०२ खण्डिता

वक्षः किमु कलशाङ्कितमिति किमपि प्रष्टुमिच्छन्त्याः।
नयनं नवोढसुदृशः प्राणेशः पाणिना पिदधे॥ 10 ॥
सत्यमेव गदितं त्वया विभो जीव एक इति यत्पुरावयोः।
अन्यदारनिहिता नखव्रणास्तावके वपुषि पीडयन्ति माम्॥ 11 ॥
सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः॥ 12 ॥
शङ्किताय कृतबाष्पनिपातामीर्ष्यया विमुखितां दयिताय।
मानिनीमभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः॥ 13 ॥
वक्षोजचिह्नितमुरो दयितस्य वीक्ष्य दीर्घं न निश्वसति जल्पति नैव किञ्चित्।
प्रातर्जलेन वदनं परिमार्जयन्ती बाला विलोचनजलानि तिरोदधाति॥ 14 ॥
कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशं मुक्तास्तया परभिया परुषा न वाचः।
दूतीमुखे मृगदृशा स्खलदम्बुपूरा दूरात्परं निदधिरे नयनान्तपाताः॥ 15 ॥
भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः।
तव यदि तथा रूढं प्रेम प्रपन्नमिमां दृशां प्रकृतितरले का नः पीडा गते हतजीविते॥ 16 ॥
उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा ततो मयि विधीयतां वसु पुरा यदङ्गीकृतम्।
इति प्रचलचेतसः प्रियतमस्य वारस्त्रिया क्वणत्कनककङ्कणं करतलात्समाकृष्यते॥ 17 ॥
जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजे शोणिमा निःपीतं भवता मधु प्रविततं व्याघूर्णितं मे मनः।
भ्राम्यद्भृङ्गघने निकुञ्जभवने लब्धं त्वया श्रीफलं पञ्चेषुः पुनरेष मां बहुतरैः क्रूरैः शरैः कृन्तति॥ 18 ॥
प्रातः प्रातरुपागतेन जनिता निर्निद्रता चक्षुषोर्मन्दाया मम गौरवं व्यपहृतं प्रोत्पादितं लाघवम्।
किं तद्यन्न कृतं त्वया रमण भीर्मुक्ता मया गम्यतां दुःखं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि॥ 19 ॥
लाक्षालक्ष्म ललाटपट्टफलके केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।
दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः॥ 20 ॥
कान्तं वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकैरालिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत्।
रूक्षं नोक्तवती न वा कृतवती निश्वासकोष्णे दृशौ प्रातर्मङ्गलमङ्गना करतलादादर्शमादर्शयत्॥ 21 ॥