जिह्वायाश्छेदनं नास्ति न तालुपतनाद्भयम्।
निर्विशेषेण वक्तव्यं निर्लज्जः को न पण्डितः॥ 1 ॥
परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु।
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि॥ 2 ॥
विना मद्यं विना मांसं परस्वहरणं विना।
विना परापकारेण 1दिविरो दिवि रोदिति॥ 3 ॥
पूर्वं चेटी ततो वेटी पश्चाद्भवति कुट्टिनी।
सर्वोपायपरिभ्रष्टा वेश्या भवति तापसी॥ 4 ॥
यदक्षिभ्रूलतापाङ्गैः स्त्रियः कुर्वन्ति चापलम्।
जघनेष्वेव तत्सर्वं पतत्यनपराधिषु॥ 5 ॥
केशलुञ्चनसाम्येऽपि हन्त पश्यैतदन्तरम्।
उपस्थाः कीटमश्नन्ति घृतभक्तं दिगम्बराः॥ 6 ॥
सामगायनपूतं मे नोच्छिष्टमधरं कुरु।
उत्कण्ठितासि चेद्भद्रे वामं कर्णं दशस्व मे॥ 7 ॥
भस्माङ्गुलिर्बकोड्डायी बालशौची तथा हिही।
धारावर्ती चक्रवर्ती षडेते पुरषाधमाः॥ 8 ॥
प्रेषकः प्रैष्यकः काण्डः किमेकः स्तम्भलीनकः।
योगी तत्कालरोगी च षडेते सेवकाधमाः॥ 9 ॥
आदौ वेश्या पुनर्दासी पश्चाद्भवति कुट्टिनी।
सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता॥ 10 ॥
गता केचित्प्रबोधाय स्वयं तं कुम्भकर्णकम्।
तदधः पवनोत्सर्गादुड्डीय पतिताः क्वचित्॥ 11 ॥
असारे खलु संसारे सारं श्वशुरमन्दिरम्।
हरो हिमालये शेते हरिः शेते महोदधौ॥ 12 ॥
कमले कमला शेते हरः शेते हिमालये।
क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया॥ 13 ॥
बिलाद्बहिर्बिलस्यान्तःस्थितमार्जारसर्पयोः।
मध्ये चाखुरिवाभाति पत्नीद्वययुतो नरः॥ 14 ॥
सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते।
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः॥ 15 ॥
स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ।
दिगम्बरः कथं जीवेदन्नपूर्णा न चेद्गृहे॥ 16 ॥
उदरद्वयभरणभयादर्धाङ्गाहितदारः।
यदि नैवं तस्य सुतः कथमद्यापि कुभारः॥ 17 ॥
अङ्गुलिभङ्गविकल्पनविविधविवादप्रवृत्तपाण्डित्यः।
जपचपलौष्ठः सजने ध्वानपरो नगररथ्यासु॥ 18 ॥
मुण्डो जटिलो नग्नश्छत्त्री दण्डी कषायचीरी वा।
भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः॥ 19 ॥
भृकुटीकुटिलललाटः कण्टकिताङ्गः कटाक्षविकटाक्षः।
कवलयति पृथुलकवलैस्तण्डुलमचलं द्विजः क्रुद्धः॥ 20 ॥
क्रयविक्रयकूटतुलालाघवनिक्षेपरक्षणव्याजैः।
एते हि दिवसचौरा मुष्णन्ति महाजनं वणिजः॥ 21 ॥
आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम्।
इष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः॥ 22 ॥
दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा।
चौर इव कुटिलचारी पलायते कुटिलरथ्याभिः॥ 23 ॥
गणयति गगने गणकश्चन्द्रेण समागमं विशाखायाः।
