भर्तुः पिण्डानृणकरो यशःक्रयमहापणः।
सुराङ्गनास्वयंग्राहो रम्यः कालोऽयमागतः॥ 1 ॥
प्रायेण सुकरं दानं प्रायेण सुकरं तपः।
प्राणानपेक्षी व्यापारः पुनर्वीरस्य दुष्करः॥ 2 ॥
मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः।
एते वीरावलोकिन्या लक्ष्म्या नवनवभ्रमाः॥ 3 ॥
खड्गास्तिष्ठन्तु मत्तेभकुम्भकूटाट्टहासिनः।
एकदोर्दण्डशेषेऽपि कः सहेत पराभवम्॥ 4 ॥
हतेऽभिमन्यौ क्रुद्धेन तत्र पार्थेन संयुगे।
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः॥ 5 ॥
लोहितायति चादित्ये त्वरमाणो धनंजयः।
पञ्चविंशतिसाहस्रान्निजघान महारथान्॥ 6 ॥
रथेभ्यो गजवाजिभ्यः सङ्ग्रामे वीरसङ्कराः।
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः॥ 7 ॥
पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः।
प्रजज्वाल रणे भीष्मो विधूम इव पावकः॥ 8 ॥
आकर्णपलितः श्यामो वयसा शीतिपञ्चकः।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत्॥ 9 ॥
लक्ष्मणो लघुसन्धानो दूरपाती च राघवः।
कर्णो दृढप्रहारी च पार्थस्यैते त्रयो गुणाः॥ 10 ॥
न कालस्य न शक्रस्य न विष्णोर्वित्तदस्य च।
श्रूयन्ते तानि कर्माणि यानि युद्धे हनूमतः॥ 11 ॥
सप्तषष्टि हताः कोट्यो वानराणां तरस्विनाम्।
पश्चिमेनाह्नःशेषेण मेघनादेन सायकैः॥ 12 ॥
धृतधनुषि शौर्यशालिनि शैला न नमन्ति यत्तदाश्चर्यम्।
रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु॥ 13 ॥
जीवन्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम्।
कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या॥ 14 ॥
रविमणिरपि निश्चेष्टः पादैस्तिग्मद्युतेर्मनाक्पृष्टः।
ज्वलतितरामिति को वा मन्युं सोढुं क्षमो मानी॥ 15 ॥
छिन्नेऽपि शस्त्रभिन्नेऽप्यापत्पतितेऽपि निर्विशेषेऽपि।
हनुमति कृतप्रतिज्ञे दैवमदैवं यमोऽप्ययमः॥ 16 ॥
लोकः शुभस्तिष्ठतु तावदन्यः पराङ्मुखानां समरेषु पुंसाम्।
पत्न्योऽपि तेषां न ह्रिया मुखानि पुरः सखीनामपि दर्शयन्ति॥ 17 ॥
हा तात तातेति सवेदनार्तः क्वणञ्छकृन्मूत्रकफानुलिप्तः।
वरं मृतः किं भवने किमाजौ सन्दष्टदन्तच्छदभीमवक्त्रः॥ 18 ॥
संमूर्च्छितं संयुगसम्प्रहारैः पश्यन्ति सुप्तप्रतिबुद्धतुल्यम्।
आत्मानमङ्गेषु सुराङ्गनानां मन्दाकिनीमारुतवीजिताङ्गम्॥ 19 ॥
कश्चिद्द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य।
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श॥ 20 ॥
ते क्षत्त्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः।
कुम्भेषु लग्नाः सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम्॥ 21 ॥
भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः।
गाढं शिवाभिः परिरभ्यमाणाः सुराङ्गनाश्लिष्टभुजान्तरालाः॥ 22 ॥
सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम्।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम्॥ 23 ॥
