+सुभाषित-रत्न-भाण्डागारम्

पाठोऽत्र +आदिशिलाजालक्षेत्राच्च जैनग्रन्थालयजालक्षेत्राच्च archive-जालक्षेत्राच्च लब्धः। स्वटिप्पणिभिश् चालङ्कृतः।

ग्रन्थसमाप्तिः

इति विरचितबन्धा पद्धतिर्या मयेयं सकलगुणिगणानां प्रीतये सास्तु नित्यम्।
विपुलविमलदीव्यत्सत्कलानां निधानं तरुणतरणिरुद्धा विद्विषत्कौशिकानाम्॥
अस्याभ्यासाद्ग्रन्थवर्यस्य शिष्यः सर्वज्ञः स्याद्विस्फुरच्चारुबुद्धिः।
अर्थं कामं वेत्ति धर्मं च मोक्षं निःसंदेहं शीलितुं पण्डितोऽपि॥
शास्त्राब्धिं सकलं विलोड्य नितरां ग्रन्थः कृतोऽयं मया
लोकानन्दकरः समस्तसुकलासंतानजैवातृकः।
अस्यास्वाद्य सुभाषितामृतरसानानन्दपूर्णान्तराः
सन्तः संप्रति नाकवासनिरतान्देवान्हसन्तु ध्रुवम्॥

विज्ञप्तिः

दृष्टं किमपि लोकेऽस्मिन्न निर्दोषं न निर्गुणम्।
आवृणुध्वमतो दोषान्विवृणुध्वं गुणान्बुधाः॥

आशीर्वचनम्

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्॥