०७ बीभत्सरसनिर्देशः

प्रस्वेदमलदिग्धेन वहता मूत्रशोणितम्।
व्रणेन विकृतेनेदं सर्वमन्धीकृतं जगत्॥ 1 ॥
विकीर्णहरिचन्दनद्रविणि यत्र लीलालसा निपेतुरतिचञ्चलाश्चतुरकामिनीदृष्टयः।
तदेतदुपरिभ्रमन्निबिडगृध्रजालं जनैर्लुठत्कृमि कलेवरं पिहितनासिकैर्वीक्ष्यते॥ 2 ॥
अन्त्रैः कल्पितमङ्गसप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्रजः।
एताः शोणितपङ्ककुङ्कुमजुषः सम्भूय कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः॥ 3 ॥
उत्कृत्य ज्वलितां शवात्कथमपि प्रेताशनः पैशितीं पेशीमग्निमयीं निगीर्य सहसा दन्दह्यमानोदरः।
धावत्युत्प्लवते मुहुर्निपतति प्रोत्तिष्ठति प्रेक्षते विष्वक्क्रोशति सम्पिनष्टि जठरं मुष्ट्या चलन्मस्तकः॥ 4 ॥
अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कणप्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम्।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति॥ 5 ॥
रक्तं नक्तंचरौघः पिबति वमति च ग्रस्तकुन्तः शकुन्तः क्रव्यं नव्यं गृहीत्वा प्रणदति मुदितो मत्तवेतालबालः।
क्रीडत्यव्रीडमस्मिन्रुधिरमदवशात्पूतना नूतनाङ्गी योगिन्यो मांसमेदः प्रमुदितमनसः शूरशक्तिं स्तुवन्ति॥ 6 ॥
1उत्कृत्योत्कृत्य 2कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसान्यंसस्फि3क्पृष्ठपिण्डाद्यवयवसुलभान्यु4ग्रपूतीनि 5जग्ध्वा।
आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः 6प्रेतरङ्कः 7करङ्कादङ्कस्थादस्थिसंस्थं 8स्थपुटगतमपि 9क्रव्यमव्यग्रमत्ति॥ 7 ॥


  1. श्मशाने शवं भुञ्जानं प्रेतं दृष्ट्वा माधवस्योक्तिरियम्. ↩︎

  2. चर्म. ↩︎

  3. कटिदेशस्थमांसपिण्डः. ↩︎

  4. अत्यन्तदुर्गन्धीनि. ↩︎

  5. भक्षयित्वा. ↩︎

  6. प्रेतदरिद्रः. ↩︎

  7. मृतशरीरात्. ↩︎

  8. निम्नोन्नतप्रदेशस्थम्. ↩︎

  9. मांसम्. ↩︎