1कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात् प्रतिक्षणम्।
2मूर्च्छामाप्नोत्युरुक्लेशो गर्भस्थैः क्षुधितैर्भृशम्॥ 138 ॥
कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिरु3ल्बणैः।
मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः॥ 139 ॥
4उल्बेन संवृतस्तस्मिन्नार्द्रैश्च बहिरावृतः।5
आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः॥ 140 ॥
6अकल्पः 7स्वाङ्गचेष्टायां 8शकुन्त इव पञ्जरे।
1अनुच्छ्वसन्स्मरन्पूर्वं2 गर्भे किं नाम विन्दते॥ 141 ॥
3निःसृतोऽहं करिष्यामि सुकृतानीति चिन्तयन्।
4मेदोसृग्दिग्धसर्वाङ्गो जरायुपुटसंवृतः।5॥ 142 ॥
निष्क्रा9मन्भृ10शदुःखार्तो 11रुदन्नुच्चैरधोमुखः।
यन्त्रादिव विनिर्मुक्तः पतत्युत्तानशाय्यथ॥12॥ 143 ॥