अनङ्गभीमदेवेन प्रासादः श्रीपतेः कृतः॥
टि—
(ख) 9111 अङ्कस्य वामगत्या 1129 शकाब्दा उद्भवन्ति।
</3-379>
<3-380>
(2) काशीधामस्थ-भवानीश्वरमन्दिरम्।
(380)
वाराणसीस्थितस्य भवानीश्वरमन्दिरस्य निर्म्माणं प्रातःस्मरणीयया नाटोरराज्ञ्या भवान्या कारितमित्याह :–
(क-ख)
बाणव्याहृतिरागेन्दुसम्मिते शकवत्सरे।
निवासनगरे श्रीमद्विश्वनाथस्य सन्निधौ॥
धरामरेन्द्रवारेन्द्रगौड़भूमीन्द्रभाविनी।
निर्ममे श्रीभवानी श्रीभवानीश्वरमन्दिरम्॥
टि—
(क) बाणः=5; व्याहृतिः=7; रागः=6; इन्दुः=1। अतएव अङ्कस्य वामगत्या 1675 शकाब्दाः (1160 वङ्गाब्दाः, 1753 स्वृष्टाब्दाः वा) उद्भवनति।
(ख)धरेति–भूदेवराजजस्य वारेन्द्रवंशीयस्य गौड़प्रदेशाधिपस्य रामकान्तनृपस्य। भाविनी–सहधर्म्मिणी। धीभवानी–श्रीमती राज्ञी भवानी।
</3-380>
<3-381>
(3) वड़नगरस्थ-गोपालमन्दिरम्।
(381)
मुर्शिदावाद-जेलान्तर्गत- `वड़नगर’-स्थितस्य गोपालमन्दिरस्य निर्म्माणं प्रातःस्मरणीयाया `नाटोर’ -राज्ञ्याः कन्यया तारया कारितमित्याह :–
खशून्यमित्रशाके श्रीभवानीतनुसम्भवा।
निर्ममे श्रीमती तारा श्रीमद्गोपालमन्दिरम्॥
टि—
खम्=o; शून्यम्=o; मित्रम्=17। अतएव अङ्कस्य वामनत्या 1700 शकाब्दाः (1185 वङ्गाब्दाः, 1778 खृष्टाब्दाः वा) उद्भवन्ति।
</3-381>
<3-382>
(4) गङ्गावासग्रामस्थ-हरिहरमन्दिरम्।
(382)
हरिहरभेदज्ञानोपहतचेतसां नराणां भ्रान्तिं निराकर्त्तुं नवद्वीपाधिपतिना महाराजेन्द्रवाहादुर-कृष्णचन्द्रेण गङ्गावसे हरिहरमूर्त्तिस्थापनं कृतमित्याह :–
गङ्गवासे विधिश्रुत्यनुगतमुकृतक्षौणिपाले शकेऽस्मिन्
श्रीयुक्तो वाजपेयी भुवि विदितमहाराजराजेन्द्रदेवः।
भेत्तुं भ्रान्तिं मुरारित्रिपुरहरभिदामज्जतां पामराणा-
मद्वैतब्रह्मरूपं हरिहरमुमयाऽस्थापयल्लोलया च॥
टि—
गङ्गावासे–नवद्वीपादूरपूर्व्वदेशवर्त्तिनि प्राक्तनगङ्गातीरस्थायिनि ग्रामविशेषे। विदिश्रुतिः=चतुर्मुखकर्णः=8; सुकृतं=पुष्यं=9; क्षौणिपालः=राजा=16। अतएव अङ्खस्य वामगत्या 1698 शकाब्दाः (1183 वङ्गाब्दा-, 1776 खृष्टाब्दाः वा) उद्भवन्ति।
</3-382>
<3-383>
द्वितीय-बिन्दुः।
(1) अपह्नुति-कविता।
(383)
कामिन्या सह यष्टिकायाः साम्यं दर्शयति :–
या पाणिग्रहलालिता सुसरला तन्वी सुवंशोद्भवा
गौरी स्पर्शसुखावहा गुणवती नित्यं नोहारिणी।
सा केनापि हृता तया विरहितो गन्तुं न शक्तोऽस्म्यहं
हे भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका॥
(निशानारायणस्य)
टि—
पाणिग्रहः–विवाहः; पक्षे पाणौ इस्ते धारणम्। सुवंशोद्भवा–उच्चकुलजाता; पक्षे उत्तमवेणूत्पन्ना।
</3-383>
<3-384>
(2) कूट-कविता।
(384)
(क)
अव्याद् वः करणोरणो रणरणो राणोरणो रावणो
