०१ वैराग्यम्

को देशः कानि मित्त्राणि कः कालः कौ व्ययागमौ।
कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः॥ 1 ॥
पुत्रमित्त्रकलत्रेषु सक्ताः सीदन्ति जन्तवः।
सरः पङ्कार्णवे मग्ना जीर्णा वनगजा इव॥ 2 ॥
मन्ये मायेयमज्ञानं यत्सुखं स्वजनादपि।
निदाघवारणायालं निजच्छाया न कस्यचित्॥ 3 ॥
विपत्प्रशान्त्यै सेव्यन्ते यदि कष्टेन भूभृतः।
तत्करिष्यति कष्टापि विपत्किमधिकं ततः॥ 4 ॥
मितमायुर्वयोऽनित्यं नैति यातं कदाचन।
परामृशन्ति तदपि न भवं भोगलोलुपाः॥ 5 ॥
निःस्नेहो याति निर्वाणं स्नेहोऽनर्थस्य कारणम्।
निःस्नेहेन प्रदीपेन यदेतत्प्रकटीकृतम्॥ 6 ॥
अशीमहि वयं भिक्षामाशावासो वसीमहि।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः॥ 7 ॥
यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान्।
तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः॥ 8 ॥
प्रचण्डवासनावातैरुद्धूता नौर्मनोमयी।
वैराग्यकर्णधारेण विना रोद्धुं न शक्यते॥ 9 ॥
रागिण्यपि विरागिण्यः स्त्रियस्तासु रमेत कः।
अहं च कलये मुक्तिं या विरागिणि रागिणि॥ 10 ॥
लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः।
तदा सुधास्पदमभूदधुना तु ज्वरो महान्॥ 11 ॥
पूरयित्वार्थिनामाशां प्रियं कृत्वा द्विषामपि।
पारं गत्वा श्रुतौघस्य धन्या वनमुपासते॥ 12 ॥
पुत्रदारादिसंसारः पुंसां सम्मूढचेतसाम्।
विदुषां शास्त्रसंसारः सद्योगाभ्यासविघ्नकृत्॥ 13 ॥
गतः कामकथोन्मादो गलितो यौवनज्वरः।
गतो मोहश्च्युता तृष्णा कृतं 1पुण्याश्रमे मनः॥ 14 ॥

वनान्यमूनि न गृहाण्येता नद्यो न योषितः।
द्रुमा इमे न दायादास्तन्मे नन्दति मानसम्॥ 15 ॥
शान्तिकन्थालसत्कण्ठो मनःस्थालीमिलत्करः।
त्रिपुरारिपुरद्वारि कदाहं मोक्षभिक्षुकः॥ 16 ॥
उद्घाटितनवद्वारे पञ्जरे 2विहगोऽनिलः।
यत्तिष्ठति तदाश्चर्यं प्रयाणे विस्मस्यः कुतः॥ 17 ॥

निर्विवेकतया3 बाल्यं4 कामोन्मादेन यौवनम्।
वृद्धत्वं विकलत्वेन सदा सोपद्रवं नृणाम्॥ 18 ॥

प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया।
तृप्ताः कामेन बाध्यन्ते प्राणिनो निशि निद्रया॥ 19 ॥
5गतसारेऽत्र संसारे सुखभ्रान्तिः शरीरिणाम्।
लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः॥ 20 ॥

दिनमेकं शशीपूर्णः क्षीणस्तु बहुवासरान्।
सुखाद्दुःखं सुराणामप्यधिकं का कथा नृणाम्॥ 21 ॥
न विषयभोगो भाग्यं योग्यं खलु यत्र जन्तुमात्रमपि।
ब्रह्मेन्द्ररुद्रमृग्यं भाग्यं विषयेषु वैराग्यम्॥ 22 ॥
पाषाणखण्डेष्वपि रत्नबुद्धिः कान्तेति धीः शोणितमांसपिण्डे।
पञ्चात्मके वर्ष्मणि चात्मभावो जयत्यसौ काचन मोहलीला॥ 23 ॥
त्रय्यन्तसिद्धाञ्जननिर्मलाक्षैस्तपोधनैरप्यनवेक्षितं यत्।
अवेक्ष्यते धाम तदेव काश्यामात्यन्तिकेनाक्षिनिमीलनेन॥ 24 ॥
कुटुम्बचिन्ताकुलितस्य पुंसः कुलं च शीलं च गुणाश्च सर्वे।
अपक्वकुम्भे निहिता इवापः प्रयान्ति देहेन समं विनाशम्॥ 25 ॥
सुरमन्दिरतरुमूलनिवासः शय्या भूतलमजिनं वासः।
सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः॥ 26 ॥
निखिलं6 जगदेव 7नश्वरं पुनरस्मिन्नितरां 8कलेवरम्।
अथ तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः॥ 27 ॥

मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः।
9श्वपचा10त्मभुवोः किमन्तरं मम भूयात्परमात्मनि स्थितिः॥ 28 ॥

11नवनीलमेघरुचिरः परः पुमानवनीमवाप्य धृतगोपविग्रहः12
नवनीयकीर्तिरमरैरपि स्वयं नवनीतभिक्षुरधुना स चिन्त्यते॥ 29 ॥

सार्वबौमभवनं वनवासो निस्वभावभवभावनया ते।
बालिशो हि विषयेन्द्रियचौरैर्मुष्यते स्वभवने च वने च॥ 30 ॥
इतो न किञ्चित्परतो न किञ्चिद्यतो यतो यामि ततो न किञ्चित्।
विचार्य पश्यामि जगन्न किञ्चित्स्वात्मावबोधादधिकं न किञ्चित्॥ 31 ॥
व्याध्रीव तिष्ठति जरा 13परितर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम्।
आयुः परिस्रवति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम्॥ 32 ॥

दैन्यं क्वचित्क्वचन मन्मथजा विकाराः कुत्राप्यनेकविधबन्धुजनप्रपञ्चः।
क्वापि प्रभुत्वधनकल्पितमीश्वरत्वमित्येकवैकृतमिदं जगदाविभाति॥ 33 ॥
आस्तामकण्टकमिदं वसुधाघिपत्यं त्रैलोक्यराज्यमपि नैव तृणाय मन्ये।
निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैववनस्थलीषु॥ 34 ॥
ते तीक्ष्णदुर्जननिकारशरैर्न भिन्ना धीरास्त एव शमसौख्यभुजस्त एव।
सीमन्तिनीभुजलतागहनं व्युदस्य येऽवस्थिताः शमफलेषु तपोवनेषु॥ 35 ॥
बुद्धेरगोचरतया न गिरां प्रचारो दूरे गुरुप्रथितवस्तुकथावतारः।
तत्त्वं क्रमेण विदुषां करुणावदाते श्रद्धावतां हृदि पदं स्वयमादधाति॥ 36 ॥
दधति तावदमी विषयाः सुखं स्फुरति यावदियं हृदि मूढता।
मनसि तत्त्वविदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहाः॥ 37 ॥
क्षमं बालो भूत्वा क्षणमपि युवा कामरसिकः क्षणं वित्तैर्हीनः क्षणमपि च सम्पूर्णविभवः।
जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुर्नटः संसाराङ्के विशति यमधानीजवनिकाम्॥ 38 ॥
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरः क्वचिद्भूमीशय्यः क्वचिदपि च पर्यङ्कशयनः।
क्वचिद्भिक्षावृत्तिः क्वचिदपि च मृष्टाशनरुचिर्महात्मा योगज्ञो न गणयति दुःखं न च सुखम्॥ 39 ॥
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित् पुण्यारण्ये शिवशिवशिवेति प्रलपतः॥ 40 ॥
गतास्तातभ्रातृप्रमुखसुखपीयूषमधुराः पुरा लक्ष्मीक्षैब्यव्यसनसरसास्तेऽपि दिवसाः।
अदः शान्तं स्वान्तं सपदि यदि निर्वेदपदवीं भजत्यभ्यासोऽयं जनयति सुखं भावविमुखम्॥ 41 ॥
अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून्।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति॥ 42 ॥
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः।
महद्भिः पुण्यौर्घैश्चिरपरिगृहीताश्च विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम्॥ 43 ॥
धनं तावल्लब्धं कथमपि तथाप्यस्य नियतं विनाशेऽलाभे वा तव सति वियोगोऽप्युभयथा।
अनुत्पादः श्रेयान् किमु कथय तस्याथ विलयो विनाशो लब्धस्य व्यथयतितरां न त्वनुदयः॥ 44 ॥
परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा प्रसादं किं नेतुं विशसि हृदय क्लेशकलिलम्।
प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगुणे विविक्तः सङ्कल्पः किमिव हि फलं पुष्यति न ते॥ 45 ॥
यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं सहायैः सल्लापः श्रुतमुपशमैकव्रतफलम्।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्न जाने कस्यैषा परिणतिरुदारस्य तपसः॥ 46 ॥
तडिन्मालालोलं प्रतिदिवसदत्तान्धतमसं भवे सौख्यं हित्वा शमसुखमुपादेयमनघम्।
इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो वयं वीतव्रीडाः शुक इव पठामः परममी॥ 47 ॥
यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणस्तदा तस्योद्दामप्रसररसरूढैर्व्यवसितैः।
क्व तद्धैर्यालानं क्व च निजकुलाचारनिगडः क्व सा लज्जारज्जुः क्व विनयकठोराङ्कुशमपि॥ 48 ॥
कुरङ्गाः कल्याणं प्रतिविटपमारोग्यमटवि स्रवन्ति क्षेमं ते पुलिनकुशलं भद्रमुपलाः।
निशान्तादस्वन्तात् कथमपि विनिष्क्रान्तमधुना मनोऽस्माकं दीर्घामभिलषति युष्मत्परिचितिम्॥ 49 ॥
गतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलः कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति।
इदानीमस्माकं जरठकमठीपृष्ठकठिना मनोवृत्तिस्तत् किं व्यसनिनि मुधैव ग्लपयसि॥ 50 ॥
गतः कालो यत्र द्विचरणपशूनां क्षितिभुजां पुरः स्वस्तीत्युक्त्वा विषयसुखमास्वादितमभूत्।
इदानीमस्माकं तृणमिव समस्तं कलयतामपेक्षा भिक्षायामपि किमपि चेतस्त्रपयसि॥ 51 ॥
अहङ्कार क्वापि व्रज वृजिन हे मा त्वमिह भूरभूमिर्दर्पाणामहमपसर त्वं पिशुन हे।
अरे क्रोध स्थानान्तरमनुसरानन्यमनसां त्रिलोकीनाथो नो हृदि वसतु देवो हरिरसौ॥ 52 ॥
अतिक्रान्तः कालो ललितललनाभोगसुखदो भ्रमन्तः शान्ताः स्मः सुचिरमिह संसारसरणौ1
इदानीं 2स्वःसिन्धोस्तटभुवि समाक्रन्दनगिरः सुतारैः फूत्कारैः शिवशिवशिवेति प्रतनुमः॥ 53 ॥

3महाशय्या भूमिर्मसृणमुपधानं4 भुजलता वितानं5 चाकाशं व्यजनमनुकूलोऽयमनिलः।
स्फुरद्दीपश्चन्द्रः 6स्वधृतिवनितासङ्गमुदितः सुखं शान्तः शेते विगतभवभीतिर्नृप इव॥ 54 ॥

कदा वृन्दारण्ये नवघननिभं नन्दतनयं परीतं गोपीभिः क्षणरुचिमनोज्ञाभिरभितः।
गमिष्यामस्तोषं नयनविषयीकृत्य कृतिनो वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः॥ 55 ॥
कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम्।
कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि॥ 56 ॥
कदा वृन्दारण्ये विमलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम्।
अये कृष्ण स्वामिन् मधुरमुरलीवादन विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान्॥ 57 ॥
कदा वा 1साकेते विमलसरयूतीरपुलिने चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम्।
अये राम स्वामिञ्जनकतनयावल्लभ विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान्॥ 58 ॥

2कदा वाराणस्याममरतटिनीरोधसिवसन्वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम्।
अये गौरीनाथ त्रिपुरहरं शंभो त्रिनयन प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान्॥ 59 ॥

3भूः पर्यङ्को निजभुजलतागेन्दुकः खं वितानं दीपश्चन्दो विरतिवनितालब्धयोगप्रमोदः।
दिक्कन्यानां व्यजनपवनैर्वीज्यमानोऽनुकूलैर्भिक्षुः शेते नृप इव सदा वीतरागो जितात्मा॥ 60 ॥

