Source: TW
This document contains:
-
Links to a few pages containing subhashitam-s.
-
Many subhashitam-s in Devanagari, with or without the source.
Sanskrit
http://sanskritslokas.com/subhasitani1.html
https://chitrapurmath.net/documents/sanskrit/subhashitas/Subhashita%2026%20Lokoktayah.pdf
http://saraswatam.blogspot.com/2013/01/
https://hindilearning.in/sanskrit-shlok/ Many Subhashitas with Hindi meaning.
http://hindudharmaforums.com/archive/index.php/t-3409.html Many subhashitas with English meaning.
https://sanskritslokas.com/vidya4.html
https://samskritpearls.blogspot.com/2020/10/sa-dharmo-yo-dayayuktahsarvapranihitapr.html
https://www.pakkapatriot.com/37-easy-and-meaningful-sanskrit-shlokas-with-meaning/
https://nityageervani.quora.com/
https://samskritpearls.blogspot.com/2019/02/shunah-puchchamiva-vyartha-jivitam.html Many subhashitas with English meaning.
https://mukundapriya.blogspot.com/2020/03/ Many Subhashitas with English meaning.
नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत्।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः॥ (हितोपदेशः)
**
बलिनो बलिनः स्निह्यन्त्यबलं तु न गृह्णते ।
दावं दीपयते चण्डो दीपं व्याहन्ति मारुतः ॥
**
-सभारञ्जन शतक
The strong and powerful always make friendship with equals. They will not care about the weak. Wind will give more power to an equally powerful forest fire, but will kill a weak lamp light.
विश्वास-प्रस्तुतिः
भेतव्यं नृपतेस् ततः सचिवतो राज्ञस् ततो वल्लभात्
अन्येभ्यश् च वसन्ति येऽस्य भवने लब्ध-प्रसादा विटाः ।
दैन्याद् उन्मुख-दर्शनापलपनैः पिण्डार्थम् आयस्यतः
सेवां लाघव-कारिणीं कृतधियः स्थाने श्व-वृत्तिं विदुः ॥(5)
मूलम्
भेतव्यं नृपतेस्ततः सचिवतो राज्ञस्ततो वल्लभात्
अन्येभ्यश्च वसन्ति येऽस्य भवने लब्धप्रसादा विटाः ।
दैन्यादुन्मुखदर्शनापलपनैः पिण्डार्थमायस्यतः
सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्तिं विदुः ॥
विषयः
सेवा, राजा
English - Notes
When you are servant, you have to be afraid of the king, of the ministers, of people close to the king, of all people who live in the palace. One would have look at others with pitiful eyes. All these for just a handful of food. What wise men say about servitude is true - that it is similar to the life of a dog.
स्रोतः
विशाखदत्तः - मुद्रा-राक्षसः
विश्वास-प्रस्तुतिः
भोगाय पामराणां योगाय विवेकिनां शरीरम् इदम् ।
भोगाय च योगाय च न कल्पते दुर्विदग्धानाम् ॥ (5)
मूलम्
भोगाय पामराणां योगाय विवेकिनां शरीरमिदम् ।
भोगाय च योगाय च न कल्पते दुर्विदग्धानाम् ॥
विषयः
शरीरम्
English
Commoners believe that body is a means for enjoyment (getting their wishes satisfied). Wise men believe that the body is a means to attain salvation. For people who have lost their mind, the body is of no use.
मणिर्लुठति पादेषु काचः शिरसि धार्यते ।
यथैवास्तु तथैवास्तु काचः काचो मणिर्मणिः ॥
-हितोपदेश, सुहृद्भेद
विश्वास-प्रस्तुतिः
मनो धावति सर्वत्र
मदोन्मत्त-गजेन्द्रवत् ।
ज्ञानाङ्कुश-समा बुद्धिस्
तस्य नो चलते मनः ॥
मूलम्
मनो धावति सर्वत्र मदोन्मत्तगजेन्द्रवत् ।
ज्ञानाङ्कुशसमा बुद्धिस् तस्य नो चलते मनः ॥
विषयः
बुद्धिः, मनः
विश्वास-प्रस्तुतिः
मस्तक-न्यस्त-भारादेर्
दुःखम् अन्यैर् निवार्यते ।
क्षुधादि-कृत-दुःखं तु
विना स्वेन न केनचित् ॥ (4)
मूलम्
मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते ।
क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥
विषयः
क्षुत्
स्रोतः
विवेकचूडामणिः
विश्वास-प्रस्तुतिः
मुहूर्तमपि जीवेत
नरः शुक्लेन कर्मणा ।
न कल्पमपि कृष्णेन
लोकद्वयविरोधिना ॥ (4)
मूलम्
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ।
न कल्पमपि कृष्णेन लोकद्वयविरोधिना ॥
विषयः
धर्मः, मृत्युः, दैन्यम्
विश्वास-प्रस्तुतिः
स्वगृहे पूज्यते मूर्खः
स्वग्रामे पूज्यते प्रभुः।
स्वदेशे पूज्यते राजा
विद्वान्सर्वत्र पूज्यते॥ (4)
मूलम्
स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः।
स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते॥
विषयः
विद्वान्
यथामयोऽङ्गे समुपेक्षितो नृभि-
र्न शक्यते रूढपदश्चिकित्सितुम् ।
यथेन्द्रियग्राम उपेक्षितस्तथा
रिपुर्महान् बद्धबलो न चाल्यते ॥
The following things when neglected will grow into monstrous proportions and become unconquerable - disease in our body, attraction of the group of our sense organs, an enemy.
यथान्नं मधुसंयुक्तं मधु वान्येन संयुतम् ।
एवं तपश्च विद्या च संयुक्तं भेषजं महत् ॥
When food is mixed with honey or when honey is mixed with anything else, it makes a good medicine. Just like that, a combination of penance and knowledge is a good medicine capable of curing anything.
यद्वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा ।
तत्स्वप्नेऽपि तदभ्यासाद्ब्रूते वाथ करोति वा ॥
**यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।
तथाऽसज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥
**
-हितोपदेश, मित्रलाभ
If you always stay in the company of virtuous people, you will live and prosper. If you fall into bad company, you will definitely fall.
**यदि न स्याद् गृहे माता पत्नी वा पतिदेवता ।
व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥
**
-भागवत
A household without a mother or a chaste wife is crippled like a broken chariot. It makes one truly miserable. Who in their right mind would continue to live in that?
सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसञ्ज्ञा प्रदीयते ॥ ( )
दिनान्ते च पिबेत् दुग्धं, निशान्ते च पिबेत् पयः ।
भोजनान्ते पिबेत् तक्रम्, किं वैद्यस्य प्रयोजनम् ॥
एक वर्णं यथा दुग्धं बहुवर्णासु धेनुषु ।
तथा धर्मस्य वैचित्र्ये तत्त्वमेकं परं पुनः ॥
कार्यार्थी भजते लोकः यावत् कार्यं न सिध्यति॥
उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम्॥
The world (men of the world), intending to get its work done, prays (to you) only until the task is not accomplished. Once you have crossed over to the other bank, what is the use of the boat ?
**एकोऽहमस्मीत्यात्मानं यत्त्वं कल्याण मन्यसे । (= हे कल्याण = भद्र)
नित्यं स्थितस्ते हृदये पुण्यपापेक्षिता मुनिः ॥
**
If you consider yourself to be alone (that nobody is seeing or aware of your actions) while committing wrong deeds, then it is a grave mistake. You are never alone ! There is someone (as though) sitting inside you who is the witness to all good and bad deeds committed by you, watching you all the time.
एकोऽपि गुणवान् पुत्रो निर्गुणैः किं शतेन तैः ।
एकश्चन्द्रो जगच्च्क्षुर्नक्षत्रैः किं प्रयोजनम् ॥
दुर्जनः सज्जनो भूयात्
सज्जनः शान्तिमाप्नुयात्।
शान्तो मुच्येत बन्धेम्यो
मुक्तश्चान्यान् विमोच्येत्॥
उपदेशो हि मूर्खाणाम्
प्रकोपाय न शान्तये ॥
पयःपानं भुजङ्गानां
केवलं विषवर्धनम् । ( )
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥
**नादातव्यं न दातव्यं न कर्तव्यं च किञ्चन ।
सान्त्वमेकं प्रयोक्तव्यं सर्वं तस्य वशे जगत् ॥
**
In order to rule the world, one need not be a miser, nor give away everything, need not do anything special. It is enough to keep doing good and the rest come automatically.