धृत्वा येन रमा रमा रम रमा रमा रमा सा समा।
स श्रीमानदयोदयो दयदयो दायो दयोवेदयो
विष्णुर्जिष्णुरभीरभी रभरभी राभी रभीसौरभीः॥
(पदच्छेदे श्लोकस्यास्य आकृतिरियम्)
(ख)
अव्याद् वः करणोरणः रणरणः राणः अरणः रावणः
धृत्वा येन रं आर मारं आरमा रामा रमासारमा।
स श्रोमानदयोदयः दयदयः दायः अत् अयः वेदयः
विष्णुः जिष्णुः अभीरभीरभरभीराभीः अभीसौः अभीः॥
टि—
येन विष्णुना रामेणेत्यर्थः; अयो लौहं लक्षणया तन्निर्म्मितमस्त्रमित्यर्थः; धृत्वा रावणः दायः खण्डितः हत इत्यर्थः। दो-धातोः कर्म्मणि घञ्।
स रामरूपो विष्णुर्वो युस्मान् अव्यात् पायात्। रावणं विशिनष्टि–करणोरणः, करणे कार्य्ये युद्धकर्म्मणीति यावत् उरणः मेष इव तद्दत् विपक्षमपराभूय कथमपि रणान्न निवर्त्तते इति भावः। यद्वा करणे इन्द्रिये तदुपभोगे उरण इव पशुस्वभाव इति यावत् परदारहारकत्वादिति भावः। रणरणः–रणे युद्धे रणति स्पर्द्धया सिंहनादं करोति यस्तादृशः। राणः–राति ददातीति कर्त्तरि अनः, दातेत्यर्थः। अरणः–न विद्यते रणो युद्धं यस्य तादृशः, रामेण सह युद्धात् प्राक् दिग्विजयित्वान्निवृत्तयुद्ध इत्यर्थः। अत् अत्ति भक्षयति मानुषानिति शेषः, नरमांसभक्षकः। अभीः–आद्विष्णोर्भीर्भयं यस्य सः। अधुना रामं विशिनष्टि। अत्र यस्येति पदमध्याहार्य्यम्। यस्य रामस्य रामा पत्री सीतेति यावत् रम् अग्निं आर आत्मशुद्धये वह्निं प्रविवेश। सीता कीजृशीत्याह या सीता मारं कन्दर्पं प्रत्यति अरमा अनभिलाषा पतिव्रतेत्यर्थः। या च रमासारमा–रमाया लक्ष्म्याः सारं तेजः माति परिमतं करोति, स्वरुपतो लक्ष्मीरित्यर्थः। रामः स्वयं कीदृशः? श्रीमानदयोदयः–श्रीः सम्पत् मानश्चित्तसमुन्नतिः दया परदुःखापहरणेच्छा आसाम् उदयो यस्मात् सः, यमाराध्य सर्व्वें ऐश्वर्य्यं सम्मानं तदनुग्रहञ्च लभन्ते इत्यर्थः। पनः कीदृशः? दयदयः–दये दाने दया यस्य सः, यो हि पात्रेभ्यः सदयं ददाति न त्वसन्तोषमित्यर्थः। अपिच वेदयः–वेदयतीति णिजन्त-विद-धातोः कृदन्तरूपं, मानवदेहमाश्रित्य स्वकर्म्मभिः परेभ्यो ज्ञानप्रद इत्यर्थः। किञ्च जिष्णुः–जयशीलः। पुनः कीदृशः अभीरभीराभीः–न भीरभी अभयमित्यर्थः अभियं राति ददातीति अभीरो वायुर्जगत्प्राणत्वात्, अभीराय वायवे भियं राति ददातीति अभीरभीरः सर्पः पवनाशनत्वात्, तस्य भरो धारणं तेन भियं राति यः भयप्रदः, अभीरभीरभरभीरो गरुड़ः तस्मात् अभीः अभयं यस्य तादृशः विष्णुरिति फलितार्थः गरुड़वाहनत्वादस्येति। पुनः कथम्भूत्तः? अभीसौः–न विद्यते भीर्भयं देवेभ्य इति शेषः यस्य स इनद्रजित् तं स्यति हिनस्तीति अभीसो लक्ष्मणः तम् अवति रक्षति अभीसोः।
</3-384>
<3-385>
(3) गणित-कविता।
(385)