आसंसारात्त्रिभुवनमिदं चिन्वतां तात तादृङ्नो वास्माकं नयनपदवीं श्रोत्रवर्त्मागतो वा।
योऽयं धत्ते विषयकरिणीगाढसूढाभिमानक्षीबस्यान्तःकरणकरिणः संयमालानलीनाम्॥ 61 ॥
आयुर्वायुव्यथितनलिनीपत्त्रमित्त्रं किमन्यत् सम्पच्छम्पाद्युतिसहचरी स्वैरचारी कृतान्तः।
कस्मादस्मिन्भ्रमसि तमसि त्वं प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते॥ 62 ॥
पूर्वं तावत्कुवलयदृशां लोललोलैरपाङ्गैराकर्षद्भिः किमपि हृदयं पूजिता यौवनश्रीः।
सम्प्रत्यन्तर्निहितसदसद्भावलब्धप्रबोधप्रत्याहारैर्विशदहृदये वर्तते कोऽपि भावः॥ 63 ॥
मातर्माये भगिनि कुमते हे पितर्मोहजाल व्यावर्तध्वं भवतु भवतामेष दीर्घो वियोगः।
सद्यो लक्ष्मीरमणचरणभ्रष्टगङ्गाप्रवाहव्यामिश्रायां दृषदि परमब्रह्मदृष्टिर्भवामि॥ 64 ॥
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रां गतस्य।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गमङ्‌गे मदीये॥ 65 ॥
भेदाभेदौ सपदि गलितौ पुण्यपापे विशीर्णे मायामोहौ क्षयमुपगतौ नष्टसन्देहवृत्तेः।
शब्दातीतं त्रिगुणरहितं प्राप्य तत्त्वावबोधं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः॥ 66 ॥
यद्वात्मानं सकलवपुषामेकमन्तर्बहिस्थं दृष्ट्वा पूर्णं खमिव सततं सर्वभाण्डस्थमेकम्।
नान्यत्कार्यं किमपि च ततः कारणाद्भिन्नरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः॥ 67 ॥
हेम्नः कार्यं हुतवहगतं हेममेवेति यद्वत् क्षीरे क्षीरं समरसतया तोयमेवाम्बुमध्ये।
एवं सर्वं समरसतया त्वं पदं तत्पदार्थे निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः॥ 68 ॥
यस्मिन् विश्वं सकलभुवनं सामरस्यैकभूतमुर्वी ह्यापोऽनलमनिलखं जीवमेवं क्रमेण।
यत्क्षाराब्धौ समरसतया सैन्धवैकत्वभूतं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः॥ 69 ॥
यद्वन्नद्योदधिसमरसौ सागरत्वं ह्यवाप्तौ तद्वज्जीवालयपरिगतौ सामरस्यैकभूतौ।
भेदातीतं परिलयगतं सच्चिदानन्दरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः॥ 70 ॥
दृष्ट्वा वेद्यं परमथ पदं स्वात्मबोधस्वरूपं बुद्ध्वात्मानं सकलवपुषामेकमन्तर्बहिस्थम्।
भूत्वा नित्यं सदुदिततया स्वप्रकाशस्वरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः॥ 71 ॥
कार्याकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवन्मुक्तस्थितिरवगतो दग्धवस्त्रावभासः।
एवं देहे प्रविलयगते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः॥ 72 ॥
कस्मात् कोऽहं किमपि च भवान् कोऽयमत्र प्रपञ्चः स्वं स्वं वेद्यं गगनसदृशं पूर्णतत्त्वप्रकाशम्।
आनन्दाख्यं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः॥ 73 ॥
किं कन्दर्प करं कदर्थयसि रे कोदण्डटङ्कारितै रे रे कोकिल कोमलैः कलरवैः किं त्वं मुधा वल्गसि।
मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते॥ 74 ॥
मातर्मेदिनि तात मारुत सखे ज्योतिः सुबन्धो जल भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः।
युष्मत्सङ्गवशोपजातसुकृतोद्रेकः स्फुरन्निर्मलज्ञानापास्तसमस्तमोहमहिमा लीये परे ब्रह्मणि॥ 75 ॥
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी।1
2मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः॥ 76 ॥

