नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम्।
यस्य नोद्विजते चेतः शास्त्रं तस्य करोति किम्॥ 115 ॥
कृमयो भस्म विष्ठा वा निष्ठा यस्येयमीदृशी।
स कायः परतापाय युज्यतामिति को नयः॥ 116 ॥
रक्तमांसयमः कायः स्त्रीणां स्पर्शसुखाय नः।
तमेवाश्नन्ति सिंहाद्या रम्यं नास्तीह वस्तुतः॥ 117 ॥
अङ्गमङ्गेन सम्पीड्य मांसं मांसेन तु स्त्रियः।
पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम्॥ 118 ॥
उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे।
क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते॥ 119 ॥
दृष्ट्वैव विकृतं कायं वायुस्पर्शविवर्जितम्।
ये तु निर्व्याजमासक्तास्तेभ्योऽपि बिभिमो वयम्॥ 120 ॥
अन्यत्र भीष्माद्गाङ्गेयादन्यत्र च हनूमतः।
हरिणीखुरमात्रेण चर्मणा मोहितं जगत्॥ 121 ॥
त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ।
विण्मूत्रपूये रमतां कृमीणां कियदन्तरम्॥ 122 ॥
चर्मखण्डं द्विधाभिन्नमपानोद्गारधूपितम्।
ये रमन्ते नरास्तत्र कृमितुल्याः कथं न ते॥ 123 ॥
1सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते॥ 124 ॥
लालां वक्त्रासवं वेत्ति मांसपिण्डौ पयोधरौ।
मांसास्थिकूटं जघनं जनः कामग्रहातुरः॥ 125 ॥
दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः।
कोऽयं जनस्य मोहो ये रिपवस्तेषु सुहृदाशा॥ 126 ॥
केशः काशस्तबकविलासः कायः प्रकटितकरभविलासः।
चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम्॥ 127 ॥
आलोचनं च वचनं च निगूहनं च यासां स्मरन्नमृतवत्सरसं कृशस्त्वम्।
तासां किमङ्ग पिशितास्त्रपुरीषपात्रं गात्रं स्मरन्मृगदृशां न निराकुलोऽसि॥ 128 ॥
प्रादुर्भवन्ति वपुषः कति नाम कीटा यान्यत्नतः खलु तनोरपसारयन्ति।
मोहः क एष जगतो यदपत्यसंज्ञां तेषां विधाय परिशोषयति स्वदेहम्॥ 129 ॥
स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम्।
स्रवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं परं निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम्॥ 130 ॥
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि क्षुधार्तः सञ्शालीन्कवलयति मांसाज्यकलितान्।
प्रदीप्ते कामाग्नौ सुदृढतरमाश्लिष्यति वधूं प्रतीकारं व्याधः सुखमिति विपर्यस्यति जनः॥ 131 ॥
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो व्रणी पूयक्लिन्नः कृमिकुलशतैराचिततनुः।
क्षुधाक्षामो जीर्णः पिठरककपालावृतगलः शुनीमन्वेति श्वा हतमपि निहन्त्येव मदनः॥ 132 ॥
श्रियो दोलालोला विषयजरसाः प्रान्तविरसा विपद्गेहं देहं महदपि धनं भूरि निधनम्।
बृहच्छोको लोकः सततमबला दुःखबहलास्तथाप्यस्मिन् घोरे पथि बत रता हन्त कुधियः॥ 133 ॥
समाश्लिष्यत्युच्चैर्घनपिशितपिण्डं1 स्तनधिया मुखं लालाक्लिन्नं पिबति 2चषकं 3सासवमिव।
अमेध्यक्लेदार्द्रे पथि च रमते स्पर्शरसिको महामोहान्धानां किमिव रमणीयं न भवति॥ 134 ॥
बाला मामियमिच्छतीन्दुवदना सानन्दमुद्वीक्षते नीलेन्दीवरलोचना पृथुकुचोत्पीडं परीरप्सते।
का त्वामिच्छति का च पश्यति पशो मांसास्थिभिर्निर्मिता नारी वेद न किञ्चिदत्र स पुनः पश्यत्यमूर्तः पुमान्॥ 135 ॥
आस्यं यस्याः सुधांशुं कलयति नयनाभ्यां जितः पुंसमूहो कान्त्या विद्युत् कुचाभ्यां तरुणजलरुहे निर्जितेऽस्याः सुधांशुम्।
कुष्टं दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहिव्याप्तं तन्मक्षिकाभिर्गतिरिति वपुषः कुत्सिता नास्ति लोके॥ 136 ॥
क्वैतद्वक्त्रारविन्दं क्व तदधरमधु क्वायतास्ते कटाक्षाः क्वालापाः कोमलास्ते क्व च मदनधनुर्भङ्गुरो भ्रूविलासः।
इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं रागान्धानामिवोच्चैरुपहसति महामोहजालं कपालम्॥ 137 ॥