कश्चिद् गणितशास्त्रसागरपारदर्शी महापुरुषः श्लोकेनानेन पाठका यथेच्छं गणयित्वापि यथा विंशत्यधिकशतवर्षं (120 वत्सरव्यापि) परमायुर्लभन्ते तथा सुकौशलमिदं दर्शयति :–
इष्टं कार्त्तिकदर्शनैश्च गुणितं रुद्रेण युक्तं तथा
ब्रह्मास्यप्रहतं जलाधिपतिना यच्छेषितं तत् पुनः।
वेदाङ्गैश्च हतं तदब्दनिचयं विश्वेशभक्तिव्रता-
स्तिष्ठेयुर्मुवि पाठका इति सदा विप्राशुतोषार्थना॥
(स्यार् श्रीयुताशुतोषमुखोपाध्यायसरस्वत्याः)
टि—
इष्टम्–अभिलषितम् अङ्कम्। कार्त्तिकदर्शनैश्च–12 अङ्गेन। रुद्रेण—11 अङ्गेन। ब्रह्मास्यप्रसहतं–4 अङ्खेन गुणितम्। जलाधिपतिना यच्छेषितं–वरुणेन 24 अङ्केन इत्यर्थ भक्तं सत् यत् अवशिष्टम्। वेदाङ्गैश्च हतं–6 अङकेन गुणितम्। एवंप्रकारेण 120 संख्या उद्भवति।
</3-385>
<3-386>
(386)
कश्चिदनेन श्लोकेन भिक्टीरिया-महाराज्ञ्या मृत्युखृष्टीयाब्दं कौशलेनाविष्करोति :–
इष्टं खाभ्रखसंयुतं खखयमव्यस्तं खखेशान्वितं
खाकाशाशुगभाजितं द्विगुणितं यच्छेषितं दृग्हतम्।
खाकाशाग्निसमन्वितं शशियुतं यत् तत्र खृष्टीयके
वर्षेऽस्मान् समपास्य नाकमगमद् भिक्टोरिया भूतलात्॥
(हरकुमारशास्त्रिणः)
टि—
इष्टम्–अभिलषितम् अङ्कम्। खाभ्रेति–oooयुक्तम्। खखयमेति–200 राशिना व्यवकलितम्। खखेशेति–1100 अङ्केन युक्तम्। खाकाशेति–500 राशिना भक्तम्। यच्छेषितम्–यत् शेषितं भागावशिष्टं, तत् द्विगणितं; पुनश्च दृग्हतं 2 अङ्केन गुणितं; 4 अङ्केन गुणितमित्यर्थः। खाकाशाग्नीति–300 अङ्केन युक्तम्। शशियुतम्–(पुनश्च) 1अङ्केन संयुक्तम्। एवंप्रकारेण 1901 खृष्टीयाब्दा उद्भवनति।
</3-386>
<3-387>
(387)
श्लोकेऽत्र पूर्वार्द्धे परार्द्धे च पृथग्रीत्या 120 संख्याया आविष्करणार्थं कौशलद्वयं वर्त्तते :–
इष्टं बाणगुणं सुखेन सहितं खाङ्काहतं यत् फलं
तत् तष्टं शरभूधरैश्च गुणितं पक्षेण संवत्सरम्।
वेष्टं नागहतं युतं शशभृता निघ्नं शरघ्नैः शिवै-
स्तष्टं व्योमयुगैर्गजेन गुणितं जीवन्तु शिष्टा जनाः॥
(उद्भटसागरस्य)
टि—
इष्टम्–अबिलषितम् अङ्कमअ। बाणगुणम्–5 द्वारा गुणितम्। सुखेन सहितम्–4 युक्तम्। खाङ्काहतम्–90 गुणितम्। तत् तष्टम्–तत् णरबूधरैः 75 द्वारा तष्टं भक्तं; तत्र यद् अवशिष्टं तत् पक्षेण 2 द्वारा गुणितञ्च। संवत्सरम्–व्याप्य इत्यर्थः। अर्थात् 120 वत्सरं व्याप्य शिष्टा जना जीवन्तु।
अथवा इष्टम्–अभिलषितम् अङ्कम्। नागहतं–8 द्वारा गुणितम्। युतं शशभृता–एकेन सह युक्तम्। निघ्नं शरघ्नैः शिवैः–55 द्वारा गुणितम्। व्योमयुगैः तष्टं–40 द्वारा भक्तस्य यत् अवशिष्टं तत्। गजेन–8 द्वारा। अर्थात् 120 वत्सरं व्याप्य शिष्टा जना जीवन्तु।
</3-387>
<3-388>
(4) चित्र-कविता।
(388)
श्लोकोऽयं अनलोमविलोमपाठे यथा एकविध एव भवति तथा कौशलं दर्शयति :–
