०८ उत्का

अम्भोरुहाक्षि शंभोश्चरणावाराधितौ केन।
यस्मै विवलितवदना मदनाकूतं विभावयसि॥ 97 ॥
सखि स विजितो वीणावाद्यैः कयाप्यपरस्त्रिया पणितमभवत्ताभ्यां तत्र क्षपाललितं ध्रुवम्।
कथमितरथा शेपालीषु स्खलत्कुसुमास्वपि प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यते॥ 98 ॥
भ्रूभङ्गे रुचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते।
कार्कश्यं नमितेऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं1 भविष्यति कथं मानस्य तस्मिञ्जने॥ 99 ॥

किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः किंवा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः।
इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः॥ 100 ॥
यन्नाद्यापि समागतः पतिरिति प्रायः प्रपेदे परामित्थं चेतसि चिन्तयन्त्यपि सखीं न व्रीडया पृच्छति।
दीर्घं निःश्वसितं दधाति चकितं न प्रेक्षते केवलं किञ्चित्पक्वपलाण्डुपाण्डुररुचिं धत्ते कपोलस्थलीम्॥ 101 ॥
आनेतुं न गता किमु प्रियसखी भीतो भुजङ्गात् किमु क्रुद्धो वा प्रतिषेधवाचि किमसौ प्राणेश्वरो वर्तते।
इत्थं कर्णसुवर्णकेतकरजःपातोपघातच्छलादक्ष्णोः कापि नवोढनीरजमुखी बाष्पोदकं मुञ्चति॥ 102 ॥
स्नानं वारिदवारिभिर्विरचितो वासो घने कानने शीतैश्चन्दनबिन्दुभिर्मनसिजो देवः समाराधितः।
नीता जागरणव्रतेन रजनी व्रीडा कृता दक्षिणा तप्तं किं न तपस्तथापि स कथं नायाति नेत्रातिथिः॥ 103 ॥


  1. धारणम्. ↩︎