को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥
Who on earth can not be controlled if his mouth is properly filled (his wants are satisfied by you). Even a mrudungam (a musical instrument) makes a sweet sound if flour is applied to it (flour is applied to mrudungam to make its sound clearer).
जिह्वे प्रमाणं जानीहि भाषणे भोजनेऽपि च ।
अत्युक्तिरतिभुक्तिश्च सत्यं प्राणापहारिणी ॥
**पूर्णे तटाके तृषितः सदैव
भूतेऽपि गेहे क्षुधितः स मूढः ।
कल्पद्रुमे सत्यपि वै दरिद्रः
गुर्वादियोगेऽपि हि यः प्रमादी ॥
**
The one who is negligent and careless even after getting a Guru, is the dull-witted person who is – thirsty in spite of being next to a lake, hungry in spite of the food being available in the house and an indigent person in spite of being next to a wish-fulfilling tree !
व्यसनानन्तरं सौख्यं स्वल्पमप्यधिकं भवेत् ।
काषायरसमासाद्य स्वाद्वतीवाम्बु विन्दते ॥
प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविस्
त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः II
परवाच्येषु निपुणः सर्वो भवति सर्वदा ।
आत्म्य्वाच्यं न जानाति जानन्नपि च गुह्यते ॥
People are always expert in criticising others for their
shortcomings, whereas they either do not know their own
shortcomings or even if they are aware about them, they try to
conceal them as a secret ..
प्रिये नातिभृशं हृष्येत् अप्रिये न च सञ्ज्वरेत् ।
न मुह्येदर्थच्छिद्रेषु न च धर्मं परित्यजेत् ॥
-महाभारत, वन
बलवानप्यशक्तोऽसौ धनवानपि निर्धनः ।
श्रुतवानपि मूर्खश्च यो धर्मविमुखो जनः ॥
पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् ।
मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥
मनीषिणः सन्ति न ते हितैषिणो
हितैषिणः सन्ति न ते मनीषिणः ।
सुहृच्च विद्वानपि दुर्लभो नृणां
यथौषधं स्वादु हितं च दुर्लभम् ॥
There are wise men. But they are not my well wishers. There are a lot of well wishers. But they are not wise. It is difficult in this world to find a person who is both wise and a well wisher - just like it is hard to find a medicine that also tastes good.
मूर्खेण सह संयोगो विषादपि सुदुर्जरः ।
विज्ञेन सह संयोगः सुधारससमः स्मृतः ॥
मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिस्तुरगास्तुरङ्गैः ।
मूर्खाश्च मूर्खैः सुधियः सुधीभिः
समानशीलव्यसनेषु सख्यम् ॥
**मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः ।
मा तीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥
**
-महाभारत, शान्ति
-mahAbhArata, shAnti
One must not be too soft. People will ridicule them. One must not be too aggressive. People will be anxious around them. One must not be too soft or too aggressive always. One must be soft and aggressive as required.
**यः प्रीणयेत् सुचरितैः पितरं स पुत्रः
यद् भर्तुरेव हितमिच्छति तत्कलत्रम् ।
तन्मित्रमापदि सखे च समक्रियं यत्
एतत्त्रयं जगति पुण्यकृतो लभन्ते **॥
-A good son is one who makes his father happy (by being obedient, follow dharma). A good wife is one who always keeps the interest of her husband in her mind. A good friend is one who does not change his mind when you are in trouble. Only people who have done good deeds in the past will get these in this world.
गावो घ्राणेन पश्यन्ति वेदैः पश्यन्ति पण्डिताः ॥
चारैः पश्यन्ति राजानश् चक्षुर्भ्यामितरे जनाः ॥
सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम्।
**योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः॥ **- मनुस्मृति,५,१०६
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ।
उभयत्र सुखोदर्क इह चैव परत्र च ॥
**व्यवस्थितः प्रशान्तात्मा कुपितोऽप्यभयङ्करः ।
अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥
**
When a usually calm and collected person gets angry - it is still not that fearsome. One can expect him to be rational and control his anger. But if one sees inconsistent fellow bestow favours, he must get worried. Because such people could turn around any time and hurt you.
शनैः पन्थाः शनैः कन्था शनैः पर्वतमस्तके ।
शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥
-सुभाषितरत्नभाण्डागार
One must walk along a long path slowly. A fine cloth must be weaved very slowly. One must slowly climb the mountain. Education must happen slowly. Wealth is also accumulated slowly. These are the five things that have to be done very slowly.
शुभं वाप्यशुभं कर्म फलकालमपेक्षते ।
शरदैव फलत्याशु शालिर्न सुरभौ क्वचित् ॥
-सुभाषितरत्नभाण्डागार
The result of auspicious and inauspicious deeds is
visible after the passage of some more time just like the harvest
of rice ,which takes more time to ripen and become fragrant during
the autumn season.
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णकम् ।
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥
Do it today what needs to be done tomorrow, in the morning what needs to be done in the afternoon. When it is time, death does not wait to see if you have done all your duties or not yet.
शौर्ये तपसि दाने च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥
-garuDapurANa
One must have attained fame in any of the below - courage, penance, charity, education or accumulation of wealth. If one is not able to do so, then his life is a waste - as if his mother gave birth to just a lump of flesh (refuse/excreta).
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः।
कालेन तीर्थं फलति सद्यः साधुसमागमः ॥
सकृत् कन्दुकपातेन पतत्यार्यः पतन्नपि ।
तथा पतति मूर्खास्तु मृत्पिण्डपतनं यथा ॥
–panchatantra
If and when a virtuous person falls down, he will bounce back like a ball. When a fool falls down, it will be like a ball made of mud.
यथा हि पथिकः कश्चित् छायामाश्रित्य तिष्ठति।
विश्रम्य च पुनर्गच्छेत् तद्वद् भूतसमागमः॥
यथा कश्चन प्रयाता वृक्षाधः स्थित्वा छायां स्वीकृत्य अग्रे च गच्छति तथैव जीवने मनुष्या आयान्ति ईषद् कालं यावत् सहचरा भूत्वा अग्रे सरन्ति।
यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः ।
विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयम् ॥
**सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।
अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥
**
-सुभाषितरत्नभाण्डागार
It is very true what the ancient sages have spoken - What is not yours, you will never get it. Even when the earth is so abundant with water, for the chataka bird it is as good as a desert. Chataka (Cucculus melanoleucus) is said to subsist only on rain water freshly poured from the clouds drinking it before it reaches the ground.
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितञ्च ।
पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो नैव हृष्येन्नशोचेत् ॥
Nothing is ever permanent in this world, everything is in a
state of flux. If one were to grasp this truth, there would be no
scope for utter despair or unrestrained joy.
स्वकर्मधर्मार्जितजीवितानां
शास्त्रेषु दारेषु सदा रतानाम् ।
जितेन्द्रियाणामतिथिप्रियाणां
गृहेऽपि मोक्षः पुरुषोत्तमानाम् ॥
-गरुडपुराण
It is salvation right in the middle of running a household for those who - earn their living by doing moral acts only, who are always in the company of scriptures or their wives, who have their senses under their control and who love to serve guests.
Manusmriti with the Commentary of Medhatithi
हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् ।
रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ १४१ ॥
hīnāṅgānatiriktāṅgān vidyāhīnān vayo’dhikān ।*
rūpadraviṇahīnāṃśca jātihīnāṃśca nākṣipet* ॥ 141 ॥
He shall not insult those who have redundant limbs, or those who are deficient in limbs, or those destitute of learning, or those who are far advanced in age, or those destitute of beauty or wealth, or those of low birth.—(141)
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम्।
धर्मक्षयकरः क्रोधस् तस्मात्क्रोधं परित्यज॥
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा ।
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते सदा ॥
-महाभारत, शान्ति
If you see wealth (that you don’t have) with others, don’t feel jealous. Just live with it. You must understand that if you have done good things in the past, then you will be able to enjoy the wealth even if it does not belong to you.
