जन्मैव 1व्यर्थथां नीतं भवभोगप्रलोभिना।
2काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया।3॥ 205 ॥
तरत्तरलतृष्णेन किमिवास्मिन्धरातले।
मया न कृतमज्ञेन पश्चात्तापाभिवृद्धये॥ 206 ॥
यातं यौवनमधुना वनमधुना शरणमेकमस्माकम्।
स्फुरदुरुहारमणीनां हा रमणीनां गतः कालः॥ 207 ॥
धनवानिति हि मदो मे किं गतविभवो विषादमुपयामि।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम्॥ 208 ॥
भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः।
कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः॥ 209 ॥
पुनः प्रभातं पुनरेव शर्वरी पुनः शशाङ्कः पुनरुद्यते रविः।
कालस्य किं गच्छति याति यौवनं तथापि लोकः कथितं न बुध्यते॥ 210 ॥
न चाराधि राधाधवो माधवो वा न वापूजि पुष्पादिभिश्चन्द्रचूडः।
परेषां धने धन्धने नीतकालो दयालो यमालोकने कः प्रकारः॥ 211 ॥
न चाकारि कामारिकंसारिसेवा न वा स्वेष्टमाचेष्टितं हन्त किञ्चित्।
मनः प्रेयसीरूपपङ्के निमग्नं किमन्ते कृतान्ते मयावेदनीयम्॥ 212 ॥
4चित्तभूवित्तभूमत्तभूपालकोपासनावासनायासनानाभ्रमैः।
साधुता सा धुता 5साधिता साधिता किं तया चिन्तया चिन्तयामः शिवम्॥ 213 ॥
अजानन्दाहार्तिं पतति शलभस्तीव्रदहने न मीनोऽपि ज्ञात्वा बडिशयुतमश्नाति पिशितम्।
विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा॥ 214 ॥
चिरं ध्याता 6रामा क्षणमपि न 7रामप्रतिकृतिः परं पीतं रामाधरमधु न 8रामाङ्घ्रिसलिलम्।
नता रुष्टा रामा यदरचि न रामाय 9विनतिर्गतं मे जन्माग्र्यं न 1दशरथजन्मा परिगतः॥ 215 ॥
कुचौ तु परिचर्चितौ परिचितं चिरं चन्दनं कृताः परमुरोजयोः परिसरेऽरविन्दश्रियः।
स्तुतिर्नतिरपि स्मृतिर्वरतनोः कृतैवादरादिदं तु निखिलं मया विरचितं पुनर्नेश्वरे॥ 216 ॥
नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता खङ्गाग्रैः करिकुम्भपीठदलनैर्नाकं2 न नीतं यशः।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये तारुण्यं गतमेव निष्फलमहो शीन्यालये दीपवत्॥ 217 ॥
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये3 स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे 4कुठारा वयम्॥ 218 ॥
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः।
ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चितम्॥ 219 ॥
धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्केशयाः।
अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते॥ 220 ॥
मन्त्रोद्भावितदैवतैर्न विधिवद्दासीकृताः सिद्धयो योगाभ्याससमाहितैरनुदिनं तीर्णो न मोहार्णवः।
क्षुभ्यत्क्षुद्रनरेन्द्रदत्तविगलत्सम्पल्लवोल्लासितैर्धिङ्मूढैरिव पण्डितैरपि बलात्कालः कथं नीयते॥ 221 ॥
धावित्वा सुसमाहितेन मनसा दूराच्छिरो नामितं भूपानां प्रतिशब्दकैरिव चिरं प्रोद्धुष्टमिष्टं वचः।
द्वाराध्यक्षनियन्त्रणापरिभवप्रम्लानवक्त्रैः स्थितं भ्रातः किं करवाम मुञ्चति मनो नाद्याप्यविद्याग्रहम्॥ 222 ॥
नो धर्माय ततो न तत्र निरता नार्थाय येनेदृशाः कामोऽप्यर्थवतां तदर्थमपि नो मोक्षः क्वचित्कस्यचित्।
तत्के नाम वयं वृथैव घटिता ज्ञातं पुनः कारणं जीवन्तोऽपि मृता इति प्रवदतां शब्दार्थसंसिद्धये॥ 223 ॥
6 ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो 7दुष्करं यन्मुञ्चन्त्युपभोगवन्त्यपि धनान्येकान्ततो8 निस्पृहाः9।
न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो वाञ्छामात्रपरिग्रहाण्यपि परित्यक्तुं न शक्ता वयम्॥ 224 ॥
विद्या 1नाधिगता कलङ्करहिता वित्तं च नोपार्जितं शुश्रूषापि 2समाहितेन मनसा 3पित्रोर्न सम्पादिता।
आलोलायतलोचना युवतयः स्वप्नेऽपि नालिङ्गिताः कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेरितः॥ 225 ॥
दन्तैः प्रस्थितमग्रतस्तदनु भोः शौक्ल्यं धृतं मूर्धजैः कर्णाभ्यामपि वाग्विलासरचना कष्टात्समाकर्ण्यते।
नेत्राभ्यामपि चापलं युवतिषु त्यक्तं गतं यौवनं सार्थेऽस्मिंश्चलिते कथं पुनरहं यातास्मि तच्चिन्तये॥ 226 ॥
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः।
व्यापारैः पुनरुक्तभुक्तविषयैरेवंविधेनामुना संसारेण कदर्थिताः कथमहो मोहान्न लज्जामहे॥ 227 ॥
कृत्वा शस्त्रविभीषिकां कतिपयग्रामेषु दीनाः प्रजा मथ्नन्तो विटजल्पितैरुपहताः क्षोणीभुजस्ते किल।
विद्वांसोऽपि वयं किल त्रिजगतीसर्गस्थितिव्यापदामीशस्तत्परिचर्यया न गणितो यैरेष नारायणः॥ 228 ॥
क्षोणीपर्यटनं श्रमाय विदुषां वादाय विद्यार्जिता मानध्वंसनहेतवे परिचितास्ते ते धराधीश्वराः।
विश्लेषाय सरोजसुन्दरदृशामास्ये कृता दृष्टयः कुज्ञानेन मया प्रयागनगरे नाराधि नारायणः॥ 229 ॥
देशे देशे दुराशाकवलितहृदयो निष्कृपाणां नृपाणां धावं धावं पुरस्तादतिकुमतिरहं जन्म सम्पादयामि।
आधायाधाय राधाधव तव चरणाम्भोजमन्तः समाधावन्येऽरण्येऽतिपुण्ये पुलकितवपुषो वासरान् वाहयन्ति॥ 230 ॥