उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः।
यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः॥ 69 ॥
निःस्नेह निष्करुण निस्त्रप निर्निमित्तं मद्वञ्चक त्वमपि सम्प्रति वञ्चितः स्याः।
इत्यक्षराणि लिखितानि समीक्ष्य कश्चित्सङ्केतकेतकदले नितरामताम्यत्॥ 70 ॥
सङ्केतकेलिगृहमेत्य निरीक्ष्य शून्यमेणीदृशो निभृतनिःश्वसिताधरायाः।
अर्धाक्षरं वचनमर्धविकासि नेत्रं ताम्बूलमर्धकवलीकृतमेव तस्थौ॥ 71 ॥
कपटवचनभाजा केनचिद्वारयोषा सकलरसिकगोष्ठीवञ्चिका वञ्चितासौ।
इति विहसति रिङ्गद्भृङ्गविक्षिप्तचक्षुर्विकचकुसुमकान्तिच्छद्मना केलिकुञ्जः॥ 72 ॥
नायातो यदि निर्दयः सखि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम्।
पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणैरुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति॥ 73 ॥
शून्यं कुञ्जगृहं निरीक्ष्य कुटिलं विज्ञाय चेतोभुवं दूती नापि निवेदिता सहचरी पृष्टापि नो वानया।
शंभो शंकर चन्द्रशेखर हर श्रीकण्ठ शूलिञ्शिव त्रायस्वेति परंतु पङ्कजदृशा भर्गस्य चक्रे स्तुतिः॥ 74 ॥
तत्किं कामपि कामिनीमभिसृतः किंवा कलाकेलिभिर्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः॥ 75 ॥
सास्रे मा कुरु लोचने विगलति न्यस्तं शलाकाञ्जनं तीव्रं निःश्वसितं निवर्तय नवास्ताम्यन्ति कण्ठस्रजः।
तल्पे मा लुठ कोमलाङ्गि तनुतां हन्ताङ्गरागोऽश्नुते नातीतो दयितोपयानसमयो मा स्मान्यथा मन्यथाः॥ 76 ॥
अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक्सुहृद्यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि॥ 77 ॥
दत्त्वा धैर्यभुजङ्गमूर्ध्नि चरणावुल्लङ्घ्य लज्जानदीमङ्गीकृत्य घनान्धकारपटलं तन्व्या न दृष्टः प्रियः।
सन्तापाकुलया तया च परितः पाथोधरे गर्जति क्रोधाक्रान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ योजिते॥ 78 ॥
आलीभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितम्।
न्यस्ताः किंतु नवोढनीरजदृशा कुञ्जोपकण्ठे रुषा तादृग्भृङ्गकदम्बडम्बरचमत्कारस्पृशो दृष्टयः॥ 79 ॥