-Mahabharata, Shanti
सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् ।
द्वयमन्योन्यसंयुक्तं प्रोच्यते जलपङ्कवत् ॥
**सन्तोषस्त्रिषु कर्तव्यः कलत्रे भोजने धने ।
त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥
**
One must observe strict limits when dealing with wife, food and wealth. No limits must be there in study, penance and charity. i.e. It is the duty of every body to remain contented in his life about three things, namely (i) relationship
with his wife (ii) about the food he gets and (iii) the wealth he has acquired. On the other hand he should not be contended in respect of these three things. namely (i) intensive study to acquire more knowledge (ii) performing
‘Japa’ to please the God Almighty and (iii) giving as charity his wealth for the betterment of the society.
पदं हि सर्वत्र गुणैर्निधीयते। गुण ही सर्वत्र शत्रु-मित्रादिकों में पैर को स्थापित करते हैं
(अर्थ–
हितोपदेशं शृणुयात् कुर्वीत च यथोदितम् ।
विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक् ॥
(Kaurava here is Dhrutarashtra)
सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।
शोभते न विना विद्यां विद्या सर्वस्य भूषणम् ॥
संस्नाप्यापि करी चेन्मुक्तो मलिनः क्षणाद् भवति
स्नानान्ते यदिबद्धस्तिष्ठेदमलस् तथैव सत्सङ्गात् ।
जातं परमपवित्रं मनः पुनर्वो विषयिसहवासात्
मलिनं स्यात्तच्चेशे बद्धं तिष्ठेत्सुनिर्मलं नूनम् ॥
- सूक्तिमुक्तावली
After washing the elephant, if it is left free, it will get muddy in a second. But if you keep it restrained, then it will remain clean. Similarly, our mind becomes clean when it comes in contact with a virtuous person. But if you talk to a rogue later, it will again become polluted. However, if you can restrain it by thinking about God at all times, then it can be kept clean and pure.
मौनान्न मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥
कान्तापुत्राभावे प्रसह्य मोहेन कस्यचित्पुत्रं
श्वानं शुकं हरिं वा सम्पाल्याप्यात्मबन्धनं कुरुते ।
कुरुते न चात्मबन्धोः कथारतिं श्रीहरेर्विषयदृष्टिर्
दुग्धतृषं तक्रेण हि मायावशतः सुनिपुणोऽपि ॥
When people don’t have wife and children, they are free from all bondages. But such people will create more bondages with somebody else’s children, or a dog, or a parrot, or a monkey. They will not create bondage with God by listening to the stories of Vishnu and Lakshmi. This is like trying to quench the thirst for milk by drinking curd. It is surprising that even learned and knowledgeable people do this.
अहितहितविचारशून्यबुद्धेः श्रुतिसमये बहुभिर्वितर्कितस्य ।
उदरभरणमात्रतुष्टबुद्धेः पुरुषपशोश्च पशोश्च को विशेषः ॥ १,११५.३१ ॥ Garuda Purana
“What is the difference between a beast and a man-beast, Whose intellect is devoid of discernment between harmful and beneficial, Who engages in much speculation when hearing scriptures, And whose mind is satisfied merely with filling the belly?”
**मृत्कुम्भो जलपूर्णोह्यनास्थयोद्घटितमुखो यद्वत्
रिक्तः स्यादल्पदिनैर्जलप्रपूर्णो जलाप्लुतस्तद्वत् ।
प्रभुभक्त्या हृत् कुम्भः प्रपूरितो यत्रकुत्रचित् क्षिप्तः
रहितो भक्त्याऽपि भवेत् न तथास्यात्कृष्ण चरितेऽस्तः ॥
**
If you leave a mud pot filled with water unattended with the mouth open, in a short period you will see that it will lose all water (to evaporation). On the other hand, if you take care of it by closing the lid, or refilling often, even little water will remain for long and never get empty. Just like that one must fill the heart with devotion towards God. Having done so, if one indulges in worldly pleasures, the devotion will vanish very soon. But if you continue to keep Krishna in mind always, then the pot of devotion will never get empty.
- सूक्तिमुक्तावली
विद्यया विमलयाप्यलङ्कृतो दुर्जनः सदसि मास्तु कश्चन।
साक्षरा हि विपरीततां गताः केवलं जगति तेऽपि राक्षसाः ॥
सर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति । अज्ञानतस्तत्र पतन्ति केचिज्ज्ञाने फलं पश्य यथाविशिष्टम्’ (मो. ध. २०१ । १७) ।
नाकाले म्रियते जन्तुर् विद्धः शरशतैरपि ।
कुशकण्टकविद्धोऽपि प्राप्तकालो न जीवति ॥
When your time is not yet up, even if one throws a hundred arrows at you – nothing happens to you. However, when it is up, even a blade of grass can kill you.
एकस्यामृत्स्नाया विकारचित्राण्यनेकानि ।
ईशोऽप्येको नाना सेव्यो नानाप्रकारतो लोकैः ॥
The matter is the same - mud. But it can take so many different forms. God is also like that. He is alone. But we the people of this world see him differently and serve him differently
सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।
न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ॥
दरिद्राय कृतं दानं शून्यलिङ्गस्य पूजनम् ।
अनाथप्रेतसंस्कारम् अश्वमेधसमं विदुः ॥
यदि सन्ति गुणाः पुंसां विकसन्त्येव केवलम् .
नहि कस्तूरिकाऽऽमोदः शपथेन विभाव्यते.
If there are good qualities in a person they definitely grow further like the strong fragrance of ‘Kasturi’ which is clearly distinguishable and can not be concealed simply by swearing (that there is no fragrance).
Bhagavatam 11.14.16
निरपेक्षं मुनि शान्तं निर्वैरं समदर्शनम्।
अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥ 16॥
हरेः पदाहतिः श्लाघ्या न श्लाघ्यं खररोहणम् ।
स्पर्धाऽपि विदुषा युक्ता न युक्ता मूर्खमित्रता ॥
आचारः प्रथमो धर्म इत्येतद् विदुषां वचस्
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः.
न धनी न बली नापि शूरो न गुणवानपि .
तथा भाति यथा वक्ता सभायां पिकवद्वने .
A person may not be very rich, powerful and even virtuous, but if he is an orator he shows his eminence in an assembly of persons like a cockoo in a forest
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता
यत्र एता न पूज्यन्ते सर्वास्तत्र अफला क्रिया
आपद्भुजङ्गदष्टस्य मन्त्रहीनस्य सर्वदा ।
वृद्धवाक्यौषधा नूनं कुर्वन्ति किल निर्विषम् ॥
When a person is bitten by a snake of calamity due to the absence of mantra (wise counsel : incantations), there is always surely medicine on the advice of elders that can free them from the effects of the poison.
आपद्गतं हससि किं द्रविणान्ध मूढ
लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् ।
किं त्वं न पश्यसि न घटीर्जलयन्त्रचक्रे
रिक्ता भवन्ति भरिताः पुनरेव रिक्ताः ॥
Oh ! Stupid one, dazzled by opulence, why are you laughing at him who fell into misfortune ? Is there reason to be surprised that good luck is unstable ? Have you not seen jars on a well-wheel ? The empty become full, and the full empty !
परिश्रमो मिताहारः भेषजे सुलभे मम ।
नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति ते भयम् ॥
Hard work and light food. This is the readily available medicine for any disease. If you do these daily, you shall not be afraid of any ailment.
आपत्स्वमूढो धृतिमान् यः सम्यक् प्रतिपद्यते ।
कर्मण्यवश्यकार्याणि तमाहुः पण्डितं बुधाः ॥
Who does not lose his head in case of misfortune, remains in good mood, and performs his works which have to be performed, is called a wise man.
कुसुमं वर्णसम्पन्नं गन्धहीनं न शोभते।
न शोभते क्रियाहीनं मधुरं वचनं तथा॥
आदौ तु रमणीयानि मध्ये तु विरसानि च ।
अन्ते वैरायमाणानि सङ्गतानि खलैः सह ॥
In the beginning, association with the wicked is pleasing; afterwards (in the middle) it becomes distasteful ; at the end it results in enmity.
आपत्कालोपयुक्तासु कलासु स्यात् कृतश्रमः ।
नृत्यवृत्तिर्विराटस्य किरीटी भवनेऽभवत् ॥
One should take pains to acquire proficiency in those arts that are of use in times of adversity. Arjuna having become an expert in the art of dance lived (comfortably during incognito life) in Virāṭa’s palace.