कोऽप्येष खण्डितशिरा विकसन्मुखश्रीः प्रारब्धताण्डवविधिः सुरकामिनीभिः।
आलोक्यते निजकराभिनयानुरूपव्यापारितेक्षणनिवेदितसत्त्वसारः॥ 24 ॥
स्त्रीषु प्रवीरजननी जननी तवैव देवी स्वयं भगवती गिरिजापि यस्य।
त्वद्दोर्वशीकृतविशाखमुखावलोकव्रीडाविदीर्णहृदया स्पृहयाम्बभूव॥ 25 ॥
शस्त्रीकृतस्तरुवरः कपिपुङ्गवेन लङ्केशवक्षसि मृणालमृदुः पपात।
तत्र स्थितैश्च कुसुमैः कुसुमेषुरेनं सीतावियोगविधुरं दृढमाजघान॥ 26 ॥
दृष्टिस्तृणीकृतजगत्त्रयसत्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एषः॥ 27 ॥
अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतैरपहृतस्य ततापि नास्था।
कोऽप्येष वीरशिशुकाकृतिरप्रमेयमाहात्म्यसारसमुदायमयः पदार्थः॥ 28 ॥
समरविहरदस्माद्भल्लनिष्पातभिन्नप्रतिनरपतिभिन्नाद्भास्वता बिम्बमध्यात्।
वयमहह धरायां पातयामः पताकावसनपवनलोलं वारि दिव्यापगायाः॥ 29 ॥
वयस्याः क्रोष्टारः प्रतिशृणुत बद्धोऽञ्जलिरयं किमप्याकाङ्क्षामः क्षरति न तथा वीरचरितम्।
मृतानामस्माकं भवति परवश्यं वपुरिदं भवद्भिः कर्तव्यं नहि नहि पराचीनचरणम्॥ 30 ॥
कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं जटाजूटग्रन्थिं द्रढयसि रघूणां परिवृढः॥ 31 ॥
महासेनो यस्य प्रमदयमदंष्ट्रासहचरैः शरैर्मुक्तो जीवन्द्विरिव शरजन्मा समभवत्।
इमां च क्षत्राणां भुजवनमहादुर्गविषमामयं वीरो धीमानजयदुदविंशान्वसुमतीम्॥ 32 ॥
पुरोजन्मा नाद्य प्रभृति मम रामः स्वयमहं न पुत्रः पौत्रो वा रघुकुलभुवां च क्षितिभुजाम्।
अधीरं धीरं वा कलयतु जनो मामयमयं मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः॥ 33 ॥
चापाचार्यस्त्रिपुरविजयी कार्तवीर्यो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं 1हन्तकारः।
अस्त्वेवैतत्किमु कृतवतो रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः॥ 34 ॥
अन्त्रैः स्वैरपि संयताग्रचरणो मूर्च्छाभिरामः क्षणे स्वाधीनव्रणिताङ्गशस्त्रनिचिते रोमोद्गमं वर्णयन्।
भग्नानुद्वलयन्निजान्परभटान् सन्तर्जयन्निष्ठुरं धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते॥ 35 ॥
जन्मेन्दोरमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुःशासनकोष्णशोणितसुराक्षीबं रिपुं भाषसे।
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे मत्त्रासान्नृपशो विहाय समरं पङ्केऽधुना लीयसे॥ 36 ॥
वीरोऽसौ किमु वर्ण्यते दशमुखश्छिन्नैः शिरोभिः स्वयं यः पूजास्रजमुत्सुको घटयितुं देवस्य खट्वाङ्गिनः।
सूत्रार्थी हरकण्ठसूत्रभुजगव्याकर्षणायोद्यतः साटोपं प्रमथैः कृतभ्रुकुटिभिश्छित्त्वान्तरे वारितः॥ 37 ॥
सन्तुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डलीक्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर्वरम्।
याञ्चादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं वर्ण्यते॥ 38 ॥
भूमात्रं कियदेतदर्णवमितं तत्साधितं हार्यते यद्वीरेण भवादृशेन वदति त्रिःसप्तकृत्वो जयः।
