०४ अद्भुतरसनिर्देशः

तस्मिन्युद्धे क्षणेनैव त्वरितो वानरध्वजः।
सरथं सध्वजं साश्वं भीष्ममन्तर्दधे शरैः॥ 1 ॥
रत्नभित्तिषु सङ्क्रान्तैः प्रतिबिम्बशतैर्वृतः।
ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः॥ 2 ॥
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य तत्क्षणात्।
कक्षाक्षिप्तं निशान्ते स्वे वाली पौलस्त्यमत्यजत्॥ 3 ॥
न केनापि श्रुतं दृष्टं वारिणा वारि शुष्यति।
अहो गोदावरीवारा1 भवसिन्धर्विशुष्यति॥ 4 ॥

एष वन्ध्यासुतो याति 2खपुष्पकृतशेखरः।
3मृगतृष्णाम्भसि स्नातः 4शशशृङ्गधनुर्धरः॥ 5 ॥

कस्मै किं कथनीयं कस्य मनः5प्रत्ययो भवति।
रमयति गोपव6धूटी कुञ्जकुटीरे परं ब्रह्म॥ 6 ॥

चित्रं कनकलतायां पल्लव एवामृतं सूते।
कुसुमसमुद्गमसमयो नो जाने किं परं भावि॥ 7 ॥
अम्बुजमम्बुनि जातं न हि दृष्टं जातमम्बुजादम्बु।
अधुना तद्विपरीतं चरणसरोजाद्विनिर्गता गङ्गा॥ 8 ॥
जाता लता हि शैले जातु लतायां न जायते शैलः।
अधुना तद्विपरीतं 7कनकलतायां गिरिद्वयं8 जातम्॥ 9 ॥

कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्॥ 10 ॥
चित्रं कनकलतायां शरदिन्दुस्तत्र खञ्जनद्वितयम्।
तत्र च मनोजधनुषी तदुपरि गाढान्धकाराणि॥ 11 ॥
चित्रं महानेष बतावकारः क्व कान्तिरेषाभिनवैव भङ्गिः।
लोकोत्तरं धैर्यमहो प्रभावः क्वाप्याकृतिर्नूतन एष सर्गः॥ 12 ॥
स्थाणुः स्वयं मूलविहीन एव पुत्रो विशाखो रमणी त्वपर्णा।
परोपनीतैः कुसुमैरजस्रं फलत्यभीष्टं किमिदं विचित्रम्॥ 13 ॥
किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्त दानवाः।
तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः॥ 14 ॥
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां स विकाशमासत।
तनौ ममुस्तस्य न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः॥ 15 ॥
कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम्।
कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात्॥ 16 ॥
विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतनयैकया दृशा॥ 17 ॥
पश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमनसाद्रतरांशुजालम्।
सम्पूर्णलब्धललनालपनोपमानमुत्सङ्गसङ्गिहरिणस्य हिमांशुमूर्तेः॥ 18 ॥
इदं तावच्चित्रं यदवनितले पार्वणशशी कलङ्कादुन्मुक्तः किमपि च तदन्तर्विलसति।
प्रवालं माणिक्यं कुवलयदलं मन्मथधनुर्मनोवीणावादध्वनिरिति महच्चित्रमधरम्॥ 19 ॥
मूकारब्धं कमपि बधिराः श्लोकमाकर्णयन्ति 1श्रद्धालुस्तं विलिखति 2कुणिः श्लाघया वीक्षतेऽन्धः।
अभ्यारोहत्यहह सहसा पङ्कुरप्यद्रि3शृङ्गं सान्द्रालस्याः शिशुभरणतो मन्दमायान्ति वन्ध्याः॥ 20 ॥

काकुत्स्थेन शिरांसि यानि शतशश्छिन्नानि मायानिधेः पौलस्त्यस्य विमानसीमनि तथा भ्रान्तानि नाकौकसाम्।
तान्येवास्य धनुःश्रमप्रशमनं कुर्वन्ति सीतापतेः क्रीडाचामरडम्बरानुकृतिभिर्दोलायमानैः कचैः॥ 21 ॥
किं ब्रूमो हरिणस्य विश्वमुदरे किं वा फणान्भोगिनः शेते यत्र हरिः स्वयं जलनिधेः सोऽप्येकदेशे स्थितः।
आश्चर्यं कलशोद्भवो 4मुनिरसौ यस्यैकहस्तेऽम्बुधिर्गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः॥ 22 ॥

दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः।
द्राक्पर्यस्तकपालसम्पुटमिलद्ब्रह्माण्डभाण्डोदरभ्राम्यत् पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति॥ 23 ॥


  1. उदकेन. ↩︎ ↩︎

  2. खमाकाशं तस्य पुष्पेण कृतः शेखरः शिरोभूषणं येन. ↩︎ ↩︎

  3. मरुमरीचिकोदके कृतमज्जनः. ↩︎ ↩︎

  4. शशशृङ्गकृतधनुर्धारी. ↩︎ ↩︎

  5. विश्वासः. ↩︎

  6. स्त्री. ↩︎

  7. सुवर्णवल्ल्यां तत्तुल्यायामङ्गयष्ट्याम्. ↩︎

  8. पर्वततुल्यं स्तनद्वयमिति भावः. ↩︎