०६ भयानकरसनिर्देशः

इदं मघोनः कुलिशं धारासन्निहितानलम्।
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय केवलम्॥ 1 ॥
ततः परामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य।
स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात॥ 2 ॥
विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम्।
ससम्भ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती॥ 3 ॥
अशक्नुवन्सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम्।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः॥ 4 ॥
महाप्रलयमारुतक्षुभितपुष्पकरावर्तकप्रचण्डघनगर्जितप्रतिरवानुकारी मुहुः।
रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः॥ 5 ॥
किञ्चित्कोपकलाकलापकलनाहुंकारबिभ्रद्भ्रुवोर्विक्षेपादकरोदसौ रघुपतिर्लङ्कापतेः पत्तनम्।
क्रन्दत्फेरु रटत्करीटु विघटद्दारु स्फुटद्गुग्गुलु प्रोत्क्रीडत्कपि निःश्वसत्फणि रणज्झिल्लि भ्रमद्द्वीपि च॥ 6 ॥
अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालनव्यावल्गन्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः।
उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिलप्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः॥ 7 ॥
गीर्वाणाः प्रतियन्ति नैव पिदधे कर्णौ सुधर्माधिपः कर्णाकर्णिकयन्ति हन्त निभृतं शंभुस्वयंभूगणाः।
दूरादेत्य कृतान्तदूतनिवहाः स्वाकारसङ्गोपनैरुद्ग्रीवं कलयन्ति कोणपचमूनाथे शयाने रणे॥ 8 ॥
निःशङ्कं बहिरम्ब चण्डमनसो नामानुरूपा क्रिया स्वर्वेश्यापदघर्घरस्वनवती न क्वापि रङ्गस्थली।
किञ्चान्यद्दशकन्धराङ्घ्रियुगले कल्याणभाजि स्फुटं लङ्कायां प्रतिपक्षविक्रमयथाशङ्काकरी भ्राम्यति॥ 9 ॥
अन्त्राकल्पचलत्पयोधरभरव्याविद्धमेघच्छटासृक्व1स्थामिषगृ2ध्नुगृध्र3गरुदास्फालोच्चलन्मूर्धजा।
व्यादायाननमट्टहासविकटं दूरेण तारापथात्त्रस्यत्सिद्धपुर4न्ध्रिवृन्दरभसोन्मुक्तादुपक्रामति॥ 10 ॥

प्रौढच्छेदानुरूपोच्छलनरयवशात्सैंहिकेयोपमेयत्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम्।
कुर्वन्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां झाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णौत्तमाङ्गम्॥ 11 ॥
माद्यन्मातङ्गकुम्भस्थलबहलवसावासनाविस्रगन्धव्यासक्तव्यक्तमुक्ताफलशकललसत्केसरालीकरालः।
एणीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा गुञ्जन्कुञ्जे गिरीणां हरिरिह शबरीगर्भपातं विधत्ते॥ 12 ॥
मन्थायस्तार्णवाम्भः प्रतिकुहरवलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम्॥ 13 ॥
निर्मज्जच्चक्षुरन्तर्भ्रमदतिकपिलक्रूरतारा नरास्थिग्रन्थिं दन्तान्तरालग्रथितमविरतं जिह्वया घट्टयन्ती।
ध्वान्तेऽपि व्यात्तवक्त्रज्वलदनलशिखाजर्जरे व्यक्तकर्मा निर्मान्ती गृध्ररौद्रीं दिवमुपरि परिक्रीडते ताडकेयम्॥ 14 ॥


  1. ओष्ठप्रान्तः. ↩︎

  2. लालसाः. ↩︎

  3. पक्षाः. ↩︎

  4. स्त्री. ↩︎