विविधभुजह्गक्रीडासक्तां गृहिणीं न जानाति॥ 24 ॥
कलमाग्रनिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणैः।
कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राज्यश्रीः॥ 25 ॥
वाचयति नान्यलिखितं लिखितमनेनापि वाचयति नान्यः।
अयमपरोऽस्य विशेषः स्वयमपि लिखितं स्वयं न वाचयति॥ 26 ॥
अर्थो नाम जनानां जीवितमखिलक्रियाकलापश्च।
तं संहरन्ति धूर्ताश्छगलगला गायना लोके॥ 27 ॥
तमसि वराकश्चौरो हाहाकारेण याति सन्त्रस्तः।
गायनचौः कपटो हा हा कृत्वा न याति लक्ष्यं च॥ 28 ॥
आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः।
स्वयमुक्तसाधुवादैरन्तरयति गायनो गीतम्॥ 29 ॥
मेरुः स्थितोऽतिदूरे मनुष्यभूमिं परां परित्यज्य।
भीतो भयेन चौर्याद्घोराणां हेमकाराणाम्॥ 30 ॥
तस्मान् महीपतीनामसम्भवे दस्युचौराणाम्।
एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम्॥ 31 ॥
उपभुक्तखदिरवीटकजनिताधररागभङ्गभयात्।
पितरि मृतेऽपि हि वेश्या रोदिति हा ताततातेति॥ 32 ॥
वर्णनदयितः कश्चिद्धनदयितो दानकर्मदयितोऽन्यः।
रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः॥ 33 ॥
शृणु सखि कौतुकमेकं ग्राम्येण कुकामिना यदद्य कृतम्।
सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि॥ 34 ॥
श्रमणः श्रावकवध्वाः सुरतविधौ दशति नाधरं दत्तम्।
मदिराक्षिमांसभक्षणमस्मत्समये निषिद्धमिति॥ 35 ॥
द्विजराजशेखरो यद्वृषभारूढः सदा सदारस्त्वम्।
चक्रे हर तद्विधिना पुनरुपनयनं ललाटघटितं ते॥ 36 ॥
विनापि तातेन विना जनन्या गजाननः शम्भुसुताभिधानः।
विनैव शास्त्रेण विनैव वेदैर्माध्यन्दिनानामिव पाठकोऽभूत्॥ 37 ॥
शिक्षितापि सखिभिर्ननु सीता रामचन्द्रचरणौ न ननाम।
किं भविष्यति मुनीशवधूवद्भालरत्नमिह तद्रजसेति॥ 38 ॥
अयं 2पटो मे पितुरङ्गभूषणं पितामहाद्यैरुपभुक्तयौवनः।
अलङ्करिष्यत्यथ पुत्रपौत्रकान् मयाधुना पुष्पवदेव धार्यते॥ 39 ॥
वैराग्यभङ्गिरचनावचनैः प्रतार्य रण्डां चिराय विकटस्तनसन्नताङ्गीम्।
ब्रह्मोपदेशमिषसङ्गतगण्डभित्ति निःशङ्कचुम्बनरसैः कितवा द्रवन्ति॥ 40 ॥
धान्याकनागरनिशार्द्रकदाडिमत्वक्कुस्तुम्बरीलवणतैलसुसंस्कृतान्नः।
मत्स्यान्सुशीतसितभक्ततले ददाति स ब्रह्मलोकमधिगच्छति पुण्यकर्मा॥ 41 ॥
खट्वा नितान्तलघुका शिथिलप्रताना द्वेष्यः पतिः स च निरन्तरचाटुकारी।
तत्रापि दैवहतिकाः खलु माघरात्र्यो हा सह्यतां कथमयं व्यसनप्रपञ्चः॥ 42 ॥
आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे।
तारस्वरं प्रहित3थूत्कमदात्प्रहारं हा हा हतोऽहमिति रोदिति विष्णुशर्मा॥ 43 ॥
गौरी तनुर्नयनमायतमुन्नता च नासा कृशा कटितटी च पटी विचित्रा।
अङ्गानि रोमरहितानि सुखाय भर्तुः पुच्छं न तुच्छमिति कुत्र समस्तवस्तु॥ 44 ॥