येषां वल्लभया सह क्षणमपि क्षिप्रं क्षपा क्षीयते तेषां शीतकरः शशी विरहिणामुल्केव सन्तापकृत्।
अस्माकं तु न वल्लभा न विरहस्तेनोभयभ्रंशिनामिन्दू राजति दर्पणाकृतिरसौ नोष्णो न वा शीतलः॥ 77 ॥
धावन्तः प्रतिवासरं दिशि दिशि प्रत्याशया सन्पदां दृष्ट्वा कालवशेन हन्त पलितं कस्यापि दैवद्रुमम्।
श्रावं श्रावमवज्ञयोपहसितं सर्वत्र भग्नोद्यमा जीवामः परमार्थशून्यहृदयास्तृप्ता मनोमोदकैः॥ 78 ॥
सन्त्येके धनलाभमात्रगहनव्यामोहसम्मूर्च्छिताः केचिद्दैवतसुन्दरीस्तनपरीरम्भभ्रमव्याकुलाः।
अन्तर्भूतसमस्ततत्त्वनिवहं चिन्मात्रशेषं शिवं दृष्ट्वा हृष्टतनूरुहाङ्कुरभराः कष्टं न शिष्टाः क्वचित्॥ 79 ॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत्॥ 80 ॥
यत्रैकं श्रुतमक्षरं पशुपतेर्हेतुः श्रुतीनां कृतौ सद्यो रोहति चाष्टधा तनुभृतां यत्रैकमुद्यद्वपुः।
यत्रैकाभ्रनदीकणेऽपि विधृते सर्वैव सा धार्यते सा दृष्टाद्भुतवैभवा कविगिरां पारे हि वाराणसी॥ 81 ॥
स्मारस्मेरमदोन्नमत्कुचतटीकान्ताकरान्दोलितैः पुष्पाम्भोनिचितैरुशीररचितैः किं तालवृन्तैर्मम।
अन्वानन्दवनं मुखं शिशयिषोरर्धप्रमीलद्दृशो यातायातपरिश्रमं शमयिता गङ्गातरङ्गानिलः॥ 82 ॥
एतद्वैः किमभावि सूरिभिरथ द्वित्राणि मित्त्राणि किं व्यापन्नानि गताश्च किं त्रिचतुरा घोरा महाव्याधयः।
सप्ताष्टैरलमिष्टमेतदपि नश्चेतः क्षणान्पञ्चषान् स्वात्मन्येव रमस्व तेजसि गते कालेऽथ वा सर्वतः॥ 83 ॥
नित्यानित्यविचारणा प्रणयिनी वैराग्यमेकं सुहृन् मित्त्राण्येव यमादयः शमदमप्रायाः सखायो मताः।
मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा बलादुच्छेद्या रिपवश्च मोहममतासङ्कल्पवैरादयः॥ 84 ॥
पुण्यैर्मूलफलैः प्रियप्रणयिनीं वृत्तिं कुरुष्वाधुना भूशय्यां नवपल्लवैः कुरु तृणैरुत्तिष्ठ यामो वने।
क्षुद्राणामविवेकमूढमनसां यत्रेश्वराणां सदा वित्तव्याध्यविवेकसङ्कुलागिरां नामापि न श्रूयते॥ 85 ॥
भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परे गिरिसुताकान्तालयालङ्कृते।
अद्याराधनतोषितेन विभुना युष्मत् सपर्यासुखालोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे॥ 86 ॥
कृत्वा दीननिपीडनां निजजने बद्ध्वा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः।
द्रव्यौघाः परिसञ्चिताः खलु मया यस्याः कृते साम्प्रतं नीवाराञ्जलिनापि केवलमहो सेयं कृतार्था तनुः॥ 87 ॥
रथ्यान्तश्चरतस्तथा धृतजरत्कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः।
निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कं 1करटः कदा करपुटीभिक्षां विलुण्ठिष्यति॥ 88 ॥

सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा।
यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत् कौशलम्॥ 89 ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयम्।
शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम्॥ 90 ॥
शय्या शाद्वलमासनं शुचि शिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः।
इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते॥ 91 ॥
याञ्चाशून्यमयत्नलभ्यमशनं वायुः कृतो वेधसा व्यालानां पशवस्तृणाङ्कुरभुजः सुस्थाः स्थलीशायिनः।
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः॥ 92 ॥
बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं प्रायो बन्धुभिरध्वनीव पथिकैर्योगो वियोगावहः।
हातव्योऽयमसार एष विरसः संसार इत्यादिकं सर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्यात्मनः॥ 93 ॥
पुत्रः स्यादिति दुःखितः सति सुते तस्यामये दुःखितस्तद्दुःखादिकमार्जने तदनये तन्मूर्खतादुःखितः।
जातश्चेत् सगुणोऽथ तन्मृतिभयं तस्मिन् मृते दुःखितः पुत्रव्याजमुपागतो रिपुरयं मा कस्यचिज्जायताम्॥ 94 ॥
आहारः फलमूलमात्मरचितं शय्या मही वल्कलं सम्वीताय परिच्छदः कुशसमित्पुष्पाणि पुत्रा मृगाः।
वस्त्रान्नाश्रयदानभोगविभवा निर्यन्त्रणाः शाखिनो मित्त्राणीत्यधिकं गृहेषु गृहिणां किं नाम दुःखादृते॥ 95 ॥
सूक्तिं कर्णसुधां व्यनक्तु सुजनस्तस्मिन्न मोदामहे ब्रूतां वाचमसूयको विषमुचं तस्मिन्न खिद्यामहे।
या यस्य प्रकृतिः स तां वितनुतां किं नस्तया चिन्तया कुर्मस्तत्खलु कर्म जन्मनिगडच्छेदाय यज्जायते॥ 96 ॥
यत्क्षान्तिः समये श्रुतिः शिवशिवेत्युक्तौ मनोनिर्वृतिर्भैक्षे चाभिरुचिर्धनेषु विरतिः शश्वत् समाधौ रतिः।
एकान्ते वसतिर्गुरौ प्रतिनतिः सद्भिः समं सङ्गतिः सत्त्वे प्रीतिरनङ्गनिर्जितिरसौ सन्मुक्तिमार्गे स्थितिः॥ 97 ॥
सम्भोगाद्विषयामिषस्य परितः सौहित्यमस्ताखिलज्ञानोन्मेषतया कथं तव भवेदत्यास्पदं देहिनः।
साध्यं तद्धि तदेव साधनमितो व्यावृत्तिरेवामिषात् तस्यां ज्योतिरुपैत्यनिन्धनमिदं दोषत्रयं धक्ष्यति॥ 98 ॥
सत्यं वक्तुमशेषमस्ति सुलभा वाणी मनोहारिणी दातुं दानवरं शरण्यमभयं स्वच्छं पितृभ्यो जलम्।
पूजार्थं परमेश्वरस्य विमलः स्वाध्याययज्ञः परं क्षुद्व्याधेः फलमूलमस्ति शमनं क्लेशात्मकैः किं धनैः॥ 99 ॥
जिह्वे लोचन नासिके श्रवण हे त्वक् चापि नो वार्यसे सर्वेभ्योऽस्तु नमः कृताञ्जलिरहं सप्रश्रयं प्रार्थये।
युष्माकं यदि सम्मतं तदधुना नात्मानमिच्छाम्यहं होतुं भूमिभुजां निकारदहनज्वालाकराले गृहे॥ 100 ॥
भिक्षाहारमदैन्यमप्रतिहतं भीतिच्छिदं सर्वदा दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम्।
सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं शंभोः सत्त्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः॥ 101 ॥
मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूर्भोगेभ्यः स्पृहयालवो नहि वयं का निस्पृहाणामसि।
1सद्यःस्यूतपलाशपत्त्रपुटके पात्रे पवित्रीकृते भिक्षासक्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे।2॥ 102 ॥

धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी3 सत्यं 4सूनुरयं दया च भगिनी भ्राता 5मनःसंयमः।
शय्या भूमितलं दिशोऽपि 6वसनं ज्ञानामृतं भोजनमेते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः॥ 103 ॥

