भीतासि नैव भुजगात्पथि मद्भुजस्य सङ्गे पुनः किमपि कम्पमुरीकरोषि।
अम्भोधरध्वनिभिरक्षुभितासि तन्वि मद्वाचि साचिवदनासि किमाचरामि॥ 22 ॥
इह जगति रतीशप्रक्रियाकौशलिन्यः कति कति न निशीथे सुभ्रुवः सञ्चरन्ति।
मम तु विधिहताया जायमानस्मितायाः सहचरि परिपन्थी हन्त दन्तांशुरेव॥ 23 ॥
अम्भोजाक्ष्याः पुरनवलताधाम्नि सङ्केतभाजश्चेतोनाथे चिरयति भृशं मोहनिद्रां गतायाः।
स्वच्छं नाभीह्रदवलयितं कान्तरत्नांशुजालं तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति॥ 24 ॥
किमुत्तीर्णः पन्थाः कुपितभुजगीभोगविषमो विसोढा भूयस्यः किमिति कुलपालीकटुगिरः।
इति स्मारं स्मारं दरदलितशीतद्युतिरुचौ सरोजाक्षी शोणं दिशि नयनकोणं विकिरति॥ 25 ॥
जनो दुर्लक्ष्योऽयं कुलममलिनं वर्त्म विषमं पतिश्छिद्रान्वेषी प्रणयिवचनं दुष्परिहरम्।
अतः काचित्तन्वी रतिविहितसङ्केतगतये गृहाद्वारं वारं निरगमदथ प्राविशदथ॥ 26 ॥
सितं वसनमर्पितं वपुषि नीलचोलभ्रमान्मया मृगमदाशया मलयजद्रवः सेवितः।
करेण परिबोधितः स्वजनशङ्कया दुर्जनः परं परमपुण्यतः सखि न लङ्घिता देहली॥ 27 ॥
प्रत्यावृत्त्य यदि व्रजामि भवनं वाचां भवेत्प्रच्यवो निर्गच्छामि निकुञ्जमेव यदि वा को वेद किं स्यादितः।
तिष्ठामो यदि वा क्वचिद्वनतटे किं जातमेतावता मध्ये वर्त्म कलानिधेः समुदयो जातः किमातन्यताम्॥ 28 ॥
भ्रातः कङ्कण किं कदाप्यसि घनाश्लेषेषु विश्लेषितं दूरे किङ्किणि किं कृताप्यसि रतारम्भे रणत्कारिणि।
किं मञ्जीर बहिः कुतोऽप्यसि रहस्तल्पाधिरोहे मया सङ्केताध्वनि बद्धवैरमिव यन्मौखर्यमालम्बसे॥ 29 ॥
उत्क्षिप्तं करकङ्कणद्वयमिदं बद्धा दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता।
आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः॥ 30 ॥
एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तस्यालयमागता समदना हृष्टा जलार्द्रालका।
विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता॥ 31 ॥
मार्गे पङ्कचिते घनान्धतमसे निःशब्दसञ्चारया गन्तव्या च मया प्रियस्य वसतिर्मुग्धेति कृत्वा मतिम्।
आजानूद्धृतनूपुरा करतलेनाच्छाद्य नेत्रे भृशं कृच्छ्रेणाप्तपदस्थितिः स्वभवने पन्थानमभ्यस्यति॥ 32 ॥
छिद्रान्वेषणतत्परः प्रियसखि प्रायेण लोकोऽधुना रात्रिश्चापि घनान्धकारबहला गन्तुं न ते युज्यते।
मा मैवं सखि वल्लभः प्रियतमस्तस्योत्सुका दर्शने युक्तायुक्तविचारणा यदि भवेत् स्नेहाय दत्तं जलम्॥ 33 ॥
दूती विद्युदुपागता सहचरी रात्रिः सहस्थायिनी दैवज्ञो दिशति स्वनेन जलदः प्रस्थानवेलां शुभाम्।
वाचं माङ्गलिकीं तनोति तिमिरस्तोमोऽपि झिल्लीरवैर्जातोऽयं दयिताभिसारसमयो मुग्धे विमुञ्च त्रपाम्॥ 34 ॥
द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्लीस्रजं कण्ठान्मौक्तिकमालिकां च तदनु त्यक्त्वा पदैः पञ्चभिः। अन्तः कान्तवियोगकातरतया दूराभिसारातुरा तन्वङ्गी निरुपायमध्वनि परं श्रोणीभरं निन्दति॥ 35 ॥
भ्रातः प्राणगणप्रयाणसमये प्राणाधिनाथस्य मे कुर्याः स्थैर्यमपि क्षणं करुणया कण्ठस्थलेऽपि स्थितः।
यावल्लोचननीरनिर्मितनदीवन्याबिरन्यादृशं पन्थानं परिकल्पयामि भविता येनावयोर्वाञ्छितम्॥ 36 ॥
कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ सत्यं नाथ निमीलयामि नयने यावन्न शून्या दृशः।
आयाता वयमागमिष्यसि सुहृद्वर्गस्य भाग्योदयैः सन्देशं वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः॥ 37 ॥
उद्दामाम्बुदवर्दितान्धतमसि प्रभ्रष्टदिङ्मण्डले काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले।
कर्णस्यासुहृदार्णवाम्बुवडवावह्नेर्यदन्तःपुरादायातासि तदम्बुजाक्षि कृतकं मन्ये भयं योषिताम्॥ 38 ॥
पल्लीनामधिपस्य पङ्कजदृशां पर्वोत्सवामन्त्रणे जाते सद्मजना मिथः कृतमहोत्साहं पुरः प्रस्थिताः।
सव्याजं स्थितयोर्विहस्य गतयोः शुद्धान्तमन्त्रान्तरे यूनोः स्विन्नकपोलयोर्विजयते कोऽप्येष कण्ठग्रहः॥ 39 ॥
लोलच्चोलचमत्कृति प्रविलसत्काञ्चीलताझङ्कृति न्यञ्चत्क्रञ्चुकबन्धबन्धुरचलद्वक्षोजकुम्भोन्नति।
स्फूर्जद्दीधिति विस्फुरद्गति चलच्चामीकरालङ्कृति क्रीडाकुञ्जगृहं प्रयाति कृतिनः कस्यापि वाराङ्गना॥ 40 ॥