वेदापन्ने स शक्लेरचितनिजरुगुच्छेदयत्नेऽरमेरे
देवासक्तेऽमुदक्षो बलदमनयदस्तोददुर्गासवासे।
सेवासर्गादुदस्तो दयनमदलवक्षोदमुक्ते सवादे
रेमे रत्नेऽयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे॥
(रुद्रटस्य)
टि—
स कश्चिद् गुणग्राही जनो रत्रे कस्मिंश्चिद् गुणवति जने रेमे ननन्द “जातौ जातौ यदुत्कृष्टं तद् रत्रमिति कथ्यते”। स कीदृशः? न मोदन्ते प्रमोदं न यान्तीत्यमुन्दि अक्षाणीनद्रियाणि यस्य सोऽमुदक्षो जितेन्द्रियः। तथा बलदमनयदः शक्त्युपशमनीतिदाता। तथा सेवायां परप्रणतौ सर्गः उत्साहस्तस्मात् उदस्तो निवृत्तः स्वाधीन इत्यर्थः। रत्ने कीदृशे? वेदानापन्नो वेदापन्नस्तत्र अधीतवेदे इत्यर्थः। तथा शक्ते प्रियंवदे। तथा रचितः कृतो निजाया रुजो रागद्वेषात्मिकाया वाधाया उच्छेदे उम्मूलने यत्नो येन तस्मिन् रचितनिजरुगुच्छेदयत्ने। तथा न रमन्ते सुजनेषु धर्म्मे वा ये ते अरमा दुर्ज्जनास्तानीरयति दूरीकरोति यस्तस्मिन् अरमेरे दुर्ज्जनदूरीकारके इत्यर्थः। तथा देवेषु आसक्तो देवासक्तस्तस्मिन् देवासक्ते देवपूजानिरते इत्यर्थः। तथा तोदस्य व्ययाया दुर्गा दुर्गमाः परानभिभूतास्तानप्यस्यन्ति क्षिपन्तीति तोददुर्गासास्तेषां वासे निकेतने; शूराणामपि शूरा यमाश्रिताः तस्मिन् इत्यर्थः। तथा दयनं दानं रक्षा वा, तेन यो मदलवो गर्व्वकणिका तेन यः क्षोदः परिवेदना तेन मुक्ते रहिते, प्रियं कृत्वापि अगर्व्वित इत्यर्थः। तथा वादेन सह वर्त्तते सवादस्तस्मिन् प्रमाणशास्त्रज्ञे इत्यर्थः। तथा अयन् अगच्छन् अच्छो निर्म्मलता यस्मात् तस्मिन् अयदच्छे शृद्धिमति इत्यर्थः। तथा गुरुभिः गुरुसेवाभिर्जनितो यश्चिरं क्लेशः श्रमस्तेनैव सन्ने श्रान्ते अथवा सन्ने आसक्ते। तथा अपदान् पदभ्रष्टान् अवतीति अपदावः, यद्वा अपगतो दावः उपतापो यस्मात् तस्मिन्निति।
</3-388>
<3-389>
(5) प्रहेलिका-कविता।
(389)
(क)
श्लोकेऽत्र कविः “सरस्वति नमस्तुभ्यम्” इति महामन्त्रमुच्चरायितुम् उपदिशति :–
कः कर्णारिपिता किमिच्छति जनः किं स्वीकृतं विष्णुना
को जानाति परेङ्गितं विषमगुः कुत्रास्ति वा कामिनाम्।
सीता कस्य वधः प्रियः किमु हरेर्वर्ज्यः कफे को नृणां
तत्प्रत्युत्तरमध्यमाक्षरमहामन्त्रो मुखे राजताम्॥
(अर्भकस्य)
(उत्तरं–“सरस्वति नमस्तुभ्यम्”)
टि—
(क) कः कर्णारिपिता?–कर्णशत्रोरर्ज्जुनस्य पिता “वासवः”। किमिच्छति जनः?–“हरत्वम्”। किं स्वीकृतं विष्णुना?–“ह्रस्वत्वम्” (वामनत्वम्)। को जानाति परेङ्गितम्?–“मतिमान्”। विषमगुः (पञ्चबाणः कन्दर्पः) कुत्रास्ति वा कामिनाम्?–“मतिमान्”। विषमगुः (पञ्चबाणः कनद्र्पः) कुत्रास्ति वा कामिनाम्?–“मनसि”। सीता कस्य वधूः?–“रामस्य”। प्रियः किमु हरेः?–“कौस्तुभः”। वर्ज्यः कफे को नृणाम्?–“अभ्यङ्गः”। इति अष्टप्रत्युत्तरपदानां मध्यमाक्षरसंयोगेन “सरस्वति नमस्तुभ्यम्” इति महामन्त्रः प्राप्तः।