ನಾದೇವಾಂಶೋ ದದಾತ್ಯನ್ನಂ
ನಾರುದ್ರಃ ಕ್ರಮಪಾಠಕಃ ।
ನಾನೃಷಿಃ ಕುರುತೇ ಕಾವ್ಯಂ
ನಾವಿಷ್ಣುಃ ಪೃಥಿವೀಪತಿಃ ॥
(ದೇವೀಭಾಗವತ)
ದೇವಾಂಶವಿಲ್ಲದವನು ಅನ್ನವನ್ನು ಕೊಡಲಾರನು.
ರುದ್ರಾಂಶವಿಲ್ಲದವನು ಕ್ರಮವಾಗಿ ವೇಧಾಧ್ಯಯನ ಮಾಡಲಾರನು.
ಋಷಿ ಅಲ್ಲದವನು ಕಾವ್ಯವನ್ನು ರಚಿಸಲಾರನು.
ವಿಷ್ಣುವಿನ ಅಂಶವಿಲ್ಲದವನು ರಾಜನಾಗಲಾರನು.
आनीयते शरीरेण क्षीणोऽपि विभवः पुनः ।
विभवः पुनरानेतुं शरीरं क्षीणमक्षमः ॥
Though wealth has dwindled, it may be made again by the (strength of the) body ; but wealth may not succeed to bring the body, that has been (excessively) weakened, to good health.
चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥
आदाय करमाढ्येभ्यः कीकटेष्वपि वर्षसि ।
प्रपीय वारि सिन्धुभ्यः स्थलेष्विव घनाघनः ॥
After collecting taxes from rich people, I hope you shower them down on the needy, just as a rain cloud, drinking up water from the sea (or rivers / streams), showers down on every piece of land.
गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः ।
हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥
(In respect) of what ought to be taken, (or) to be given, or of a work which ought to be done, not being done quickly, time drinks up the spirit thereof.
वाताभ्रविभ्रममिदं वसुधाधिपत्य-
मापातमात्रमधुरो विषयोपभोगः /
प्राणास्तृणाग्रजलबिन्दुसमा नराणां
धर्मस्सखा परमहो परलोकयाने // 3 //
[Lordship is akin to a cloud wafted by wind. …]
गुणग्रामाभिसम्वादि नामापि हि महात्मनाम् ।
यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः ॥
- प्रसन्नराघव
What to say about the virtues and valor of the noble, even their name shows their greatness! Just like suvarṇa (one with an attractive color - gold), śrīkhaṇḍa (a piece of wood filled with the richness of sandal - sandalwood), ratnākara (one who holds/makes precious gems and stones - ocean), sudhākara (one who gives essence like the divine nectar - moon).
नूनं स्वार्थपरो लोको न वेद परसङ्कटम् ।
यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥
Those who are too self-interested beg something from others, not knowing of others’ pain. But if the beggar knew the difficulty of the giver, he would not ask for anything. Similarly, he who is able to give charity does not know the beggar’s difficulty, for otherwise he would not refuse to give the beggar anything he might want as charity.
दातृत्वमेव सर्वेभ्यो गुणेभ्यो भासतेतराम् ।
ज्ञातृत्वसहितं तेच्चेत्सुवर्णस्येव सौरभम् ॥
पुरुषः पौरुषं तावद्यावद्दैवं तु सन्मुखम् /
विपरीतगते दैवे, पुरुषो न च पौरुषम् //
ಪುರುಷ, ಪುರುಷ ಪ್ರಯತ್ನ ಇವೆಲ್ಲ ದೈವವು ಅನುಕೂಲ ಇರುವವರೆಗೆ ಮಾತ್ರ. ದೈವವು ವಿಪರೀತವಾದರೆ ಪುರುಷನು, ಪೌರುಷವು ನಿರರ್ಥಕ.
ಪರೋಪಕಾರಶೀಲತ್ವಂ
ಪರದುಃಖಾಸಹಿಷ್ಣುತಾ ।
ದಯಾಪರತ್ವಂ ದಾಕ್ಷಿಣ್ಯಂ
ಸತಾಂ ಸ್ವಾಭಾವಿಕಾ ಗುಣಾಃ ॥
साहित्यसङ्गीतकलाविहीनः
साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्
तद्भागधेयं परमं पशूनाम् ॥
- नीतिशतक
He who is devoid of (the knowledge of) literary compositions, music/melody or art forms, is an embodiment of an animal without a tail and horns. The animals are fortunate that he survives without eating up the grass (of their share)!
भवन्ति नम्रास्तरवः फलोद्गमैर्
नवाम्बुभिर्भूरिविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥
- नीतिशतक
Trees bow down when fruit are shooting forth; clouds hang low when filled with water; the noble become humble in opulence - this is the very nature of the benevolent.
वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥
- वैराग्यशतक, भर्तृहरि
Here, we (ascetics) are happy in our tree bark clothes (valkala) and you are happy in your silken robes. The contentment is equal, nothing special about that. He is poor whose thirst is endless. When there is contentment at heart - who is rich, who is poor?
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
Oh, King! It is easy to find people who always talk in (your) favor. But people who speak or listen to ‘words not in (your) favor, yet in your welfare’ are rare to find.
निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
न हि स्वर्णे ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥
Things of lesser quintessential value probably catch more attention. Gold doesn’t make noise like brass.
ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ।
त्रयस्ते पितरो ज्ञेया धर्मे वर्त्मनि वर्तिनः ॥
-रामायण, किष्किन्धा
An elder brother, the father himself and he who gives knowledge - these three are to be perceived (respected) as fathers by those on the path of virtue.
येषां बाहुबलं नास्ति येषां नास्ति मनोबलम् ।
तेषां चन्द्रबलं देव किं कुर्यादम्बरस्थितम् ॥
बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥
- पञ्चतन्त्र, मित्रभेद
Even the feet of a young Sun (sunrays) can fall on top of the mountains (kings). For those born with brilliance, where is the relevance of age?
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२ ॥
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥
- पञ्चतन्त्र, मित्रभेद
आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् ।
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ॥
ātmarakṣitatantrāṇāṁ suparīkṣitakāriṇām ।
āpadō nōpapadyantē puruṣāṇāṁ svadōṣajāḥ ॥
Persons who are mindful of protecting their own selves and who do all their acts after proper consideration and survey, never incur danger at the consequence of their acts.
Suprabhat Jai Bharat Vandemataram
आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥
A friend must at all cost be given a helping hand, be he rich or poor, happy or miserable, sinful or blameless. //‘Whether rich or poor, afflicted or happy, flawless or guilty, a friend is the ultimate refuge to a friend.//
आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् ।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥
He who, well comparing the strength and weakness of himself and of others, can not perceive the difference, is made an object of scorn by (his) enemies.
आत्नमश्च प्रजायाश्च दोषदर्श्युत्तमो नृपः ।
विनियच्छति चात्मानम् आदौ भृत्यांस्ततः प्रजाः ॥
Of himself and of his children (and of his subjects) the best of kings always sees the faults ; he restrains and corrects himself first, then his servants and then (only) his subjects.
वर्तमानं निरीक्ष्यैव तं जनं नोपहासयेत्। कालक्रमेण चाङ्गारो हीरकं जायते ध्रुवम् ॥
आजन्मसेवितं दानैर्मानैश्च परिपोषितम् ।
तीक्ष्णवाक्यान्मित्रमपि तत्कालं याति शत्रुताम् ।
वक्त्रोक्तिशल्यमुद्धर्तुं न शक्यं मानसं यतः ॥
Though propitiated with gifts throughout life and nourished all round with honour and good will, a friend becomes an enemy all of a sudden by the use of harsh and biting words : for, it is not possible to uproot the dart of displeasing words when once it has gone into the heart.
केषाञ्चिदपि वस्तूनां गम्यते सङ्गिना गुणः ।
वैद्यनापितहन्तृणां हस्तेषु क्षुरिका यथा ॥
keṣāñcidapi vastunāṁ gamyate saṅginā guṇaḥ ।
vaidyanāpitahantr̥ṇāṁ hasteṣu kṣurikā yathā ॥
The usefulness (virtues or merits) of any object are evident with the association – i.e. depends on the person using that object. Just like the usefulness of a knife is clearly known when seen (differently) in the hands of a doctor, a hair-dresser or a murderer.
वायुना शोधका वृक्षा रोगाणामपहारकाः ।
तस्माद् रोपणमेतेषां रक्षणं च हितावहम् ॥
Trees purify the air and also contribute to keeping away diseases. Therefore, it is beneficial for beings to plant and protect trees.
