०५ कालचरितम्

मातुलो यस्य गोविन्दः पिता यस्य धनंजयः।
सोऽपि कालवशं प्राप्तः कालो हि दुरतिक्रमः॥ 189 ॥
पुरन्दरसहस्राणि चक्रवर्तिशतानि च।
निर्वापितानि कालेन प्रदीपा इव वायुना॥ 190 ॥
अद्यैव हसितं गीतं पठितं यैः शरीरिभिः।
अद्यैव ते न दृश्यन्ते कष्टं कालस्य चेष्टितम्॥ 191 ॥
म्रियमाणं मृतं बन्धुं शोचन्ति परिदेविनः।
आत्मानं नानुशोचन्ति कालेन कवलीकृतम्॥ 192 ॥
ब्रह्मा विष्णुदिने याति विष्णू रुद्रस्य वासरे।
ईश्वरस्य तथा सोऽपि कः कालं लङ्घितुं क्षमः॥ 193 ॥
अप्सु 1प्लवन्ते पाषाणा मानुषा घ्नन्ति राक्षसान्।
कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः॥ 194 ॥

2अशनं मे वसनं मे जाया मे बन्धुवर्गो मे।3
4इति मेमेकुर्वाणं कालवृको हन्ति पुरुषाजम्॥5॥ 195 ॥

प्राप्ता जरा यौवनमप्यतीतं बुधा यतध्वं परमार्थसिद्ध्यै।
आयुर्गतप्रायमिदं यतोऽसौ विश्राम्य विश्राम्य न याति कालः॥ 196 ॥
भगीरथाद्याः सगरः ककुत्स्थो दशाननो राघवलक्ष्मणौ च।
युधिष्ठिराद्याश्च बभूवुरेते सत्यं क्व याता बत ते नरेन्द्राः॥ 197 ॥
आराध्य भूपतिमवाप्य ततो धनानि भुञ्जामहे वयमिह प्रसभं सुखानि।
इत्याशया बत विमोहितमानसानां कालो जगाम मरणावधिरेव पुंसाम्॥ 198 ॥
यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते।
इत्थं चेमौ रजनिदिवसौ दोलयन्द्वावि6वाक्षौ कालः काल्या 7भुवनफलके क्रीडति 8प्राणिसारैः॥ 199 ॥

भ्रातः कष्टमहो महान्स नृपतिः 9सामन्तचक्रं च तत्पार्श्वे सा च 10विदग्धराजपरिषत्ताश्चन्द्रबिम्बाननाः।
उद्वृत्तः स च राजपुत्रनिवहस्ते 11बन्दिनस्ताः कथाः सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः॥ 200 ॥

कांश्चित्कल्पशतं कृतस्थितिचयान्कांश्चिद्युगानां शतं कांश्चिद्वर्षशतं तथा कतिपयाञ्जन्तून्दिनानां शतम्।
तांस्तान्कर्मभिरात्मनः प्रतिदिनं संक्षीयमाणायुषः कालोऽयं कवलीकरोति सकलान्भ्रातः कुतः कौशलम्॥ 201 ॥
कालेन क्षितिवारिवह्निपवनव्योमादियुक्तं जगद्ब्रह्माद्याश्च सुराः प्रयान्ति विलयं विद्मो विचारादिति।
पश्यामोऽपि विनश्यतोऽनवरतं लोकाननेकान्मुधा माया मोहमयीं भवप्रणयिनीं नास्थां जहीमो वयम्॥ 202 ॥
12व्योमैकान्तविहारिणोऽपि विहगाः13 सम्प्राप्नुवन्त्यापदं14 बध्यन्ते निपु1णैरगाधसलिलान्मत्स्याः समुद्रादपि।
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि॥ 203 ॥

मांधाता स महीपतिः क्षितितलेऽलङ्कारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः।
अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन्नैकेनापि समं गता वसुमती मुञ्ज त्वया यास्यति॥ 204 ॥


  1. तरन्ति. ↩︎ ↩︎

  2. भोजनम्. ↩︎

  3. वस्त्रम्. ↩︎

  4. काल एव वृकः. ↩︎

  5. पुरुष एवाजः. ↩︎

  6. पाशौ. ↩︎

  7. भुवनमेव फलकः सारीपटस्तस्मिन्. ↩︎

  8. प्राणिन एव सारास्तैः. ↩︎

  9. माण्डलिकमण्डलम्. ↩︎

  10. चतुरसभा. ↩︎

  11. स्तुतिपाठकाः. ↩︎

  12. केवलमाकाशसञ्चारिणः. ↩︎

  13. पक्षिणः. ↩︎

  14. विपत्तिम्. ↩︎