वीरोऽयं नवबाहुरीदृशमिदं घोरं च वीरव्रतं तत्क्रोधाद्विरम प्रसीद भगवञ्जात्यैव पूज्योऽसि नः॥ 39 ॥
तात त्वं निजकर्मणैव गमितः स्वर्गं यदि स्वस्ति ते ब्रूमस्त्वेकमिदं वधूहृतिकथां तातान्तिकं मा कृथाः।
रामोऽहं यदि तद्दिनैः कतिपयैर्व्रीडानमत्कन्धरः सार्धं बन्धुजनैः सुरेन्द्रविजयी वक्ता स्वयं रावणः॥ 40 ॥
त्वय्यर्धासनभाजि किन्नरगणोद्गीतैर्भवद्विक्रमैरन्तःसम्भृतमत्सरोऽपि भगवानाकारगुप्तौ कृती।
उन्मीलद्भवदीयदक्षिणभुजारोमाञ्चविद्धोच्चरद्बाष्पैरेव विलोचनैरभिनयत्यानन्दमाखण्डलः॥ 41 ॥
शस्त्राशस्त्रिकथैव काननमगाद्गीर्वाणपाणिंधमाः पन्थानो दिवि सङ्कुचन्ति वसुधा वन्ध्या न सूते भटान्।
लक्ष्मीरप्यरविन्दसौधवलभीनिर्व्यूहपर्यङ्किकाविश्रान्तैरलिभिर्न कुञ्जरघटागण्डोत्करैर्मोदते॥ 42 ॥
अस्त्रौघप्रसरेण रावणिरसौ यं दुर्यशोभागिनं चक्रे गौतमशापयन्त्रितभुजस्थेमानमाखण्डलम्।
कच्छागर्तकुलीरतां गमयता वीर त्वया रावणं तत्संमृष्टमहो विशल्यकरिणी जागर्ति सत्पुत्रता॥ 43 ॥
चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः सङ्ग्रामाध्वरदीक्षितो 1नरपतिः 2पत्नी गृहीतव्रता।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय 3रसति स्फीतं यशो दुन्दुभिः॥ 44 ॥
अद्यारभ्य कठोरकार्मुकलताविन्यस्तहस्ताम्बुजस्तावन्न प्रकटीकरोमि नयने शोणे निमेषोदयात्।
यावत्सायककोटिपाटितरिपुक्ष्मापालमौलिस्खलन्मल्लीमाल्यमिलत्परागपटलैरामोदिनी मेदिनी॥ 45 ॥
नो तावत्कलयामि केलिकृपणे वामभ्रुवो लोचने तावन्न प्रणयावलीढमनसः पश्यामि मातुर्मुखम्।
यावत्तारकुठारपातनिपतत्प्रत्यर्थिपृथ्वीपतिभ्राम्यत्स्वर्णकिरीटबद्धशिरसो भ्राम्यन्ति नो फेरवः॥ 46 ॥
निष्पीते कलशोद्भवेन जलधौ गौरीपतेर्गङ्गया होतुं हन्त वपुर्ललाटदहने यावत्कृतः प्रक्रमः।
तावत्तत्र मया विपक्षनगरीनारीदृगम्भोरुहद्वन्द्वप्रस्खलदस्रवारिपटलैः सृष्टाः पयोराशयः॥ 47 ॥
आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमानज्याघातश्रेणिसंज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्तिः।
वक्षःपीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पुषत्कान् प्राप्तो राजन्यगोष्ठीवनगजमृगयाकौतुकी जामदग्न्यः॥ 48 ॥
क्षुद्राः सन्त्रासमेते विजहित हरयो भिन्नमत्तेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः।
सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनादः किञ्चित्सम्रम्भलीलानियमितजलधिं राममन्वेषयामि॥ 49 ॥
अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौवार्यमाणे सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वीश्वराणाम्।
कर्णालं सम्भ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः॥ 50 ॥
कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया धूतदासी।
तस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वीर्यातिभारद्रविणगुरुपदं मामजित्वैव गर्वः॥ 51 ॥