(ख)
सर्वस्वापहरो न तस्करवरो रक्षो न रक्ताशनः
सर्पो नैव विलेशयोऽखिलनिशाचारी न भूतोऽपि च।
अन्तर्द्धानपटुर्न सिद्धपुरुषो नाप्याशुगो मारुत-
स्तीक्ष्णास्यो न तु सायकस्तमिह ये जानन्ति ते पण्डिताः॥
(अर्भकस्य)
(उत्तरं-“मत्कुणः” `छारपोका’ इति भाषा
</3-389>
<3-390>
(6) समस्यापूरण-कविता।
(360)
(क)
समस्या– “अष्टम्याः परतस्तिथिर्न नवमी सा पौर्णमासी किला”
सायं सन्धिमहोत्सवे बलिघटारक्तोत्कटास्वादनात्
सौहित्येन धराधराङगभुवि सोद्गारं क्षिपन्त्यां शिरः।
चूड़ाचनद्रनभःस्थलेन्दुमिलने नीरन्ध्रतासंघटाद्
“अष्टम्याः परतस्तिथिर्न नवमी सा पौर्णमासी किल”।
(कालिदासस्य)
टि—
(क) सन्धिमहोत्सवे–सन्धिपूजाकाले। सौहित्येन–पर्य्याप्तभोजनेन।
(ख)
समस्या–“कुर्वाते कुरुते करोति कुरुतः कुर्वनत्यलं कुर्वते।”
द्वारे यस्य सदा समीरवरुणौ संमार्ज्जनं पावकः
पाकं शीतगुरातपत्ररचनां दस्रौ प्रतीहारताम्।
देवा दास्यविधिञ्च हास्यमपरे धन्यः स लङ्केश्वरः
“कुर्वाते कुरुते करोति कुरुतः कुर्वन्त्यलं कुर्वते॥
टि—
(ख) शीतगुः–चन्द्रः। आतपत्ररचनां–छत्त्रधारणम्। दस्रौ–अश्विनीकुमारौ।
(ग)
समस्या–“पतिवक्त्वं न पश्यति।”
चतुर्थ्योर्भाद्रमासस्य चन्द्रचूड़स्य कामिनी।
दनद्वंय वर्षमध्ये “पतिवक्त्रं न पशय्ति”॥
टि—
(ग) भाद्रमासस्य शुक्लचतुर्थ्यां कृष्णचतुर्थ्याञ्च तिथौ नष्टचनद्रत्वात् चन्द्रदर्शननिषेधः।
“पञ्चाननगते भानौ पक्षयोरुभयोरपि।
चतुर्थ्यामुदितश्चनद्रो नेक्षितव्यः कदाचन॥”
(घ)
समस्या–“ब्राह्मणस्य महत् पापं सन्ध्यावन्दनकर्म्मभिः।”
परोपकारसद्धर्म्मप्रतिरोध्यपकारजम्।
“ब्राह्मणस्य महत् पापं सन्ध्यावन्दनकर्म्मभिः॥”
(उद्धटसागरस्य)
टि—
(घ) ब्राह्मणस्य–हे ब्राह्मण त्वं स्य खण्डय नाशय इत्यर्थः (सो+लोट्+हि)।
(ङ)
समस्या– “चन्द्रोदयं वाञ्छति चक्रवाकी।”
शत्रौ दुरन्ते परिमूयमाणे
न कस्य हर्षः समुदेति चित्ते।
भूत्या तवाच्छादितमाशुतोष
“चन्द्रोदयं वाञ्चति चक्रवाककी”॥
(उद्भटसागरस्य)
(च)
समस्या–“माषपेषच्छलेन।”
काचित् कान्ता विरहविधुरा प्रोषितस्य प्रियस्य
प्रावृट्काले प्रबलजलदैः पीड्यमाना पिनष्टि।
रुद्रं रामं हनुमदरुणौ वासुकिं कुम्भजञ्च
क्षिप्त्वा मध्ये दृषदुपलयो “र्माषपेषच्छलेन”॥
(उद्भटसागरस्य)
</3-390>
<3-391>
तृतीय-बुन्दुः।
कलिकाता- `संस्कृत-कलेज’-निराकृति-प्रस्तावः।
(391)
(क)
