७९ वेश्यागर्हणम्

1वैश्यासौ मदनज्वाला 2रूपेन्धनसमेधिता।
कामिभिर्यत्र हूयन्ते यौवनानि धनानि च॥ 1 ॥

अयं च सुरतज्वाला कामाग्निः प्रणयेन्धनः।
नराणां यत्र हूयन्ते यौवनानि धनानि च॥ 2 ॥
इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः।
निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः॥ 3 ॥
धनाशा कैत3वस्नेहो वितथैश्चित्त4तोषणम्।
एकमप्यस्ति नात्मासु कथं वेश्यासमा वयम्॥ 4 ॥

कष्टं जीवति गणिका गणकोऽपि च राजसेवको वैद्यः।
दिवसे दिवसे मरणं परस्य यच्चित्तरञ्जनं वृत्तिः॥ 5 ॥
न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति।
यवाः प्रकीर्णा न भवन्ति शालयो न वेशजाताः शुचयस्तथाङ्गनाः॥ 6 ॥
हारहीरकहिरण्यभूषणैस्तोषमेति गणिका 5धनैषिणी।
प्रेमकोमलकटाक्षवीक्षितैरेव जीवति कुलाङ्गनाजनः॥ 7 ॥

एता हसन्ति च रुदन्ति च वित्तहेतोर्विश्वासयन्ति पुरुषं न च विश्वसन्ति।
तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः 6श्मशानघटिका इव वर्जनीयाः॥ 8 ॥

7जात्यन्धाय च दुर्मुखाय च गलत्कुष्ठाभिभूताय च।
8यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मी9लवश्रद्धया 10पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः॥ 9 ॥

केशः कुन्दमिषादिवोपहसति द्रव्यैर्विहीनाञ्जनान्यूनां ग्रन्थिधनं विलोकितुमिवोद्ग्रीवस्तनस्तिष्ठति।
प्रेमच्छेदकृपाणवल्लिसुषुमां रोमालिरालम्बते यस्याः सा कथमस्तु चेतसि चमत्काराय वाराङ्गना॥ 10 ॥
वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽपि वर्णाधमः फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा।
ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवेतरे त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वं भज॥ 11 ॥


  1. वाराङ्गना. ↩︎

  2. रूपमेवेन्धनं काष्ठं तेन सम्यक्प्रदीप्ता. ↩︎

  3. कपटस्नेहः. ↩︎

  4. असत्यगोष्ठीभिः. ↩︎

  5. धनेच्छावती. ↩︎

  6. श्मशानस्थिता घटिकाः. घटयो घटा इति यावत्. एता यथा अस्पृश्यास्तथैव ता वर्जनीया इति भावः. ↩︎

  7. जन्मनान्धाय. ↩︎

  8. अर्पयन्तीषु. ↩︎

  9. लक्ष्मीलेशाशया. ↩︎

  10. गणिकासु. ↩︎