अस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी।
साधिशेते कथं देवी ज्वलान्तीमधुना चिताम्॥ 1 ॥
साक्षान्मघवतः पौत्रः पुत्रो गाण्डीवधन्वनः।
स्वस्रीयो वासुदेवस्य तं गृध्राः पर्युपासते॥ 2 ॥
असहायः सहायार्थी मामनुध्यातवान्ध्रुवम्।
पीड्यमानः शरैस्तीक्ष्णैर्द्रोणद्रौणिकृपादिभिः॥ 3 ॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य हि दातारं भर्तारं का न शोचति॥ 4 ॥
अथ बद्धजटे रामे सुमन्त्रे गृहमागते।
त्यक्तो राजा सुतत्यागादविश्वस्तैरिवासुभिः॥ 5 ॥
देशे देशे कलत्राणि देशे दशे च बान्धवाः।
तं देशं नैव पश्यामि यत्र भ्राता सहोदरः॥ 6 ॥
प्रियस्य सुहृदो यत्र मम तत्रैव सम्भवः।
भूयादमुष्य भूयोऽपि भूयासमनुसञ्चरः॥ 7 ॥
विकृन्ततीव मर्माणि देहं शोषयतीव मे।
दहतीवान्तरात्मानं क्रूरः शोकाग्निरुत्थितः॥ 8 ॥
अविशीर्णकान्तपात्रे नव्यदशे सुमुखि सम्भृतस्नेहे।
मद्गेहदीपकलिके कथमुपयातासि निर्वाणम्॥ 9 ॥
वत्स गच्छ मम वाचिकमेतद्रामचन्द्रचरणे कथयेथाः।
आवयोरिव भवेदनुरागो नावयोरिव विधिः प्रतिकूलः॥ 10 ॥
शैशवात्प्रभृति योषितां प्रियैः सौहृदादपृथगाशयां प्रियाम्।
छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव॥ 11 ॥
शीलानि ते चन्दनशीतलानि श्रुतानि भूमीतलविश्रुतानि।
तथापि जीर्णौ पितरावतस्मिन् विहाय हा वत्स कथं प्रयासि॥ 12 ॥
वनी मुनीनामटवी तरूणां दरी गिरीणां तु गवेषितैव।
अतः परं लक्ष्मण पक्ष्मलाक्षीं प्राणा बहिर्भूय गवेषयन्तु॥ 13 ॥
अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा॥ 14 ॥
गृहिणीसचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्॥ 15 ॥
अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया।
तदिहानपराधिनि प्रिये सखि कोऽयं करुणोज्झितक्रमः॥ 16 ॥
विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः।
अनयोर्घटनाविधेः स्फुटं तनु खड्गेन शिरीषकर्तनम्॥ 17 ॥
मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी।
गतिस्तयोरेष जनस्तमर्दयन्नहो विधे त्वां करुणा रुणद्धि न॥ 18 ॥
मदर्थसन्दष्टमृणालमन्थरः प्रियः कियद्दूर इति त्वयोदिते।
विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये स कीदृग्भविता तव क्षणः॥ 19 ॥
इयमियं मयदानवनन्दिनी त्रिदशनाथजितः प्रसवस्थली।
किमपरं दशकन्धरगेहिनी त्वयि करोति करद्वययोजनम्॥ 20 ॥
उत्खातदैवतमिवायतनं मुरारेरस्ताचलान्तरितसूर्यमिवान्तरिक्षम्।
हम्मीरभूभुजि गते सुरवेश्म विश्वं पश्यामि हारमिव नायकरत्नशून्यम्॥ 21 ॥
आदाय मांसमखिलं स्तनवर्जमङ्गान्मां मुञ्च वागुरिक यामि कुरु प्रसादम्।
सीदन्ति शष्पकवलग्रहणानभिज्ञा मन्मार्गवीक्षणपराः शिशवो मदीयाः॥ 22 ॥
सद्यः 1पुरीपरिसरेऽपि शिरीष2मृद्वी गत्वा जवात्त्रिचतुराणि पदानि सीता।
गन्तव्यमस्ति कियदित्यसकृद्ब्रु3वाणा रामाश्रुणः कृतवती प्रथमावतारम्॥ 23 ॥
हत्वा पतिं नृपमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद्गणिकास्मि जाता।
पुत्रं पतिं समधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम्॥ 24 ॥
अस्तङ्गते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति सस्मरणीयशोभा।
इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि॥ 25 ॥
यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे।
श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते॥ 26 ॥
दैवे 4पराग्वदनशालिनि 5हन्त जाते याते च सम्प्रति दिवं प्रति बन्धुरत्ने।
कस्मै मनः कथयितासि निजामवस्थां कः शीतलैः शमयिता वचनैस्तवा6धिम्॥ 27 ॥
सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्यापि खे7दकलिता विमुखीबभूव।
सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव॥ 28 ॥
धृत्वा पदस्खलनभीतिवशात्करं मे यारूढवत्यसि शिलाशकलं विवाहे।
सा मां विहाय कथमद्य विलासिनि 8द्यामारोहसीति हृदयं शतधा प्रयाति॥ 29 ॥
भूमौ स्थिता रमण नाथ मनोहरेति सम्बोधनैर्यमधिरोपितवत्यसि द्याम्।
स्वर्गं गता कथमिव क्षिपसि त्वमेणशावाक्षि तं धरणिधूलिषु मामिदानीम्॥ 30 ॥
कनकहरिणं हत्वा रामो ययौ निजमाश्रमं जनकतनयां प्राणेभ्योऽपि प्रियामविलोकयन्।
दृढमुपगतैर्बाष्पापूरैर्निमीलितलोचनो न विशति कुटीमाशातन्तुप्रणाशभयादसौ॥ 31 ॥
अथेदं रक्षोभिः कनकहरिणच्छ9द्मविधिना तथा 10वृत्तं 11पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये 1करणकरुणैरार्यचरितैरपि 2ग्रावा रोदित्यपि 3दलति वज्रस्य हृदयम्॥ 32 ॥
ध्रुवं 4ध्वंसो भावी जलनिधिमहीशैलसरितामतो मृत्योः शीर्यत्कणलघुषु का जन्तुषु कथा।
तथाप्युच्चैर्बन्धुव्यसनजनितः कोऽपि विषयो विवेक5प्रोन्माथी दहति हृदयं शोकदहनः॥ 33 ॥
अक्षत्रारिकृताभिमन्युहननप्रोद्भूततीव्रक्रुधः पार्थस्याकृतशात्रवप्रतिकृतेरन्तः शुचा मुह्यतः।
कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति वक्त्राद्बहिः॥ 34 ॥
कोऽहं ब्रूहि सखे स्वयं स भगवानार्यः स को राघवः के यूयं बत नाथ नाथ किमिदं दासोऽस्मि ते लक्ष्मणः।
कान्तारे किमिहास्महे बत सखे देव्या गतिर्मृग्यते का देवी जनकाधिराजतनया हा जानकि क्वासि हा॥ 35 ॥
मध्याह्ने दववह्निनोष्मसमये दन्दह्यमानाद्गिरेः कृच्छ्रान्निर्गतमुत्तृषं जलमथो वीक्ष्यैकरक्षाक्षमम्।
प्रेम्णा जीवयितुं मिथः पिबपिबेत्युच्चार्य मिथ्या पिबन्निर्मग्नास्यमपीतवारि हरणद्वन्द्वं विपन्नं वने॥ 36 ॥
हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषो धिक्प्राणान्पतितोऽशनिर्हुतवहस्तेऽङ्गेषु दग्धे दृशौ।
इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि॥ 37 ॥
यास्यत्यद्य शकुन्तलेति हृदयं सम्स्पृष्टमुत्कण्ठया कण्ठस्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम्।
वैक्लव्यं मम तावदीदृशमपि स्नेहादर6ण्यौकसः पीड्यन्ते 7गृहिणः कथं न 8तनयाविश्लेषदुःखैर्नवैः॥ 38 ॥
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम्।
आदौ वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्॥ 39 ॥
या केलिच्युतकेशलेशविषमां शय्यां न भेजे पुरा या जालान्तरनिर्गतार्ककिरणद्योतादपि म्लायते।
सेयं निष्ठुरकाष्ठसञ्चितचितां देदीप्यमानानलां सस्मेरा भजते यदि प्रियमुखं स्नेहस्य किं दुष्करम्॥ 40 ॥
ध्वस्तः काव्योरुमेरुः कविविपणिमहारत्नराशिर्विशीर्णः शुष्कः शब्दौघसिन्धुः प्रलयमुपगतो वाक्यमाणिक्यकोशः।
दिव्योक्तीनां निधानं निधनमुपगतं हा हता दिव्यवाणी बाणे गीर्वाणवाणी प्रणयिनि विधिना शायिते दीर्घनिद्राम्॥ 41 ॥