यदपि रतिमहोत्सवे नकारो यदपि करेण च नीविधारणानि।
प्रियसखि पतिरेष पार्श्वदेशं तदपि न मुञ्चति तत्किमाचरामि॥ 1 ॥
मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति।
अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरागः॥ 2 ॥
अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः।
किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः पतिर्नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःखितम्॥ 3 ॥
श्वश्रूः पश्यति नैव पश्यति यदि भ्रूभङ्गवक्रेक्षणा मर्मच्छेदपटु प्रतिक्षणमसौ ब्रूते ननान्दा वचः।
अन्यासामपि किं व्रवीमि चरितं स्मृत्वा मनो वेपते कान्तः स्निग्धदृशा विलोकयति मामेतावदागः सखि॥ 4 ॥
वक्त्रस्याधरपल्लवस्य वचसो हास्यस्य लास्यस्य वा धन्यानामरविन्दसुन्दरदृशां कान्तस्तनोति स्तुतिम्।
स्वप्नेनापि न गच्छति श्रुतिपथं चेतःपथं दृक्पथं काप्यन्या दयितस्य मे सखि कथं तस्यास्तु भेदग्रहः॥ 5 ॥
स्वीयाः सन्ति गृहे गृहे मृगदृशो यासां विलासक्वणत्काञ्चीकुण्डलहेमकङ्कणझणत्कारो न विश्राम्यति।
को हेतुः सखि कानने पुरपथे सौधे सखी सन्निधौ भ्राम्यन्ती मम वल्लभस्य परितो दृष्टिर्न मां मुञ्चति॥ 6 ॥
सन्त्येव प्रतिमन्दिरं युवतयो यासां सुधासागरस्रोतः-स्यूतसरोजसुन्दरचमत्कारा दृशोर्विभ्रमाः।
चित्रं किं तु विचित्रमन्मथकलावैशद्यहेतोः पुनर्वित्तं चित्तहरं प्रयच्छति युवा मय्येव किं कारणम्॥ 7 ॥
एतत्किं प्रणयिन्यपि प्रणयिनी यन्मानिनी जायते मन्ये मानविधौ भविष्यति सुखं किञ्चिद्विशिष्टं रसात्।
वाञ्छा तस्य सुखस्य मेऽपि हृदये जागर्ति नित्यं परं स्वप्नेऽप्येष न मेऽपराध्यति पतिः कुप्यामि तस्मै कथम्॥ 8 ॥
मध्ये न क्रशिमा स्तने न गरिमा देहे न वा कान्तिमा श्रोणौ न प्रतिमा गतौ न गरिमा नेत्रे न वा वक्रिमा।
लास्ये न द्रढिमा न वाचि पटिमा हास्ये न वा स्फीतिमा प्राणेशस्य तथापि मज्जति मनो मय्येव किं कारणम्॥ 9 ॥