आपाण्डुरा शिरसिजास्त्रिवली कपोले दन्तावली विगलिता न च मे विषादः।
एणीदृशो युवतयः पथि मां विलोक्य तातेति भाषणपराः खलु वज्रपातः॥ 45 ॥
कटी मुष्टिग्राह्या द्विपुरुषभुजग्राह्यमुदरं स्तनौ घण्टालोलौ जघनमधिगन्तुं व्यवसितौ।
स्मितं भेरीनादो मुखमपि च यत्तद्भयकरं तथाप्येषा रण्डा परिभवति सन्तापयति च॥ 46 ॥
एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको भुवनविजयी मन्मथो दुर्निवारः।
शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः॥ 47 ॥
गत्वा द्वारवतीं नयामि दिवसानाराधयन्ती हरिं त्यक्त्वा वानशनेन जीवितमिदं मुञ्चामि भागीरथीम्।
प्रातः प्रातरिति प्रवर्तितकथा निर्वेदमातन्वती रण्डा नक्तमनन्तजारसुरतप्रीता सुखायास्तु वः॥ 48 ॥
पाणौ ताम्रघटी कुशः करतले धौते सिते वाससी भाले मृत्तिलकः सचन्दनरसो न्यस्तैकपुष्पं शिरः।
दूरात्क्षिप्रपदा गतिर्दृढतरव्याश्लिष्टदन्ता गिरः सोऽयं वञ्चयितुं जगद्भगवतो दम्भस्य देहक्रमः॥ 49 ॥
यत्नोत्थापनमात्रनिःसहजरच्चर्मावशेषश्लथभ्रश्यच्छेफसिदुर्बलाङ्गचलनव्यर्थोद्यमालिङ्गने।
लज्जाधायिनि खिद्यमानयुवतौ वृद्धस्य कृच्छ्रे रते यत्स्यात्तत्प्रतिभाव्य किं नु हसितुं युक्तं किमारोदितुम्॥ 50 ॥
धत्ते वक्षसि कौस्तुभोपलमयं मत्वा श्रियः सोदरं तन्नाभीगृहमाकलय्य मकरावासं मनाङ्गोज्झति।
तन्नामप्रणयान्न लुम्पति हरिः श्रीवत्समङ्गे स्थितं किं केन क्रियतां स एव यदभूदेतादृशः स्त्रीवशः॥ 51 ॥
अत्तुं वाञ्छति वाहनं गणपतेराखुं2 क्षुधार्तः फणी तं च क्रौञ्च3पतेः 4शिखी च गिरिजासिंहोऽपि 5नागाननम्।
गौरी जह्नुसुतामसूयति1 कलानाथं कपालाननो निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम्॥ 52 ॥
रण्डा पीनपयोधराकृत मया चण्डानुरागाद्भुजं दोर्दण्डद्वयपीवरस्तनभरं नो गाढमालिङ्गिता।
बुद्धेभ्यः शतशः शमे यदि पुनः कुत्रापि कापालिनीपीनोत्तुङ्गकुचावपीडनभरः प्राप्तः प्रबोधोदयः॥ 53 ॥
जग्ध्वा माषमयानपूपवटकानाध्मायमानोदरे फट्फट्फाडिति पायवीयपवनं योगेश्वरे मुञ्चति।
उड्डीनं विहगैर्घटैर्विघटितं दोलायितं भित्तिभिः शिष्यैर्धावितमर्भकैर्निपतितं कोलाहलोऽभून्मठे॥ 54 ॥
पीठीप्रक्षालनेन क्षितिपतिकथया सज्जनानां प्रवादैर्नीत्वा यामार्धमेवं कुशकुसुमसमारम्भणव्यग्रहस्ताः।
पश्चादेते निमज्जत्पुरयुवतिकुचाभोगदत्तेक्षणार्धाः प्राणायामापदेशादिह सरिति सदा वासराणि क्षिपन्ति॥ 55 ॥
रे रे लोकाः कुरुध्वं श्रवणपुटपिधानं द्रुतं हस्तयुग्मैः शैलाः सर्वेऽपि यूयं भवत गुरुतराः सावधाना धरित्र्याम्।
शीघ्रं रे रावण त्वं विरचय वसनैर्नासिकानां पिधानं सुप्तोऽयं कुम्भकर्णः कटुरवविकटं 6शर्धते दीर्घमुच्चैः॥ 56 ॥