पञ्चत्रिंशदधिकाष्टादशशतमिते (1835) खष्टाब्दे यदा पण्डित-कुल-तिलको `लर्डेमेकले साहेवः’ कलिकातास्थ-`संस्कृत-कलेजं’ विलोपयितुमिच्छन् तात्कालिकं गभर्णरजेनारलं लर्ङ्-उद्रलियम्-वेण्टिङ्ग-साहेवमनुरुरो), तदा तत्रत्यः सवेश्रेष्ठोऽध्यापको सहामहोपाध्यायः सहृदयः पण्डितो जयगोपालतर्कालङ्कारो महाशयो नितरां मर्म्मपीड़ितः संस्कृतकलेजस्य सम्पादकचरस्य संस्कृतभाषाहृदयथनस्य महामनसः सुपण्डितस्य हीरेस्-हेम्यान्-उद्धल्सन्-साहेवस्य समीपे वक्ष्यमाणं श्लोकं प्रेषितवान् :–
अस्मिन् संस्कृतपाठससद्मसरसि त्वत्स्थापिता ये सुधी-
हंसाः कालवशेन पक्षरहिता दूरं गते ते त्वयि।
तत्तीरे निवसान्त संहितशरा व्याधास्तदुच्छत्तये
तेभ्यस्तं यदि पासि पालक तदा कीर्त्तिश्चिरं स्थास्यति॥
(जयगोपाल-तर्कालङ्कारस्य)
(ख)
(1)
पूर्व्वोक्तेन महात्मना उद्ल्सन्-साहेवेन अध्यापकःकुल-तिलक-जययोपालतर्का-लङ्कारस्य पूर्वोक्तं श्लोकं पठित्वा दुःखातिशयमनुभवता संस्कृतभाषाय उत्कर्षसूचकं स्वदुःखज्ञापकञ्च वक्ष्यमाणं श्लोकचतुष्टयं तत्सकाशे प्रेषितम् :–
विधाता विश्वनिर्ममाता हंसास्तत्प्रियवाहनम्।
अतः प्रियतरत्वेन रक्षिष्यति स एव तान्॥
(2)
अमृतं मधुरं सम्यक् संस्कृतं हि ततोऽधिकम्।
देवभोग्यमिदं यस्माद् देवभाषेति कथ्यते॥
(3)
न जाने विद्यते किं तन्मधुरत्वं हि संस्कृते।
सर्वदैव समुन्मत्ता येन वैदेशिका वयम्॥
(4)
यावद् भारतवर्षं स्याद् यावद् विन्ध्यहिमाचलौ।
यावद् गङ्गा च गोदा च तावदेव हि संस्कृतम्॥
(हेरेस्-हेम्यान्-उइल्सन्-साहेवस्य)
(ग)
तदा संस्कृतकलेजस्य अध्यापकानामन्यतम आलङ्कारिकवर्य्यो महामहोपाध्यायः पम्डितः प्रेमचन्द्रतर्कवागीशो महाशयो नितरां दुःखमनुभवन् वक्ष्यमाणं श्लोकं होरेस्-हेम्यान्-उइल्सन्-साहेवस्य सकाशे प्रेषयामास :–
गोलश्रीदीर्घिकाया बहुविटपितटे कोलिकातानगर्य्यां
निःसङ्गो वर्त्तते संस्कृतपठनगृहाख्यः कुरङ्गः कृशाङ्गः।
हन्तुं तं भीतचित्तं विधृतखरशरो `मेकले’-व्याधराजः
साश्रु ब्रूते स भो भो उइलसनमहाभाग मां रक्ष रक्ष॥
(प्रेमचन्द्र-तर्कवागीशस्य)
(घ)
पूर्वोक्तं प्रेमचन्द्र-तर्कवागीशस्य शोकं प्राप्य पठित्वा च नितरां मर्म्माहतेन होरेस्-हेम्यान्-उइल्सन्-साहेवेन तत्समीपे प्रेषितो वक्ष्यमाणः श्लोकः :–
निष्पिष्टापि परं पदाहतिशतैः शशदु बहुप्राणिनां
सन्तप्तापि करैः सहस्रकिरणएनाग्निस्फुलिङ्गोपमैः।
छागाद्यैश्च विचर्वितापि सततं मृष्टापि कुद्दालकै-
र्दूर्वा न म्रियते कृशापि नितरां धातुर्दया दुर्बले॥
(होरेस्-हेम्यान्-उइल्सन्-साहेवस्य)
</3-391>
<3-392>
कुम्भः।
(392)
स्वकण्ठमापीड्य दृढ़ं यथेष्टं
निपत्य कूपाटुपनीय वारि।
प्राणान् परेषामवतीह कुम्भः
परोपकाराय सतां प्रयत्नः॥
टि—
स्वकण्ठमापीड्य—रज्ज्वा इति शेषः। दृढं निपत्य-एतादृशः कुम्भस्य कूपपतनस्वभावः। उपनीय–गृहीत्वा। अवति–रक्षति। सतां–साधूनाम्।
