एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः।
स्वप्न एष महाबुद्धे दिनानि त्रीणि पञ्च वा॥ 144 ॥
एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे।
सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते॥ 145 ॥
येषां निमेषोन् मेषाभ्यां जगतां प्रलयोदयौ।
तादृशाः पुरुषा याता मादृशां गणनैव का॥ 146 ॥
गलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि।
मां जीवितनिबद्धाशं विहसिष्यन्ति साधवः॥ 147 ॥
संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे।
आस्थां चेदनुबध्नामि तन्मूर्खो नास्ति मत्परः॥ 148 ॥
येषु येषु दृढं बद्धा भावना दृष्टवस्तुषु।
तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम्॥ 149 ॥
यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम्।
सर्वमेवापवित्रं तद्विनाशामेध्यदूषितम्॥ 150 ॥
नीलोत्पलाभनयनाः परमप्रेमभूषणम्।
हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः॥ 151 ॥
गन्धर्वनगराकारः संसारः क्षणभङ्गुरः।
मनसो वासनैवेयमुभयोर्भेदसाधनम्॥ 152 ॥
गतेनापि न सम्बन्धो न सुखेन भविष्यता।
वर्तमानं क्षणातीतं सङ्गतिः कस्य केन वा॥ 153 ॥
पृथिवी दह्यते यत्र मेरुश्चापि विशीर्यते।
सुशोषं सागरजलं शरीरे तत्र का कथा॥ 154 ॥
इदं युगसहस्रस्य भविष्यदभवद्दिनम्।
तदप्यद्यत्वमापन्नं का कथा मरणावधेः॥ 155 ॥
लब्धास्त्यक्ताश्च संसारे यावन्तो बान्धवास्त्वया।
न सन्ति खलु तावन्त्यो गङ्गायामपि वालुकाः॥ 156 ॥
आसन्नतामेति मृत्युरायुर्याति दिने दिने।
आघातं नीयमानस्य वध्यस्येव पदे पदे॥ 157 ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।
अव्यक्तनिधनान्येव तत्र का परिदेवना॥ 158 ॥
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्।
यद्येकस्त्वरितं यातस्तत्र का परिदेवना॥ 159 ॥
सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः।
किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम्॥ 160 ॥
मातापितृसहस्राणि पुत्रदारशतानि च।
तवानन्तानि यातानि कस्य ते कस्य वा भवान्॥ 161 ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥ 162 ॥
बिडालभक्षिते दुःखं यादृशं गृहकुक्कुटे।
न तादृङ्ममताशून्ये कलविङ्केऽथ मूषके॥ 163 ॥
शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः।
आपातरम्या विषयाः पर्यन्तपरितापिनः॥ 164 ॥
अन्तकः पर्यवस्थाता जन्मिनः सन्ततापदः।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः॥ 165 ॥
1न्यस्तं यथा मूर्ध्नि मुदात्ति मेषो यवाक्षताद्यं बलिकल्पितः सन्।
मृत्युं समीपस्थितमप्यजानन्भुनक्ति मर्त्यो विषयांस्तथैव॥ 166 ॥
नन्दन्ति मन्दाः श्रियमाप्य नित्यं परं विषीदन्ति विपद्गृहीताः।
विवेकदृष्ट्या चरतां नराणां श्रियो न किञ्चिद्विपदो न किञ्चित्॥ 167 ॥
हरिष्यमाणो बहुधा परस्वं करिष्यमाणः सुतसम्पदादी।
धरिष्यमाणोऽरिशिरःसु पादं न स्वं मरिष्यन्तमवैति कोऽपि॥ 168 ॥
उत्तुङ्गवातायनगोपुराणि गृहाणि वित्तानि दुरर्जितानि।
क्षणादधःपातकराणि हन्त चितातिथेरस्य निरर्थकानि॥ 169 ॥
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवनमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ॥ 170 ॥
क्षिपसि शुकं वृषदंशकरदने मृगमर्पयसि मृगादनवदने।
वितरसि तुरगं महिषविषाणे विदधच्चेतो भोगविताने॥ 171 ॥
नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम्।
