०७ वासकसज्जा

निजपाणिपल्लवतटस्खलनादभिनासिकाविवरमुत्पतितैः।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः॥ 88 ॥
नेदं समीरितमकारि कला न चेयमित्याकुलाः कथमपि प्रतमार्धमह्नः।
एवं विधेयमथ वाच्यमिदं मयेति शेषं प्रियाः सुकृतिनामतिवाहयन्ति॥ 89 ॥
कृतं वपुषि भूषणं चिकुरधोरणी धूपिता कृता शयनसन्निधौ क्रमुकवीटिकासम्भृतिः।
अकारि हरिणीदृशा भवनमेत्य देहत्विषा स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्दिनम्॥ 90 ॥
विदूरे केयूरे कुरु करयुगे रत्नवलयैरलं गुर्वी ग्रीवाभरणलतिकेयं किमनया।
नवामेकामेकावलिमपि मयि त्वं विरचयेर्न पथ्यं नेपथ्यं बहुतरमनङ्गोत्सवविधौ॥ 91 ॥
श्वश्रूं स्वापयति च्छलेन च तिरोधत्ते प्रदीपाङ्कुरं धत्ते सौधकपोतपोतनिनदैः साङ्केतिकं चेष्टितम्।
शश्वत्पार्श्वविवर्तिताङ्गलतिकं लोलत्कपोलद्युति क्वापि क्वापि कराम्बुजं प्रियधिया तल्पान्तिके न्यस्यति॥ 92 ॥
चोलं नीलनिचोलकर्षणविधौ चूडामणिं चुम्बने याचिष्ये कुचयोः करार्पणविधौ काञ्चीं पुनः काञ्चनीम्।
इत्थं चन्दनचर्चितैर्मृगमदैरङ्गानि संस्कुर्वती तत्किं यन्न मनोरथं वितनुते वारेषु वाराङ्गना॥ 93 ॥
दृष्ट्वा दर्पणमण्डले निजवपुर्भूषां मनोहराणीं दीप्तार्चिः कपिशं च मोहनगृहं त्रस्यत्कुरङ्गीदृशा।
एवं नौ सुरतं भविष्यति चिरादद्येति सानन्दया कामं कान्तदिदृक्षया च ललिता द्वारेऽर्पिता दृष्टयः॥ 94 ॥
हारं गुम्फति तारकान्तिरुचिरं मथ्नाति काञ्चीलतां दीपं न्यस्यति किन्तु तत्र बहुलं स्नेहं न धत्ते पुनः।
आलीनामिति वासकस्य रजनौ कामानुरूपां क्रियां साचिस्मेरमुखी नवोढसुमुखी दूरात्समुद्वीक्षते॥ 95 ॥
शिल्पं दर्शयितुं करोति कुतुकात्कह्लारहारस्रजं चित्रप्रेक्षणकैतवेन किमपि द्वारं समुद्वीक्षते।
गृह्णात्याभरणं नवं सहचरीभूषाजिगीषामिषादित्थं पद्मदृशः प्रतीत्य चरितं स्मेराननोऽभूत् स्मरः॥ 96 ॥