यच्छक्यं ग्रसितुं ग्रासं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे स्यात्तत्कार्यं भूतिमिच्छता ॥
A person seeking prosperity should eat only that much big a portion which he can eat, and having eaten that can be digested well and that can be beneficial to him – i.e. don’t bite more than you can chew.(Before doing anything a person should consider whether it is in his capacity to undertake such an activity, whether he will be able to take it to its logical completion and whether he can enjoy the fruits of such an endeavour on completion).
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।
अभ्यासेन न लभ्येयुश्चत्वारः सहजा गुणाः ॥
पुत्रमपि सापराधं दण्डयति हि सज्जनो नितराम् ।
शत्रुमपि मन्तुरहितं रक्षति सुतरां स सर्वथा शक्त्या ॥
A good person punishes severely even his own son if he is guilty. He protects even his worst enemy with all his might if he is innocent.
स्वार्थसिद्धिषु पराङ्मुखोऽपि सन् यः परोपकृतये प्रधावति ।
दुःखिताश्रुपरिमार्जनं महत् पुण्यमामनति यः स सज्जनः ॥
One who is disinterested in attaining something for oneself, but hurries always to help others, and considers the wiping of the tears of the distressed people as the most meritorious deed, is really a good human being.
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी ।
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥
न सज्जनस्यास्ति कदापि चिन्ता सुखे च दुःखेऽप्यथवा स्वकीये ।
परस्य दुःखान्यपनेतुमेव व्यग्रं मनस्तस्य मनो नितान्तम् ॥
A good person has no worry about his own comfort or discomfort because his mind is always engaged in alleviating the sorrow of others.
धॄतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥
There are ten characteristics of ‘Dharma’ - patience, forgiveness, self-control, non- stealing, purity, control of senses, intelligence, knowledge, truth, non-anger.
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ॥
यदमी दशन्ति दशना रसना तत्स्वादमनुभवति ।
प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥
कामं क्रोधं लोभं मदमथ मोहं च मात्सर्यम् ।
पूर्वं जित्वा योऽन्यान् शत्रून् जेष्यति स सज्जनः कथितः ॥
न सज्जनस्यास्ति कदापि भीतिः शत्रोर्यमाद्वा नरकान्नृपाद्वा ।
लोकापवादात्स बिभेति यस्मात् परोपकारावसरं हरेत्सः ॥
नरस्याभरणं रूपं रूपस्याभरणं गुणाः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥
प्रथमे नार्जिता विद्या
द्वितीये नार्जितं धनम् ।
तृतीये नार्जिता कीर्तिश्
चतुर्थे किं करिष्यति ॥
कर्तुं कदाप्यत्र परोपकारं न सज्जनोऽन्विष्यति कारणानि।
असज्जनोऽप्यत्र परापकारं विनैव हेतुं सततं करोति॥
A good person does not need any reason to help others. An evil person also does not need any reason to harm others.
विषस्य विषयाणां च दूरमत्यन्तमन्तम् ।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥
अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत् ।
जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् ॥
- महाभारत, उद्योगपर्व
दुर्गृहीतं क्षिणोत्येव शास्त्रं शस्त्रमिवाबुधम्।
सुगृहीतं तदेव ज्ञं शास्त्रं शस्त्रं च रक्षति॥४९॥
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।
तॄणैर्गुणत्वमापन्नैर् बध्यन्ते मत्तदन्तिनः॥
शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना ।
न गुह्यगोपने शक्तं न च दंशनिवारणे ॥ ६६
Life of a person devoid of education is as useless as the tail of a dog. It not only does not cover what needs covering but is also incapable of protecting from insect bites.
लालयेद्बालकं तावत् यावदत्र विमुग्धता ।
राजा प्रजास्विव प्रीतिं पश्चात् प्रच्छादयेत् पिता ॥
- हरिहरसुभाषित
अहो सत्सङ्गतिर्लोके किं पापं न विनाशयेत् ।
न ददाति सुखं किं वा नराणां पुण्यकर्मणाम् ॥
अद्भिर्गत्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां जीवात्मा बुद्धिर्ज्ञानेन शुध्यति ॥
अहो धनमदान्धस्तु पश्यन्नपि न पश्यति
यदि पश्यत्यात्महितं स पश्यति न संशयः १०९
अपृष्टोऽपि हितं ब्रूयात् यस्य नेच्छेत् पराभवम् ।
एष एव सतां धर्मो विपरीतमतोऽन्यथा ॥
अरावप्युचितं कार्यमातिथ्ये गृहमागते ।
छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः ॥
वायुपुराणम्/उत्तरार्धम्/अध्यायः ४४
https://sa.wikisource.org/s/5p7
देवा ऊचुः ॥
ॐ नमो विष्णवे भर्त्रे सर्व्वेषां प्रभविष्णवे।
रोचिष्णवे जिष्णवे च राक्षसादिग्रसिष्णवे ॥ ४४.१० ॥
धरिष्णवे**ऽखिलस्यास्य योगिनां **पारयिष्णवे ।
वर्द्धिष्णवे ह्यनन्ताय नमो भ्राज्ष्णिवे नमः ॥ ४४.११ ॥
कालक्रमेण जगतः परिवर्तमानाः ।
चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥
- स्वप्नवासवदत्त
Like the rows of spokes of a wheel rise up and go down, so do the spokes of the wheel of fortune with changing times.
रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर॥
दूरस्थो ज्ञायते सर्वः पर्वते ज्वलनादिवत् ।
चूडामणिः शिरस्थोऽपि दृश्यते न स्वचक्षुषा ॥
- रामायणमञ्जरी, किष्किन्दा
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजना न परित्यजन्ति ॥२७॥
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।
न दैवेन विपन्नार्थः पुरुषस्सोऽवसीदति॥2.23.17॥ Valmiki Ramayanam
In the case of one capable of striking destiny with human efforts it cannot defeat his objective and bring him despondency.
अहिंसा सत्यवचनम् आनृशंस्यं दमो घृणा ।
एतत् तपो विदुर्धीरा न शरीरस्य शोषणम् ॥
Abstention from injury, truthfulness of speech, benevolence, self-restraint and compassion – these are regarded as penances by the wise and not the emaciation of the body.
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् ।
शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः॥
यदि सत्सङ्गनिरतः भविष्यसि भविष्यसि ।
तथा सज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥
- हितोपदेश, मित्रलाभ
अस्थिरं जीवितं लोके यौवनं धनमस्थिरम् ।
अस्थिरं पुत्रदारादि धर्मः कीर्तिर्द्वयं स्थिरम् ॥
पठतो नास्ति मूर्खत्वं, जपतो नास्ति पातकम्।
मौनिनः कलहो नास्ति, न भयं चास्ति जाग्रतः॥
दानेन पाणिर् न तु कङ्कणेन,
स्नानेन शुद्धिर् न तु चन्दनेन ।
मानेन तृप्तिर् न तु भोजनेन,
ज्ञानेन मुक्तिर् न तु मुण्डनेन ॥
- चाणक्यनीतिः17.12
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥
अहन्यहनि याचन्तं कोऽवमन्येद् गुरुं यथा ।
मार्जनं दर्पणस्येव यः करोति दिने दिने ॥
असज्जनेन सम्पर्कादनयं यान्ति साधवः ।
मधुरं शीतलं तोयं पावकं प्राप्य तप्यते ॥
दानं दरिद्रस्य विभोः क्षमित्वं यूनां तपो ज्ञानवतां च मौनम्
इच्छानिवृत्तिश्च सुखोचितानां दया च भूतेषु दिवं नयन्ति ॥१३५॥
தேசமெல்லாம் திரிந்து பயணம் செய்வதாலும் கற்றறிந்தவர்களைப் பணிந்து அருகமர்வதாலும் அறிவு விசாலமடைகிறது, நீர்ப்பரப்பின் மேல் விழுந்த எண்ணெய்த் துளி போல.