विद्धि व्याधिव्यालग्रस्तं लोकं शोकहतं च समस्तम्॥ 172 ॥
अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरन्दरदिनकररुद्राः।
न त्वं नाहं नायं लोकस्तदपि किमर्थं क्रियते शोकः॥ 173 ॥
चेतोहरा युवतयः स्वजनोऽनुकूलः सद्बान्धवाः प्रणतिगर्भगिरश्च भृत्याः।
गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः संमीलने नयनयोर्नहि किञ्चिदस्ति॥ 174 ॥
मित्त्रं कलत्रमितरः परिवारलोको भोगैकसाधनमिमाः किल सम्पदो नः।
एकः क्षणः स तु भविष्यति यत्र भूयो नायं न यूयमितरे न वयं न चैते॥ 175 ॥
अहमिह कृतविद्यो वेदिता सत्कलानां धनपतिरहमेको रूपलावण्ययुक्तः।
इति कृतगुणगर्वः खिद्यते किं जनोऽयं कतिपयदिनमध्ये सर्वमेतन्न किञ्चित्॥ 176 ॥
वयं येभ्यो जाताश्चिरतरगता एव खलु ते समं यैः संवृद्धाः स्मरणपदवीं तेऽपि गमिताः।
इदानीमेते स्मः प्रतिदिवसमासन्नपतना गतास्तुल्यावस्थां सिकतिलनदीतिरतरुभिः॥ 177 ॥
यदस्माभिर्दृष्टं क्षणिकमभवत्स्वप्नमिव तत्कियन्तो भावाः स्युः स्मरणविषयादप्यवगताः।
अहो पश्यन् पश्यन् स्वजनमखिलं यान्तमनिशं हतव्रीडं चेतस्तदपि न भवेत्सङ्गरहितम्॥ 178 ॥
अमीषां जन्तूनां कतिपयनिमेषस्थितिजुषां वियोगे धीराणां क इह परितापस्य विषयः।
क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केऽपि स्थातारः सुरगिरिपयोधिप्रभृतयः॥ 179 ॥
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गबुद्बुदसमे सौख्यं कुतः प्राणिनाम्॥ 180 ॥
रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं किंवा प्राणसमासमागमसुखं नैवाधिकं प्रीतये।
किं तूद्भ्रान्तपतत्पतङ्गपवनव्यालोलदीपाङ्कुरच्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः॥ 181 ॥
भूत्वा कल्पशतायुषोऽण्डजभुवः सेन्द्राश्च देवासुरा मन्वाद्या मुनयो महीजलधयो नष्टाः पराः कोटयः।
मोहः कोऽयमहो महानुदयते लोकस्य शोकावहो बन्धोः फेनसमे गते वपुषि यत्पञ्चात्मके पञ्चताम्॥ 182 ॥
आक्रान्तं मरणेन जन्म जरया यात्यु1ल्बणं यौवनं सन्तोषो धनलिप्सया 2शमसुखं प्रौढाङ्गनाविभ्रमैः3।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैरस्थैर्येण विपत्तयोऽप्युपहता ग्रस्तं न किं केन वा॥ 183 ॥
आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः।4
जातं जातमवश्यमाशु विवशं5 मृत्युः6 करोत्या7त्मसात्तत्किं तेन निरङ्कुशेन8 विधिना यन्निर्मितं सुस्थिरम्॥ 184 ॥
भोगा9स्तुङ्गतरङ्गभङ्गचपलाः प्राणाः क्षणध्वंसिनः स्तोकान्येव10 दिनानि यौवनसुखं स्फूर्तिः क्रियास्वस्थिरा।
तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम्॥ 185 ॥11
भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चला आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम्।
लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः॥ 186 ॥
साक्षात्प्रेमावतारः कमलदलदृशो दिक्षु लक्ष्मीरनन्ताः सत्पुत्राः सन्ति मित्त्राण्यपि विषमविपत्सम्विभागी कुटुम्बः।
एतत्सर्वं हि तावत्सुकृतविलसितं दृश्यमानं मनोज्ञं यच्चैतत्क्षिप्रनाशप्रणयि बत मनाङ्म्लायते तेन चेतः॥ 187 ॥
आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीरर्थाः 1संकल्पकल्पा 2घनसमयतडिद्विभ्रमा भोगपूगाः।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः3 प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम्॥ 188 ॥