०७ विचारः

मृत्योर्बिभेषि किं मूढ भीतं मुञ्चति किं यमः।
अजातं नैव गृह्णाति कुरु यत्नमजन्मनि॥ 231 ॥
अधीत्य चतुरो वेदान् व्याकृत्याष्टादश स्मृतीः।
अहो श्रमस्य वैफल्यमात्मापि कलितो न चेत्॥ 232 ॥
आदरेण यथा स्तौति धनवन्तं धनेच्छया।
तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात्॥ 233 ॥
स्वमस्तकसमारूढं मृत्युं पश्येज्जनो यदि।
आहारोऽपि न रोचेत किमुतान्या विभूतयः॥ 234 ॥
विवेक एव व्यसनं पुंसां क्षपयितुं क्षमः।
अपहर्तुं समर्थोऽसौ रविरेव निशातमः॥ 235 ॥
यस्मिन् वस्तुनि ममता मम तापस्तत्र तत्रैव।
1यत्रैवाहमुदासे तत्र मुदासे स्वभावसन्तुष्टः॥2॥ 236 ॥

मुण्डी जटी वल्कलवांस्त्रिण्दडी कषायवासा व्रतकर्शिताङ्गः।
त्यक्तैहिको वा यदि नाप्ततत्त्वस्तदा तु तस्योभयमेव नष्टम्॥ 237 ॥
जडास्तपोभिः शमयन्ति देहं बुधा मनश्चापि विकारहेतुम्।
श्वा मुक्तमस्त्रं दशतीति कोपात्क्षेप्तारमुद्दिश्य हिनस्ति सिंहः॥ 238 ॥
किं ते धनैर्बन्धुभिरेव वा किं दारैश्च किं ब्राह्मण यो मरिष्यति।
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च॥ 239 ॥
धर्मं प्रसङ्गादपि नाचरन्ति पापं प्रयत्नेन समाचरन्ति।
आश्चर्यमेतद्धि मनुष्यलोकेऽमृतं परित्यज्य विषं पिबन्ति॥ 240 ॥
बालिकारचितवस्त्रपुत्रिकाक्रीडनेन सदृशं सुरार्चनम्।
यत्र शाम्यति मनो न निश्चलं स्फीतवज्जलधिमज्जनामलम्॥ 241 ॥
केचिद्वदन्ति धनहीनजनो जघन्यः केचिद्वदन्ति गुणहीनजनो जघन्यः।
व्यासो वदत्यखिलवेदविशेषविज्ञो नारायणस्मरणहीनजनो जघन्यः॥ 242 ॥
भिक्षाशनं भवनमायतनैकदेशः शय्या भुवः परिजनो निजदेहभारः।
वासश्च जीर्णपटखण्डनिबद्धकन्था हा हा तथापि विषयान्न जहाति चेत॥ 243 ॥
केनाप्यनर्थरुचिना कपटं प्रयुक्तमेतत्सुहृत्तनयबन्धुमयं विचित्रम्।
कस्यात्र कः परिजनः स्वजनो जनो वा स्वन्प्रेन्द्रजालसदृशः खलु जीवलोकः॥ 244 ॥
अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम्।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ॥ 245 ॥
यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारमयमखिलमेतज्जगदिति।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते॥ 246 ॥
परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते॥ 247 ॥
विशीर्णः प्रारम्भो वपुरपि जराव्याधिविधुरं गतं दूरे विप्रस्वजनभरणं वाञ्छितमपि।
इदानीं व्यामोहादहह विपरीते हतविधौ विधेयं यत्तत्त्वं स्फुरति मम नाद्यापि हृदये॥ 248 ॥
शुचां पात्रं धात्री परिणतिरमेध्यप्रचयभूरयं भूतावासो विमृश कियतीं याति न दशाम्।
तदस्मिन्धीराणां क्षणमपि किमास्थातुमुचितं खलीकारः कोऽयं यदहमहमेवेति रभसः॥ 249 ॥
यदा पूर्वं नासीदुपरि च तथा नैव भविता तदा मध्यावस्थाक्षणपरिचयो भूतनिचयः।
अतः संयोगेऽस्मिन्परिणतिवियोगे च सहजे किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः॥ 250 ॥
स्थिरापायः कामः प्रणयिषु सुखं स्थैर्यविमुखं महाभोगा रोगाः कुवलयदृशः सर्पसदृशः।
महावेशः क्लेशः प्रकृतिचपला श्रीरपि खला यमः स्वैरी वैरी तदपि न हितं कर्म विहितम्॥ 251 ॥
विवेकः किं सोऽपि स्वरसजनिता यत्र न कृपा स किं योगो यस्मिन्न भवति परानुग्रहरसः।
स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः श्रुतं किं तद्वा स्यादुपशमफलं यन्न भवति॥ 252 ॥
दिवसरजनीकूलच्छेदैः पतद्भिरनारतं वहति निकटे कालस्रोतः समस्तभयावहम्।
इह हि पततां नास्त्यालम्बो न चापि निवर्तनं तदिह महतां कोऽयं मोहो यदेष मदाविलः॥ 253 ॥
माने म्लायिनि खण्डिते च वसुनि व्यर्थं प्रयातेऽर्थिनि क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने।
युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयःपूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे निवासः क्वचित्॥ 254 ॥
अद्वैतोक्तिपटून्बटूनपि वयं बालान्नमस्कुर्महे ये तु द्वन्द्ववदास्तदीयशिरसि न्यस्याम वामं पदम्।2
सिंहः स्वीयशिशून्निवेश्य हृदये सान्द्रादरादामृशत्यावेशेन भिनत्ति सम्भ्रमपदं मत्तेमकुम्भस्थलम्॥ 255 ॥