- சுபாஷிதம்
गोविन्द दामोदर स्तोत्र
https://sa.wikisource.org/s/7oe
श्री कृष्ण विष्णो मधु-कैटभारे भक्तानुकम्पिन् भगवन् मुरारे।
त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति ॥ (२) (/)
निजाङ्गणे कङ्कण-केलि-लोलं गोपी गृहीत्वा नवनीत-गोलम् ।
आमर्दयत् पाणि-तलेन नेत्रे गोविन्द दामोदर माधवेति ॥ (१३)
गृहे गृहे गोप-वधू-कदम्बाः सर्वे मिलित्वा समवाय-योगे ।
पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ॥ (१४)
मन्दार-मूले वदनाभिरामं बिम्बाधरे पूरित-वेणु-नादम् ।
गो-गोप-गोपी जन-मध्य-संस्थं गोविन्द दामोदर माधवेति ॥ (१५)
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
अहिंसा परमो धर्मो ऽहिंसा परमा गतिः ।
अहिंसा परमा प्रीतिस् त्वहिंसा परमं पदम् ॥( \ )
अस्ति कारणमव्यक्तं सर्वव्यापि परापरम् ।
सान्निध्यादपि दुर्ग्राह्यं विश्वमूर्त्योपलक्षितम् ॥
यस्तु सञ्चरते देशान् सेवते यस्तु पण्डितान् ।
तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥
असतां सङ्गमुत्सृज्य सत्सु सङ्गं समाचरेत् ।
असतां सङ्गदोषेण माण्डव्यः शूलमाप्तवान् ॥
#சம்ஸ்கிருதம் #நன்மொழி
अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् ।
अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णका इव ॥ (guests/visitors)
असत्सङ्गाद् गुणज्ञोऽपि विषयासक्तमानसः ।
अकस्मात् प्रलयं याति गीतरक्तो यथा मृगः ॥
असहायः समर्थोऽपि न कार्यं कर्तुमर्हति ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तणडुलाः ॥
अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयगुणसमृद्धिम् ।
निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति ॥
The bee pursues fragrance; prosperity pursues good statesmanship ; water pursues low level and a man’s mind follows (pursues) fate’s decree.
असिधारां विषं वह्निं समत्वे यः प्रपश्यति ।
मालासुधातुषाराणां स योगी कथ्यते बुधैः ॥
Wise men say he is a yogin (one of Self-realization) who sees with equanimity and without distinction, the edge of a sword and a flower garland, poison and nectar, blazing fire and the fall of dew.
असुखैश्च विनालापो गुह्यस्य कथनं तथा ।
विपद्विमोक्षणं चैव मित्रतायाः फलत्रयम् ॥
Chats without any kind of unpleasantness, the (safe) communication of one’s secrets, and the help to escape if one falls into danger are the three good results of friendship.
असूयको दन्दशूको निष्ठुरो वैरकृन्नरः ।
स कृच्छ्रं महदाप्नोति नचिरात् पापमाचरन् ॥
*** ***He that is envious, he that injure others deeply, he that is cruel, he that constantly quarreleth, he that is deceitful, soon meeteth with great misery for practising these sins.
असुहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि ।
सप्रज्ञः प्रणयानन्दहीनो दैवेन लभते सुखम् ॥
asuhṛtsasuhṛccāpi saśatrur mitravānapi ।
saprajñaḥ praṇayānaṃda hīno daivena labhate sukham ॥
One having friends as one destitute of friends, one having foes as one destitute of foes, one having wisdom as one destitute of wisdom, each and every one amongst these, obtains happiness through destiny.
अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलम् ।
आकाशमास्वादयतः कुतस्तु कवलग्रहः ॥
नृपस्य चित्तं कृपणस्य वित्तं मनोरथं दुर्जनमानवानाम्।
स्त्रीणां चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः॥
उत्तमे च क्षणं कोपो मध्यमे घटिकाद्वयम् ।
अधमे स्यादहोरात्रं पापिष्ठे मरणान्तकः ॥ (Kedar)
अविवेको हि सर्वेषाम् आपदां परमं पदम् ।
विवेकरहितो लोके पशुरेव न संशयः ॥
Want of discrimination is the one cause (supreme abode) of all the calamities in this world. People without discernment are no doubt animals.
अल्पाश्च गुणाः स्फीता भवन्ति गुणसमुदितेषु पुरुषेषु ।
श्वेतगिरिशिखरकेष्विव निशासु चन्द्रांशवः पतिताः ॥
Even though the good qualities are small in number, they multiply themselves in persons endowed with merits ; just as the rays of the moon falling at night on the peaks of the Himalayas, white with snow.
तद्भोजनं यद्द्विजभुक्तशेषं तत्सौहृदं यत्क्रियते परस्मिन् ।
सा प्राज्ञता या न करोति पापं दम्भं विना यः क्रियते स धर्मः ॥
- चाणक्य नीति
Only that cooked food is good which remains after feeding the Brahmans . A friendship is real when it is mutual, and that scholarship is real, which deters a person from indulging in sinful deeds. A charitable deed done without hypocrisy (pomp and pride) is the real religious aust
अक्रोधनः क्रोधनेभ्यो विशिष्टस्
तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना
विद्वांस्तथैवाविदुषः प्रधानः ॥
अव्यवस्थितवृत्तानाम् अभिन्नश्रुतिचक्षुषाम् ।
अधर्मार्जितभोगानाम् आशीरप्यहितोचिता ॥
Even the goodwill (blessing) of those who are unsteady in character and whose eyes are not open to the teachings of the Scriptures and who indulge in pleasures acquired by unrighteousness, should be treated as unwholesome.
अकृतस्यागमो नास्ति कृते नाशो न विद्यते ।
अकस्मादेव लोकोऽयं तृष्णे दासीकृतस्त्वया ॥
There can be no gain of what was not done and the result of what was done cannot be destroyed. Oh greed, the world is enslaved by you accidentally.
असंशयं विजानीहि काले सर्वं फलिष्यति ।
धृतिं धारय विस्रब्धं भवेत् सर्वं समञ्जसम् ॥
ŚB 10.10.38
वाणी गुणानुकथने श्रवणौ कथायां
हस्तौ च कर्मसु मनस्तव पादयोर्नः ।
स्मृत्यां शिरस्तव निवासजगत्प्रणामे
दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥
अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा ।
प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥
अमात्सर्यं बुधाः प्राहुर् दानं धर्मे च संयमम् ।
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥
Wise men say that absence of envy is the giving of gifts and concentration on the performance of one’s duties (dharma). He may also become free from envy if he always remains truthful.
अल्पेच्छुर्धृतिमान् प्राज्ञश् छायेवानुगतः सदा ।
आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥
One moderate in his desires, steadfast, wise, ever in close attendance like a shadow, and when commanded will not hesitate ; he may dwell in a king’s palace.
अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् ।
नीचप्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥
Excessive anger, displeasing diction, poverty, enmity in kith and kin, company of the wretched and servitude of the lowly – these are the signs of being in hell, even when embodied (having a bodily form).
Suprabhat Jai Bharat Vandemataram
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥
following are the natural characteristics of good people – patience in trouble, forgiveness/forbearance in prosperity, interest in earning fame, skill in speaking/eloquence in a gathering, valour/bravery in war, habit of listening/attention while studying the scriptures.
अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि ।
क्षुधि कदशनमपि नितरां भोक्तुः सम्पद्यते स्वादु ॥
Everything said at the right moment becomes a subhāṣita, though it may not be a good speech. When (quite) hungry, even worthless food becomes very tasty to the diner.
प्रत्यहं समवेक्षेत नरश्चरितमात्मनः ।
किं नु मे पशुभिस्तुल्यं किं सत्पुरुषैरिति ॥
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ।
तेन त्वदङ्घ्रिकमले रतिं मे यच्छ शाश्वतीम् ॥
अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयगुणसमृद्धिम् ।
निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति ॥
The bee pursues fragrance ; prosperity pursues good statesmanship ; water pursues low level and a man’s mind follows (pursues) fate’s decree
अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् ।
कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥
Steadiness, good health, absence of cruelty, pleasant smell (of the skin), very little discharge of urine and feces, brightness, good humour and a pleasing voice are the first signs of the practice of yoga (deep meditation).
भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तस्य मनो भारः भारोऽनात्मविदो वपुः ॥
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥
शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः ।
स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥ – महाभारत
The learned contrived all the shastras (treatises) to quieten the mind. He alone is cognizant of all shastras, whose mind is calm at all times.
