स रोषदष्टाधरलोहिताक्षैर्व्यक्तोर्ध्वरेखा भृकुटीर्वहद्भिः।
तस्तार गां भल्लनिकृत्तकण्ठैर्हुंकारगर्भैर्द्विषतां शिरोभिः॥ 1 ॥
पातालतः किमु सुधारसमानयामि निष्पीड्य चन्द्रममृतं किमु वाहरामि।
उद्यन्तमद्य तपनं किमु वारयामि कीनाशपाशमथवा किमु चूर्णयामि॥ 2 ॥
चञ्चत्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य सुयोधनस्य।
स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः॥ 3 ॥
1कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधै।
2नरकरिपुणा सार्धं तेषां सभीमकि3रीटिनामहमयमसृङ्मेदोमांसैः करोमि दिशां बलिम्॥ 4 ॥
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शन्तिं कुलस्येच्छता।
तद्द्यूतारणिसम्भृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते॥ 5 ॥
येन स्वां विनिहत्य मातरमपि क्षत्रास्रपूरासवास्वादोन्मत्तपरश्वधेन विदधे निःक्षत्रिया मेदिनी।
यद्बाणव्रणवर्त्मनः शिखरिणः क्रौञ्चस्य हंसच्छलादद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः॥ 6 ॥
देशः सोऽयमरातिशोणितजलैर्यस्मिन्ह्रदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः।
तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः॥ 7 ॥
यैः प्राणापहृतिः कृता मम पितुः क्रुद्धैर्युधि क्षत्रियै रामोऽहं रमणीर्विहाय बलवान्निःशेषमेषां हठात्।
भास्वत्प्रौढकुठारकोटिघनकाकाण्डत्रुटत्कन्धरास्रोतोऽन्तःस्रुतशोणशोणितभरैः कुर्यां क्रुधां निर्वृतिम्॥ 8 ॥
राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरु बान्धवस्य च तथा कर्णस्य शल्यस्य च।
पीतं तस्य ममाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः॥ 9 ॥
स्पृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां कुरूणां पुरः।
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवान् सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः॥ 10 ॥
रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहुर्मुक्त्वा कर्णमपेतभीर्धृतधनुर्बाणो हरेः पश्यतः।
आध्मातः कटुकोक्तिभिः स्वमसद्दोर्विक्रमं कीर्तयन्नंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रविष्टोऽर्जुनः॥ 11 ॥
त्रैलोक्यत्रा4णशौण्डः 5सरसिजवसतेः सम्प्रसूतो भुजाभ्यां सुक्षत्रं नाम वर्णः कुलिशकठिनयोर्यस्य दोष्णो6र्विलीनः।
ज्वालाजिह्वालकालानलकवलभयभ्रान्तदेवासुराणि व्यातन्वानो जगन्ति ज्वलति 7मुनिरयं पार्वतीधर्मपुत्रः॥ 15 ॥
अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ।
स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे सङ्ग्रामैकार्णवान्तः प्रविचरितुमलं पण्डिताः पाण्डुपुत्राः॥ 13 ॥
रे धृष्टा धातराष्ट्राः प्रबलभुजबृहत्ताण्डवाः पाण्डवा रे रे वार्ष्णेयाः सकृष्णाः शृणुत मम वचो यद्ब्रवीम्यूर्ध्वबाहुः।
एतस्योत्खातबाहोर्द्रुपदनृपसुतातापिनः पापिनोऽयं पाता हृच्छोणितानां प्रभवति यदि वस्तत्किमेतं न 1पाथ॥ 14 ॥
नाहं रक्षो न भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकाशं विस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि।
भो भो राजन्यवीराः समरशिखिशिखाभुक्तशेषाः कृतं वस्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत्॥ 15 ॥
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्॥ 16 ॥