सन्ध्यावन्दन भद्रमस्तु भवते भो स्नान तुभ्यं नमो भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम्।
यत्र क्वापि निषद्य यादवकुलोत्तंसस्य कंसद्विषः स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे॥ 104 ॥
एणाक्षीस्पृहयालुता न कथमप्यास्ते विवेकोदयान्नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे।
अप्यन्येषु विनाशिवस्तुविषयाभोगेषु तृष्णा न मे स्वर्णद्याः पुलिने परं हरिपदध्यानं मनो वाञ्छति॥ 105 ॥
जातोऽहं जनको ममैष जननी क्षेत्रं कलत्रं कुलं पुत्रा मित्त्रमरातयो वसु बलं विद्या सुहृद्बान्धवाः।
चित्तस्पन्दितकल्पनामनुभवन् विद्वानविद्यामयीं निद्रामेत्य विघूर्णितो बहुविधान् स्वप्नानिमान् पश्यति॥ 106 ॥
लाटीनेत्रपुटीपयोधरघटीक्रीडाकुटीदोस्तटीपाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते।
गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च व्याहारैः समयस्तदेकमनसां पुंसामतिक्रामति॥ 107 ॥
वेदस्याध्ययनं कृतं परिचितं शास्त्रं पुराणं स्मृतं सर्वं व्यर्थमिदं पदं न कमलाकान्तस्य चेत् कीर्तितम्।
उत्खातं सदृशीकृतं विरचितः सेकोऽम्भसा भूयसा सर्वं निष्फलमालवालवलये क्षिप्तं न बीजं यदि॥ 108 ॥
हेयं हर्म्यमिदं निकुञ्जभवनं 7श्रेयं प्रदेयं धनं पेयं तीर्थपयो हरेर्भगवतो गेयं पदाम्भोरुहम्।
नेयं जन्म चिराय दर्भशयने धर्मे निधेयं मनः स्थेयं तत्र सितासितस्य सविधे ध्येयं पुराणं महः॥ 109 ॥

गङ्गोत्तुङ्गतरङ्गरिङ्गणलघूत्सर्पन्मरुच्छीतलान्गुञ्जन्षट्पदमञ्जुवञ्जुललसत्कुञ्जोपकण्ठान्मुदा।
अध्यास्य प्रणिधाय मानसमहो शंभोः पदाम्भोरुहे धन्याः प्राप्य परं पदं प्रतिदनं नन्दन्ति योगं विना॥ 110 ॥
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी निश्चिन्तं सुखसाध्यभैक्षमशनं शय्या श्मशाने वने।
मित्त्रामित्रसमानता पशुपतेश्चिन्ताथ शून्यालये स्वात्मानन्दमदप्रमोदमुदितो योगी सुखं तिष्ठति॥ 111 ॥
धिग्धिक्तान्कृमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो निष्पन्दीकृतशान्तयोऽपि च तमः-कारागृहेष्वासते।
तं विद्वांसमिह स्तुमः करपुटीभिक्षान्नशाकोऽपि वा बालावक्त्रसरोजिनीमधुनि वा यस्याविशेषो रसः॥ 112 ॥
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं वस्त्रं विस्तीर्णमाशादशकममलिनं तल्पमस्वल्पमुर्वी।
येषां निःसङ्गताङ्गीकरणपरिचितिः स्वान्तसन्तोषिणस्ते धन्याः सन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति॥ 113 ॥
आशा निष्ठा प्रतिष्ठा मम किल महिलास्तासु सौख्यं कदा स्याद्या प्रान्त्या सा विदध्यादिह किमपि तथा मध्यमा सा परत्र।
आद्या सा नोभयत्राप्यहह तदपि किं सक्ततां यामि तस्यां या प्रौढ्यादप्रगल्भे प्रतिदिवसमुभे ते कदर्थीकरोति॥ 114 ॥


  1. प्रव्रज्यायाम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. प्राणवायुः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. विचारशून्यत्वेन. ↩︎ ↩︎ ↩︎ ↩︎

  4. शैशवम्. ↩︎ ↩︎ ↩︎

  5. निःसारे. ↩︎ ↩︎ ↩︎

  6. सम्पूर्णम्. ↩︎ ↩︎ ↩︎

  7. नाशवत्. ↩︎ ↩︎

  8. शरीरम्. ↩︎

  9. चाण्डालः. ↩︎

  10. ब्रह्मा. ↩︎

  11. पृथ्वीम्. ↩︎

  12. देहः. ↩︎

  13. भर्त्सयन्ती. ↩︎