०४ कलहान्तरिता

द्वारि चक्षुरधिपाणि कपोलौ जीवितं त्वयि कुतः कलहोऽस्याः।
कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय॥ 41 ॥
चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारकान्ति।
सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते॥ 42 ॥
विरमति कथनं विना न खेदः सति कथने समुपैति कापि लज्जा।
इति कलहमधोमुखी सखिभ्यो लपितुमनालपितुं समाचकाङ्क्ष॥ 43 ॥
अनुनयति पतिं न लज्जमाना कथयति नापि सखीजनाय किञ्चित्।
प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्तः॥ 44 ॥
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता।
न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम्॥ 45 ॥
न बरीभरीति कबरीभरे स्रजो न चरीकरीति मृगनाभिचित्रकम्।
विजरीहरीति न पुरेव मत्पुरो विवरीवरीति न च विप्रियं प्रिया॥ 46 ॥
तत्तद्वदत्यपि यथावसरं हसत्यप्यालिङ्गनेऽपि न निषेधति चुम्बनेऽपि।
किं तु प्रसादनभयादपि निह्नुतेन कोपेन कोऽपि विहितोऽद्य रसावतारः॥ 47 ॥
न तिर्यगवलोकितं भवति चक्षुरालोहितं वचोऽपि परुषाक्षरं न च पदेषु सङ्गच्छते।
हिमार्त इव वेपते सकल एव बिम्बाधरः प्रकामविनते भ्रुवौ युगपदेव भेदं गते॥ 48 ॥
मय्यायते सपदि नयनादुत्थितं चाटु वाक्यं बद्ध्वा पाणी बहु निगदितं क्षालितं पादपद्मम्।
दत्त्वा वीटीं सविनयमथोद्वीजितं तालवृन्तैर्ब्रूते कोपं कुवलयदृशो भूयसी भक्तिरेव॥ 49 ॥
चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते।
व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता॥ 50 ॥
स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं न सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे।
इति सरभसं मानोद्रेकादुदीर्य वचस्तया रमणपदवी सारङ्‌गाक्ष्या ससम्भ्रममीक्षिता॥ 51 ॥
पयःपीठं दत्ते त्वरितमभिधत्ते न च वचः समाज्ञामाधत्ते शिरसि न विधत्ते च मिलनम्।
इति स्वान्ते गोपायितनिबिडकोपा प्रतिपदं कृशोदर्याश्चर्या प्रियमहह पर्याकुलयति॥ 52 ॥
पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी॥ 53 ॥
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या रोषप्रणयरभसाद्गद्गदगिरा।
अहो चित्रं चित्रं स्पुटमिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः॥ 54 ॥
चलं चेतः पुंसां सहजसरलाः पङ्कजदृशो भवत्येव क्रोधः क्वचिदपि कदाचित्तरुणयोः।
दहेदङ्गं भृङ्गी विधुरपि विदध्यात्परिभवं स्मरो मां मथ्नीयादिति किमपि नाज्ञासिषमहम्॥ 55 ॥
आनन्द क्वचिदञ्च मुञ्च हृदयं चातुर्य धैर्य त्वया स्थेयं क्वेति विचार्यतां रसिकते निर्याहि पर्याकुला।
रक्ताम्भोजपरीतषट्पदनदत्पक्षोपमानक्षमक्षुभ्यत्पक्ष्मचलाचलेक्षणयुगं पश्यामि तस्या मुखम्॥ 56 ॥
मानम्लानमना मनागपि नतं नालोकते वल्लभं निर्याते दयिते निरन्तरमियं बाला परं तप्यते।
आनीते रमणे बलात्परिजनैर्मौनं समालम्बते धत्ते कण्ठगतानसून्प्रियतमे निर्गन्तुकामे पुनः॥ 57 ॥
आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो भुग्नभ्रूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे।
अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष सम्प्रति कुतः कोपप्रकारोऽपरः॥ 58 ॥
एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरतस्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः॥ 59 ॥
आशङ्क्य प्रणतिं पटान्तपहितौ पादौ करोत्यादराद्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते।
मय्यालापवति प्रतीपवचनं सख्या सहाभाषते तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः॥ 60 ॥
दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणे गृहीतवसने कोपाञ्चितभ्रूलतम्।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि॥ 61 ॥
तारल्यं मुखमेलने न च वचोवैदग्ध्यमन्यादृशं न भ्रूभङ्गपरिग्रहो न च रहःप्रश्नेऽपि मौनस्थितिः।
एवं सम्प्रति तर्क्यते तु सुदृशः कोपस्तु मद्वस्तुनि स्वाधीनेऽपि पुरेव पङ्कजदृशो यन्न प्रभुत्वग्रहः॥ 62 ॥
शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया सपदि तं धृत्वा सहासे मयि।
किञ्चित्तत्र विधातुमक्षमतया बाष्पं त्यजन्त्याः सखे ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः॥ 63 ॥
सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम्।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः॥ 64 ॥
एकस्मिञ्शयने विप1क्षरमणीनामग्रहे मुग्धया सद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः॥ 65 ॥

तल्पोपान्तमुपेयुषि प्रियतमे वक्रीकृतग्रीवया काकुव्याकुलवाचि साचिहसितस्फूर्जत्कपोलश्रिया।
हस्तन्यस्तकरे पुनर्मृगदृशा लाक्षारसक्षालितप्रोष्ठीपृष्ठमयूखमांसलरुचो विस्फारिता दृष्टयः॥ 66 ॥
भ्रूभेदो रचितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता॥ 67 ॥
न ब्रूते परुषां गिरं वितनुते न भ्रूयुगं भङ्गुरं नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि।
कान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या बहिः सख्या वक्त्रमभिप्रयच्छति परं पर्यश्रुणी लोचने॥ 68 ॥


  1. सपत्नी. ↩︎