आलिङ्गितो जलधिकन्यकया सलीलं लग्नः प्रियङ्गुलतयेव तरुस्तमालः ।
देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः ॥ ८ ॥
अलसानपि नॄन् रक्षेन्न कृतघ्नान् कदाचन ।
द्विषतोऽपि गुणाः काम्याः सुहृदोऽपि न दुर्गुणाः ॥
न ही कश्चित् विजानाति किं कस्य श्वो भविष्यति।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्॥
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्॥
क्षमा बलमशक्तानां शक्तानाम् भूषणं क्षमा।
क्षमा वशीकृते लोके क्षमया किं न सिद्ध्यति॥
आयुषः क्षण एकोऽपि सर्वरत्नैर्न न लभ्यते।
नीयते स वृथा येन प्रमादः सुमहानहो ॥
नारिकेलसमाकारा दृश्यन्ते हि सज्जनाः।
अन्ये बदरिकाकारा बहिरेव मनोहराः॥
यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति।
तस्य दिवाकरकिरणैर् नलिनीदलम् इव विस्तारिता बुद्धिः॥
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः।
परलोके धनं धर्मं शीलं सर्वत्र वै धनम्॥
अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी ।
बहुवचनमल्पसारं यः कथयति विप्रलापि सः ॥
अतितृष्णा न कर्तव्यातृष्णां नैव परित्यजेत्।
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥
विद्वत्वं च नृपत्वं च नैव तुल्ये कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते॥
पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः।
प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तयः॥
अग्निशेषमृणशेषं शत्रुशेषं तथैव च ।
पुनः पुनः प्रवर्धेत तस्माच्छेषं न कारयेत् ॥
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसञ्ज्ञा प्रदीयते ॥
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः॥**
**
परोऽपि हितवान् बन्धुर् बन्धुरप्यहितः परः।
अहितो देहजो व्याधिर् हितमारण्यमौषधम्॥९१॥
‘शास्त्रेषु निष्ठा सहनश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।
कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुधाः क्रियासु ।’
अर्थस्य पुरूषो दासः स च जातु न कस्यचित् ।
यदर्जनपरा लोके सर्वेऽपि भुवनत्रये ॥
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे।
न तेन दृष्टं कविना समस्तं दारिद्र्यदोषो गुणराशिनाशी॥
Whoever poet has said, “Where there is a collection of merits, a single fault can not be seen like the stigma on the Moon in the moonlight’” has failed to notice that fault in the form of poverty is destroyer of multitude of virtues.
श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषस्लिष्टा।
यस्योभयं साधु स शिक्षकाणां धुरि प्रतीष्ठापयितव्य एव ॥
Some teachers’ knowledge (of the subject) is praiseworthy. Some teachers have the knack of communication and passing on the knowledge to the students. However, the one who has both (these qualities) must be given the higher ranking.
आचारः परमा विद्या आचारः परमा गतिः॥
सदाचारवतां पुंसां सर्वत्राप्यभयं भवेत्॥ ८५.१२९ ॥ linga puranam
यत्रैव यत्रैव मनो मदीयं, तत्रैव तत्रैव तव स्वरूपम्।
यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् ।
सन्तोषो भीरूत्वं षड् व्याघाता महत्त्वस्य ॥
अरत्नालोकसंहार्यम् अवार्यं सूर्यरश्मिभिः ।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥
अरण्ये पुष्पिता वृक्षा दूरस्थाने च बान्धवाः ।
समृद्धेनापि किं तेन यः काले नोपतिष्ठति ॥
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥
उदीरितोऽर्थः पशुना अपि गृह्यते
हयाश् च नागाश् च वहन्ति बोधिताः।
अनुक्तम् अपि ऊहति पण्डितः जनः
परेङ्गित-ज्ञान-फला हि बुद्धयः॥
धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः।
ससर्पे च गृहे वासो मृत्युरेव न संशयः॥
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः.
अमलीमसमच्छिद्रम् अक्रौर्यमतिसुन्दरम् ।
अदेयमप्रतिग्राह्यम् अहो ज्ञानं महाधनम् ॥
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा यान्ति कदाचिदेव ॥
पद्माकरं दिनकरो विकचीकरोति
चन्द्रो विकासयति कैरवचक्रवालम्।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते सुकृताभियोगाः॥
मनोरथानां न समाप्तिरस्ति वर्षायुतेनाप्यथ वापि लक्षैः
पूर्णेषु पूर्णेषु मनोरथानामुत्पत्तयस्सन्ति पुनर्नवानाम् ११६
अमृतस्य प्रवाहैः किं कायक्षालनसम्भवैः ।
चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ॥
अम्भसः प्रसृतीरष्टौ रवावनुदिते पिबेत् ।
वातपित्तकफान् हत्वा जीवेद्वर्षशतं सुखी ॥
If a person drinks eight handfuls of water before sun-rise, he will be free of complaints resulting from the excess of wind, bile and phlegm and live for a full span of hundred years happily.
एक एव सुहृद्धर्मो निधनेऽपि याति यः ।
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ ८ ।
तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः।
स्वभाव एवोन्नतचेतसामयं महान्महत्स्वेव करोति विक्रमम् ॥
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥
धवलयति समग्रं चन्द्रमा जीवलोके
किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।
भवति विदितमेतत्प्रायशः सज्जनानां
परहितनिरतानामादरो नाऽऽत्मकार्ये ॥
कार्या च महदाकाङ्क्षा क्षुद्राकाङ्क्षा कदापि न ।
यथाकाङ्क्षा तथा सिद्धिर्निरीहो नाश्नुते फलम् ॥
अभिमानधनं येषां चिरं जीवन्ति ते नराः ।
अभिमानविहीनानां किं धनेन किमायुषा ॥
अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह ।
त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥
प्रथमवयसि दत्तं तोयमल्पं पिबन्तः
शिरसि निहितभारा नारिकेला नराणाम् ।
उदकममृतकल्पं दद्युराजीवितान्तं - ( शार्ङ्गधर )
नहि कृतमुपकारं साधवो विस्मरन्ति ॥ -सुभषितरत्नाकर
अभिध्यालु परस्वेषु नेह नामुत्र नन्दति ।
तस्मादभिध्या सन्त्याज्या सर्वदाभीप्सता सुखम् ॥
औषधेष्वपि सर्वेषु हास्यं श्रेष्ठं वदन्ति ह ।
स्वाधीनं सुलभं चापि आरोग्यानन्दवर्धनम् ॥
अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिछन्ति मानो हि महतां धनम् ॥
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥
यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति॥
अभ्रच्छाया खलप्रीतिः समुद्रान्ते च मेदिनी ।
अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥
मातेव रक्षति पितेव हिते नियुङ्क्ते
कान्तेव चापि रमयत्यपनीय खेदम् ।
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं
किं किं न साधयति कल्पलतेव विद्या ॥
जाड्यं धियो हरति सिञ्चति वाचि सत्यं,
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं,
सत्सङ्गति कथय किं न करोति पुंसाम्॥
शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरूषः स विद्वान् ।
सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् //
गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः ॥
अमनस्कं गते चित्ते जायते कर्मणां क्षयः ।
यथा चित्रपटे दग्धे दह्यते चित्रसञ्चयः ॥
अन्यायोपार्जितं द्रव्यम् अर्थदूषणमुच्यते ।
अपात्रदानं पात्रार्थ- हरणं तस्य लक्षणम् ॥
कर्मणा मनसा वाचा परपीडां करोति यः ।
तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥
शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् ।
आशयच्चामृतं देवान् वेदमध्यापयद्विधिम् ।
आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥
Translation – That Lord Viṣṇu is my goal who i) made (even) enemies go to heaven, ii) made his own (devotees) understand the meaning of the Vedas, iii) made the gods consume nectar, iv) made Lord Brahma study the Veda and v) made the Earth sit on water.
>>>>> gd2md-html alert: inline drawings not supported directly from Docs. You may want to copy the inline drawing to a standalone drawing and export by reference. See Google Drawings by reference for details. The img URL below is a placeholder.
(Back to top)(Next alert)
>>>>>
सत्सङ्गाद्भवति हि साधुता खलानां
साधूनां न हि खलसङ्गात्खलत्वम् ।
आमोदं कुसुमभवं मृदेव धत्ते
मृद्रन्धं न हि कुसुमानि धारयन्ति ॥
भूमौ स्खलितपादानां भूमिरेवावलम्बनम्।
त्वयि जातापराधानां त्वमेव शरणम्प्रभो॥
अनित्यत्वे कृतमतिर् म्लानमाल्येन शोचति ।
नित्यत्वे कृतबुद्धिस्तु भिन्नभाण्डेऽनुशोचति ॥
When the mind is conscious of transitoriness, it is not saddened by the withering garland. But the mind which takes things to be eternal, even a broken pot makes it grieved.
मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिस् तुरगास्तुरङ्गैः।
मूर्खाश्च मूर्खैः सुधियः सुधीभिः
समान-शील-व्यसनेषु सख्यम्॥
अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये ।
पशुतैव वरं तेषां प्रत्यवायाप्रवर्तनात् ॥
अपृष्टोऽपि हितं ब्रूयात् यस्य नेच्छेत् पराभवम् ।
एष एव सतां धर्मो विपरीतमतोऽन्यथा ॥
If you don’t want a known person to fail in his act, you should counsel him if he seeks it. If he happens to be your friend, you should voluntarily give him the counsel even if he does not seek it from you. This is the quality of a good man.
Remaining without giving him your counsel with the thought that you would counsel him when he seeks it or why should you volunteer it when it is not asked for, is the quality of the bad man.
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।
तथा पुरुषकारेण विना दैवन्न सिद्ध्यति॥
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥
हीनसेवा न कर्तव्या । कर्तव्यो महदाश्रयः ।
पयोऽपि शौण्डिकहस्ते । वारुणीत्यभिधीयते । ।
अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ।
नाश्रया न शोभन्ते पण्डिता वनिता लताः ॥
अनवस्थितचित्तस्य न जने न वने सुखम् ।
जने दहति संसर्गो वने सङ्गविवर्जनम्
अनर्घ्याण्यपि रत्नानि लभ्यन्ते विभवैः सुखम् ।
दुर्लभो रत्नकोट्यापि क्षणोऽपि हि गतायुषः ॥
मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा। क्रोधश्च दृढवादश्च परवाक्येष्वनादरः॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते । अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथा ॥
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः
सर्वभूतदयापुष्पं क्षमापुष्पं विशेषतः ।
ज्ञानपुष्पं तपःपुष्पं शान्तिपुष्पं तथैव च
सत्यमष्टविधं पुष्पं विष्णोः प्रीतिकरं भवेत् ॥
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥
अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते ।
ग्राहोऽल्पीयानपि जले गजेन्द्रमपि कर्षति ॥
शोको नाशयते धैर्यं शोको नाशयते श्रुतम्।
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः॥
सदा वक्रस्सदारुष्टः सदा पूजामपेक्षते ।
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥
अद्भिर् गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिं ज्ञानेन शुध्यति ॥
- मनुस्मृति, अध्याय ५, श्लोक १०९
अर्थ : जल मात्र स्थूल देहको शुद्ध करता है, सत्य मनको पवित्र करता है, विद्या और तप जीवात्माको शुद्ध करती है और ज्ञान बुद्धिको शुद्ध करती है ।
Meaning : Water purifies only the body; Truth purifies the mind; knowledge and spiritual practice purifies the soul whereas learning purifies the intellect.
परिग्रहो हि दुःखाय यद्यत्प्रियतमं नृणाम्।
अनन्तं सुखमाप्नोति तद्विद्वान् यस्त्वकिञ्चनः॥ Bhagavatam
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ॥
- नीतिशतक
Long to begin with, but diminishes later; (then again), it is small to start off but increases gradually - just the way a shadow differs in the first half of the day from the second half (of the day), so does the friendship of a wicked person vs. a good person.
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
साधवो न हि सर्वत्र चन्दनं न वने वने॥
दुर्लभं त्रयमेवैतत् दैवानुग्रहहेतुकम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ (Vivekachudamani)
वित्ते त्यागः, क्षमा शक्तौ दुःखे दैन्यविहीनता ।
निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥
आशाया ये दासास् ते दासास्सर्वलोकस्य ।
आशा येषां दासी तेषां दासायते लोकः ॥
न लभन्ते विनोद्योगं जन्तवः सम्पदां पदम् ।
सुराः क्षीरोदविक्षोभम् अनुभूयामृतं पपुः ॥
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम् ॥
महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥
Company of great person is always beneficial. (see how) drop of water on lotus leaf appears like a pearl. (i.e.. it gains status similar to pearl) Here Subhashitkar explains how useful it is to be with great persons.
दानेन तुल्यो विधिरास्ति नान्यो लोभो च नान्योस्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं च नान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥
सम्पूर्णकुम्भो न करोति शब्दम्
अर्धो घटो घोषमुपैति नूनम् ।
विद्वान्कुलीनो न करोति गर्वं
मुढास्तु जल्पन्ति गुणैर्विहीनाः ॥
को हि जानाति कस्याद्य, मृत्युकालो भविष्यति ।
युवैव धर्मशीलः स्यात्, अनित्यं खलु जीवितम् ॥
बाल्ये नष्टविवेको विषय-सुखास्वाद-लम्पटस्तरुणः ।
परतो जातविवेको वृद्धोऽशक्तः किमाप्नुयात्सिद्धिम् ॥३७
यदमी दशन्ति दशना रसना तत्स्वादमनुभवति ।
प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलन्त्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥
चिन्तायाश्च चितायाश्च बिन्दुमात्रं विशेषता ।
सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥
- चाणक्य नीति
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥
- हितोपदेश, मित्रलाभ
व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का,
का जातिर्विदुरस्य यादवपतेरुग्रस्य किं पौरुषम् ।
कुब्जायाः किमु नाम रूपमधिकं किं तत्सुदाम्नो धनं,
भक्त्या तुष्यति केवलं न च गुणैर्भक्तिप्रियो माधवः ॥
यावत्स्वस्थो ह्ययं देहः यावन्मृत्युश्च दूरतः ।
तावदात्महितं कुर्यात् प्राणान्ते किं करिष्यति ॥
यथा धेनुसहस्रेषु वत्सो गच्छति मातरम्।
तथा यच्च कृतं कर्म कर्तारमनुगच्छति॥
पठन्ति चतुरो वेदान् धर्मशास्त्राण्यनेकशः ।
आत्मानं नैव जानन्ति दर्वी पाकरसं यथा ॥
दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना ।
अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति॥
सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।
स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ।
मनस्यन्यत् वचस्यन्यत् कर्मण्यन्यत् दुरात्मनाम् ॥
यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥
- चाणक्यनीति
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः ।
पण्डितानाञ्च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥
नीतिज्ञा नियतिज्ञा वेदज्ञाऽपि भवन्ति शास्त्रज्ञाः ।
ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥
- वैराग्यशतक, अप्पय्यदीक्षित
क्षमया दयया प्रेम्णा सूनृतेनार्जवेन च।
वशीकुर्याज्जगत्सर्वं विनयेन च सेवया॥
दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा।
सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः॥ (भागवतम्)
तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम्।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी॥
अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् ।
नीचप्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे ऐरण्डोऽपि द्रुमायते ॥
श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः ।
समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥
- योगवासिष्ठ, वैराग्य
A wealthy man who is not culpable, a valiant man who is not blusterous, a leader who is not prejudiced - these 3 people are rare to find.
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥
नाभिषेको न संस्कारः सिंहस्य क्रियते वने।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता॥
अकृत्वा परसन्तापम् अगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां मार्गं यत्स्वल्पमपि तद्बहु ॥
- शार्ङ्गधरपद्धतिर्
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥
अन्नदानं परं दानं विद्यादानमतः परम्।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥
उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः ।
न विना विदुषां वाक्यैर् नश्यत्याभ्यन्तरं तमः ॥
- सभारञ्जन शतक
प्रातरुत्थानं युद्धं च संविभागं च बन्धुषु ।
स्वयमाक्रम्य भुक्तं च शिक्षेच्चत्वारि कुक्कुटात् ॥
- चाणक्य नीति
Waking up in the morning, belligerence, sharing with kin, feeding oneself - learn these 4 (attributes) from a rooster.
Waking up early, readiness to fight, sharing, and not ignoring one’s needs - 4 precious lessons anyone could use. A rooster possesses all of these!
तुष्यन्ति भोजने विप्रा मयूरा घनगर्जिते ।
साधवः परसम्पत्तौ खलाः परविपत्तिषु ॥
- चाणक्यनीतिः
कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः ।
वचोविन्यासवैचित्र्यमात्रमत्र विचार्यताम् ॥
- न्यायमञ्जरी
How can we speculate about a new fact? Only, the same can be said in a variety of ways! Reflect on this.
Up to 28th Dec.2024