क्लेशत्यागकृतेऽर्पितेन करणव्यूहेन देहेन च स्वानर्थं बत जन्तुरर्जयति चेन्मन्तुर्नियन्तुः कुतः।3
शस्त्रे शत्रुजयाय नैजगुरुणा दत्तेऽथ तेनैव चेत्पुत्रो हन्ति निजं वपुः कथय रे तत्रापराधी तु कः॥ 256 ॥

बीभत्साः प्रतिभान्ति किं न विषयाः किं तु स्पृहायुष्मती देहस्यापचयो मृतौ निविशते गाढो गृहेषु ग्रहः।
ब्रह्मोपास्यमिति स्फुरत्यपि हृदि व्यावर्तिका वासना का नामेयमतर्क्यहेतुगहना दैवी सतां यातना॥ 257 ॥
नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति।
यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम्॥ 258 ॥
रेतःशोणितयोरियं परिणतिर्यद्वर्ष्म तत्राभवन्मृत्योरास्पदमाश्रयो गुरुशुचां रोगस्य विश्रामभूः।
जानन्नप्यवशी विवेकविरहान्मज्जन्निविद्याम्बुधौ शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति॥ 259 ॥
इन्द्रस्याशुचिशूकरस्य च सुखे दुःखे च नास्त्यन्तरं स्वेच्छाकल्पनया तयोः खलु सुधा विष्ठा च काम्याशनम्।
रम्भा चाशुचिशूकरी च परमप्रेमास्पदं मृत्युतः सन्त्रासोऽपि समः स्वकर्मगतिभिश्चान्योन्यभावः समः॥ 260 ॥
अर्थप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयं न वेत्ति विभवं स्वं जीवितं काङ्क्षति।
उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं प्राणानां च धनस्य चाधमधियामन्योन्यभावः पणः॥ 261 ॥
अग्रे कस्यचिदस्ति कञ्चिदभितः केनापि पृष्ठे कृतः संसारः शिशुभावयौवनजराभारावतारादयम्।
बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवतां वृद्धस्त्वं विषयाद्बहिष्कृत इव व्यावृत्य किं पश्यसि॥ 262 ॥
येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणां येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा।
येषां श्रीकृष्णलीलाललितगुणरसे सादरौ नैव कर्णौ धिक्तान् धिक्तान् धिगेतान् कथयति सततं कीर्तनस्थो मृदङ्गः॥ 263 ॥


  1. उदासीनो भवामि. ↩︎

  2. हर्षेण तिष्ठामि. ↩︎ ↩︎

  3. अपरा) परमेश्वरस्य. ↩︎