</3-392>
<3-393>
(393)
“रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय” :–
गुणयुक्तोऽप्यधो याति रिक्तः कूपे घटो यथा।
पूर्णो गुणविहीनोऽपि जनैः शिरसि धार्य्यते॥
</3-393>
<3-394>
छत्त्रम्।
(394)
कस्त्वां शिरसि निधत्ते
को वा कुरुते तवादरं लोके।
छत्त्र स्वयमपि तप्तं
परतापञ्चेन्न वारयसि॥
</3-394>
<3-395>
तमाखुः।
(395)
लाकानां गदशान्तये समजनि श्रीताम्रकूटोऽमृताद्
ब्रह्मोशोऽपि कमण्डलुं श्रवणतो धुस्तूरपुष्पं ददौ।
श्रीकृष्णो मुरलीञ्च वह्निवरुणौ तत्रावतीर्णौ स्वयं
वीणावादकनारदो गुड़गुड़ं ब्रह्माक्षरं गायति॥
(कविचन्द्रस्य)
</3-395>
<3-396> द्रला-दण्डः।
(396)
प्राप्य प्रमाणपदवीं
को नामास्ते तुलेऽवलेपस्ते।
नयसि गरिष्ठमधस्तात्
तदितरमुच्चैस्तरं कुरुषे॥
(अमरुकस्य)
</3-396>
<3-397>
नस्यम्।
(397)
अब्धिं गोष्यदवत् पविं यवसवत् सूर्य्यञ्च खद्योतवद्
मेरुं मृत्कणवद् दवं तुहिनवद् भूमीपतिं भृत्यवत्।र
चिन्तारत्नचयं शिलाशकलवद् देहं निजं भारवद्
भक्तः पश्यति यस्य तद् विजयतां नस्यं परब्रह्मवत्॥
(उद्भटसागरस्य)
टि—
पविं–वज्रमअ। यवसवत्–तृणवत्। दवं–वनाग्निम्। शिलाशकलवत्–प्रस्तरखण्डवत्।
</3-397>
<3-398>
प्रदीपः।
(398)
रे रे दीप तिरस्कृताखिलतमःस्तोमारिवर्गस्य ते
रात्रौ गूढ़निजाङ्गपातिशलभाघातेन किं पौरुषम्।
तत् कर्म्माचर येन तावकयशो भूयात् प्रभाते पुन-
र्न स्नेहो न च सा दशा नहि परं ज्योतिः पुनः स्थास्यति॥
टि—
तमःस्तोमः–अन्धकारसमूहः। शलभः–पतङ्गः।
</3-398>
<3-399>
मध्यस्थः।
(399)
विशेषं विविच्य मध्यस्थो निर्णेतव्यः। सत्यपि मानुषे गुणराशौ प्रकृतिर्लघुश्वेत् कदाप्यसौ न निर्णेयः। अन्यथा परिणतौ विपत्तिरेव। मत्स्यधारणमुदाहत्य कविस्तदेव प्रमाणयति :–
प्रकृतिलघौ मध्यस्थे
गुणिनि शुचावपि न विश्वासः।
बोधयति वेधकालं
भासितरण्डो हि मीनस्य॥
टि—
प्रकृतिलघौ–प्रकृत्या स्वभावेन लघौ तुच्छे। शुचौ–पवित्रे। भासितरण्डः–भासमानः (प्लवमानः) वड़िशमूत्रबद्धः शरतृणकाष्ठखण्डः (फात्नेति प्रसिद्धः)
</3-399>
<3-400>
मूर्ख-पण्डित-पार्थक्यम्।
(400)
शब्दायते श्रुतिकठोरमलं जलेन
हीनो घटोऽर्द्धसलिलोऽपि च रौति घोरम्।
पूर्णोऽरवो भवतिं यत् तदयं विशेषो
विद्यावतोऽल्पविदुषः खलु वालिशस्य॥
(शीलाभट्टारिकायाः)
</3-400>
<3-401>
साधारण-नीतिः।
(401)
पण्डिते बहुविद्ये च स्त्रीजने च विभूषिते।
भोजने व्यञ्जनाढ्ये च को रसो गोरसं विना॥
टि—
पण्डिते गोरसः वाक्यरसः। स्त्रीजने गोरसः चक्षुरसः दृष्टिरसो वादर्शनमाधुर्य्यमिति यावत्. भोजने गोरसः धेनुरसः दुग्धमित्यर्थः।
“दिग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवरिषु।
भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः॥”–हलायुधः
</3-401>
<3-402>
(402)
द्वे कुर्य्याद् द्वे न कुर्य्याच्च सन्देहे समुपस्थिते।
कुर्य्याद् मूतर्पुरीषे द्वे न कुर्य्याद् गमनाशने॥
</3-402>
<3-403>
(403)
भुक्त्वोपविशतस्तुन्दं शयानस्य च पुष्टता।
आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः॥
</3-403>
<3-404>
सुजन-दुर्जन-पार्थक्यम्।
(404)
पनसचूतकुन्दाभा उत्तममध्यमाधमाः।
फलं पुष्पं फलं पुष्पं कर्म्म वाक् कर्म्म वागपि॥
(विकटनितम्बायाः)
टि—
पनसः पुष्पमप्रदर्श्यैव फलं प्रसूते तथोत्तमजनोऽपि वाचमकृत्वेव काय्य करोति। अतः पनससादृश्यमुतत्मस्य। आम्रः पुष्पं फलञ्च प्रकटीकरोति; तथा मध्यमोऽपि जनः प्रथमं वाक् परं कर्मम इत्येव करोति। अत आम्रसादृश्यं मध्यमस्य। कुन्दस्तु केवलं पुष्पमेव ददाति, तथा अधमोऽपि केवलं वाक्परायणः न तु कर्म्मतत्परः। अतः कुनद्सादृश्यमधमस्य। वागपि इत्यत्र अपि शब्दः अवधारणार्थः वागेव वाङ्मात्रमिति यावत्, न तु कर्म्मेत्याभप्रायः। श्लोकस्यास्य प्रथमे द्वितीये च पादे छन्दोदोषो विद्यते। प्रथमपादे छन्दोदोषः सशोधनीयः द्वितीयपादे तु नैव इति सुधीभिश्चिन्त्यम्।
</3-404>
<3-405>
(405)
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्दयोः सा
छायेव मैत्री खलसज्जनानाम्॥
(वाचस्पतेः)
</3-405>
<3-406>
(406)
गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे
गुणा दोषायन्ते तदिदमपि नो विस्मयपदम्।
यतो मेघः क्षारं पिबति कुरुते वारि मधुरं
फणी क्षीरं पीत्वा वमति गरलं दुःसहतरम्॥
</3-06>
<3-407>
(407)
उत्कुष्टमध्यमनिकृष्टजनेषु मैत्री
यद्वच्छिलासु सिकतासु जलेषु लेखा।
वैरं क्रमादधममध्यमसज्जनेषु
यद्वच्छिलासु सिकतासु जलेषु लेखा॥
</3-407>
<3-408>
खभावाख्यानम्।
(408)
असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो
न सङ्गाद् दौर्जन्यं न च सुजनता कस्यचिदपि।
प्ररूढ़े संसर्गे मणिभुजगयोर्जन्मजनिते
मणिर्नाहेर्दोषान् स्पृशति न च सर्पो मणिगुणान्॥
</3-408>
<3-409>
(409)
काकः पद्मवने रतिं न करुते हंसो न कूपोदके
मूर्खः पण्डितसङ्गमे न कुरुते विद्वान् न मूर्खे जने।
दुष्टः सेवति नो कदापि सुजनं शिष्टो न दुष्टं जनं
या यस्य प्रकृतिः स्वभावजनिता सा न क्वचित् त्यज्यते॥
</3-409>
<3-410>
स्वर्णकारः।
(410)
हे हेमकार परदुःखविचारमूढ़
किं मां भृशं क्षिपशि वारशतानि वङ्गौ।
सन्दीपिते मयि सुवर्णगुणातिरेको
लाभः परं तव मुखे खलु भस्मपातः॥
(अमरुकस्य)
इति तृतीय-प्रवाहः समाप्तः।
टि—
हेमकार–स्वर्णकार। सुवर्णंगुणातिरेकः–सुन्दरवर्णगुणातिशयः।
</3-410>
इति तृतीय-प्रवह-टिप्पनी समाप्ता।
————————————————-
]