०६ प्रोषितभर्तृका

अर्पयति प्रतिदिवसं प्रियस्य पथि लोचने बाला।
निक्षिपति कमलमालाः कोमलमिव कर्तुमध्वानम्॥ 80 ॥
आकस्मिकस्मितमुखीषु सखीषु विज्ञाविज्ञास्वपि प्रमयनिह्नवमाचरन्ती।
तत्रैव रङ्कुनयना नयनारविन्दमस्पन्दमाहितवती दयिते गतेऽपि॥ 81 ॥
विरहविदितमन्तः प्रेम विज्ञाय कान्तः पुनरपि वसु तस्मादेत्य मे दास्यतीति।
मरिचनियममक्ष्णोर्न्यस्य बाष्पोदबिन्दून्विसृजति पुरयोषिद्द्वारदेशोपविष्टा॥ 82 ॥
तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्॥ 83 ॥
माला बालाम्बुजदलमयी मौक्तिकी हारयष्टिः काञ्ची याते प्रभवति हरौ सुभ्रुवः प्रस्थितैव।
अन्यद्बूमः किमपि धमनी वर्तते वा न वेति ज्ञातुं बाहोरहह वलयं पाणिमूलं प्रयाति॥ 84 ॥
समर्प्य हृदि दारुणां मदनवेदनां भूयसीमनेन तव वर्त्मना प्रचलितः स मे वल्लभः।
न वामदिशि शब्दितं किमिति बालया वायस त्वया मदनसारिके किमिति वा कृतं न क्षुतम्॥ 85 ॥
आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्वहः परिणतौ ध्वान्ते समुत्सर्पति।
दत्त्वैकं सशुचा गृहं प्रतिपदं पान्थस्त्रियास्मिन्क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम्॥ 86 ॥
श्वश्रूः पद्मदलं ददाति तदपि भ्रूसंज्ञया गृह्यते सद्यो मर्मरशङ्कया न च तया संस्पृश्यते पाणिना।
यातुर्वाचि सुहृद्गणस्य वचसि प्रत्युत्तरं दीयते श्वासः किंतु न मुच्यते हुतवहक्रूरः कुरङ्गीदृशा॥ 87 ॥