यस्य भार्या विरूपा च 1कश्मला कलहप्रिया।
अधिकाधिकभक्षा च सा 2जरा न जरा जरा॥ 1 ॥
एषैव योषितां धन्या शीलं च लभते सुखम्।
दिवा पतिव्रता भूयो नक्तं च कुलटा यतः॥ 2 ॥
पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम्।
तृणमिव लघु मन्यन्ते कामिन्यश्चौर्यरतिलुब्धाः॥ 3 ॥
3दुर्दिवसे घनतिमिरे दुःसञ्चारासु नगरवीथीषु।
पत्युर्विदेशगमने परमसुखं जघनचपलायाः॥ 4 ॥
इह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का।
तस्मिन्नभिनववध्वा नीता वीतोदयाः 4क्षणदाः॥ 5 ॥
सुखशय्या ताम्बूलं विश्रब्धाश्लेषचुम्बनादीनि।
तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतस्य॥ 6 ॥
दिवसे घटिकास्त्रिंशत्त्रिंशद्घटिकाः परं रजनौ।
लक्षं नगरयुवानस्तात विधातः किमाचरितम्॥ 7 ॥
5आरोपिता शिलायामश्मेव त्वं भवेति मन्त्रेण।
मग्नापि 6परिणयापदि जारमुखं वीक्ष्य हसितैव॥ 8 ॥
कुलपतनं7 8जनगर्हां बन्धनमपि जीवितस्य सन्देहम्।
अङ्गीकरोति सकलं वनिता परपुरुषसंसक्ता॥ 9 ॥
सखि सुखयत्य9वकाशे प्राप्तः प्रेयान्यथा तथा न गृहे।
वातादवारितादपि भवति गवाक्षानिलः शीतः॥ 10 ॥
द्वारि स्तम्भविलग्ना प्रियसखि दृष्टिं पथि क्षिपसि।
प्रहिणोषि भाग्यभाजि प्रेयसि दूतीमिव भ्रमरीम्॥ 11 ॥
सुभगं वदति जनस्तं निजपतिरिति नैष रोचते मह्यम्।
पीयूषेऽपि हि भेषजभावोपहिते भवत्यरुचिः॥ 12 ॥
इह नगरे 1प्रतिरथ्यं 2भुजङ्गसम्बा3धरुचिरसञ्चारे।
सुन्दरि मम मतमेत4न्नकुलप्रतिपालनं श्रेयः॥ 13 ॥
केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः कटवः।
बन्धक्याः परितोषो न स्यादनभीष्टदम्पत्योः॥ 14 ॥
सन्दिग्धे परलोके जनापवादे च जगति बहुचित्रे।
स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः॥ 15 ॥
यदि भवति दैवयोगात्पुमान्विरूपोऽपि बन्धकी रहसि।
न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव॥ 16 ॥
यदवधि विवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी।
पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्री॥ 17 ॥
तिमिरेऽपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च।
दन्तमयवलयराजी गृहपतिशिरसा सह स्फुटतु॥ 18 ॥
एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि।
अधुना तदेव कारणमवस्थितौ दग्धगेहपतेः॥ 19 ॥
ग्रामतरुणं तरुण्या 5नववञ्जुलमञ्जरीसनाथवरम्।
पश्यन्त्या 6भवति मुहुर्नितरां मलिना मुखच्छाया॥ 20 ॥
मया कुमार्यापि न सुप्तमेकया न जारमुत्सृज्य पुमान्विलोकितः।
अनेन गोत्रस्थितिपालनेन मे प्रसन्नतामेतु भवोपकारिणी॥ 21 ॥
पाणौ गृहीतापि पुरस्कृतापि स्नेहेन7 नित्यं परिवर्धितापि।
परोपकाराय भवेदवश्यं वृद्धस्य भार्या करदीपिकेव॥ 22 ॥
प्रियो मयैवावचितैः प्रसूनैर्हृष्टो हरस्यातनुते सपर्याम्।
अतो नतानेकलतावृतानि यास्यामि सायं विपिनानि सख्यः॥ 23 ॥
निभृतं निभृतं निभालयन्त्या वरुणाशाभरणायितं पतङ्गम्।
गुरुयन्त्रितयापि गोपवध्वा नयनान्तेन निमन्त्रितो मुकुन्दः॥ 24 ॥
शिरशि शिरसिजं दृशोर्निमेषं विटपिनि पल्लवमालये तृणं वा।
गणयितुमपि पारयन्ति केचित्प्रियसखि के कथयन्दु जारसङ्ख्याम्॥ 25 ॥
पतिरतीव धनी 8सुभगो युवापरविलासवतीषु पराङ्मुखः।
शिशुरलङ्कुरुते भवनं सदा तदपि सा सुदती रुदती कुतः॥ 26 ॥
(8. सुन्दरः; (अथ च) सुष्ठु भं नक्षत्रं तस्मिन् गच्छति. कुयोगं त्यक्त्वा भार्यां व्रजति. इदमेव रोदनकारणम्.)
नाम्बुजैर्न कुसुमैरुपमेयं1 स्वैरिणीनयनपङ्कजयुग्मम्।
नोदये दिनकरस्य न वेन्दोः केवलं तमसि यस्य विकासः॥ 27 ॥
दृग्भङ्गभङ्गिमशतैरसतीरहस्यमन्वेषयन्कपटभिक्षुक लक्षितोऽसि।
स्वस्य प्रभुर्न च भवामि ततः क्षमस्व भिक्षोपढौकनमिषादयमञ्जलिस्ते॥ 28 ॥
ब्रह्मैव सत्यमखिलं नहि किञ्चिदन्यत्तस्मान्न मे सखि परापरभेदबुद्धिः।
जारे तथा निजवरे सदृशोऽनुरागो व्यर्थं किमर्थमसतीति कदर्थयन्ति॥ 29 ॥
जन्मैव मास्तु यदि वा न नितम्बिनीषु तत्रापि चेदहह नैव कुलाङ्गनासु।
हा धिग्विधे कुलवधूरथ चेद्भवेयं नैवास्तु च क्वचन मे मनसोऽनुबन्धः॥ 30 ॥
गोष्ठेषु तिष्ठति पतिर्बधिरा ननान्दा नेत्रद्वयस्य च पाटवमस्ति यातुः।
इत्थं निशण्य तरुणी कुचकुम्भसीम्नि रोमाञ्चकञ्चकमुदञ्चितमाततान॥ 31 ॥
वयं 2बाल्ये 3बालांस्तरुणिमनि यूनः 4परिणतावपीच्छामो5 वृद्धान् परिणयविधौ नः स्थितिरियम्।
त्वयारब्धं जन्म क्षपयितुमनेनैकपतिना न मे गोत्रे पुत्री क्वचिदपि सतीलाञ्छनमभूत्॥ 32 ॥
दृशा किञ्चित्किञ्चिच्चलितभुजलीलाविलसितैः कराघातैः किञ्चिन्नखविलिखनैः किञ्चिदधिकम्।
स्पृशन्त्यः सम्बाधे6 गुरुभिरनभिप्रेक्षितपथे यथेष्टं चेष्टन्ते7 स्फुटकुचतटाः पश्य 8कुलटाः॥ 33 ॥
अनार्यप्रज्ञानामिह जनवधूनां हि मनसो महाशल्यं कर्णे तव नवकजम्बूकिसलयः।
भ्रमन् भिक्षाहेतोरधिनगरि बुद्धोऽसि न मया त्वयैतावद्वेषः पथिक न विधेयः पुनरपि॥ 34 ॥
अयं रेवा9कुञ्जः10 कुसुमशरसेवासमुचितः समीरोऽयं वेलानवदिदलदेलापरिमलः।
इयं प्रावृड्धन्या नवजलदविन्यासचतुरा पराधीनं चेतः सखि किमपि कर्तुं मृगयते॥ 35 ॥
स्थितिर्गेहोपान्ते परिजनपरीहासकलना मुहुर्यातायाते सकृदपि गृहे व्याजगमनम्।
मुहुस्तद्भोग्येऽपि क्षणपरिचयो वस्तुनि दृशः समुत्पन्नप्रेम्णः सकलमिदमापातसुखदम्॥ 36 ॥
नितम्बिन्यो नित्यं विनयपथविन्यस्तमनसः पताकाः स्युः पुत्रि प्रतिनियतमेताः स्वकुलयोः।
गुरोरित्यादेशं सदसि सुदृशामोंकृतवती गतातङ्गं राधा हरिमुखमृगाङ्कं मृगयते॥ 37 ॥
अये को जानीते निजपुरुषसङ्गो नहि तथा यथा स्त्रीणां चेतः परपुरुषसङ्गो रमयति।
अपि स्वैरं भुक्ता दिवसमखिलं वासरकृता करस्पर्शादिन्दोर्मुकुलयति नेत्राणि नलिनी॥ 38 ॥
ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटि घोटीह्रेषा विकृतविरुतं हेतुहीनं हसन्ती।
स्थानस्थानस्खलितपदविन्यासमाभासमाना यूनामग्रे वसति कुटिलं नर्तितोच्चैर्नितम्बम्॥ 39 ॥
ज्ञाता मैत्त्री सहजमधुरापातिभिर्लोचितान्तैः कर्णाकर्णि प्रथितमयशो बन्धुवर्गैरभाणि।
सम्प्रत्येवं तदपि न मनाङ्मुञ्चति प्राणनाथं को जानीते कुवलयदृशः कीदृशः प्रेमबन्धः॥ 40 ॥
भ्रूभेदैः कतिचिद्गिरा कुटिलया काश्चित्कियत्यः स्मितैः स्वैरिण्यः कथयन्ति मन्मथरसव्यापारवश्यं मनः।
कासाञ्चित् पुनरङ्गकेषु मसृणच्छायेषु मध्यस्थितो भावः काचपुटेषु 1पुष्करमिव प्रव्यक्तमालोक्यते॥ 41 ॥
यः कौमारहरः2 स एव हि 3वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः।
सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते॥ 42 ॥
दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः 4कौपीरपः पास्यति।
एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तमुमालिखन्तु जरठच्छेदा नलग्रन्थयः॥ 43 ॥
शुश्रूषस्व गुरून्निवर्तय सखीर्वन्दस्व बन्धुस्त्रियः कावेरीतटसन्निविष्टनयने मुग्धे किमुत्ताम्यसि।
आस्ते पुत्रि समीप एव गमनादेलालतालिङ्गितन्यञ्चद्बालतमालदन्तुरदरी तत्रापि गोदावरी॥ 44 ॥
भद्रं तस्य तरोः स्वयं चिरकृतप्रस्थानकं कथ्यतां दुर्वारस्तमरण्यवह्निरदहद्धिग्दारुणं दुर्वचः।
मा खिद्यस्व ततः प्रभृत्यनुदिनं तस्याः पतद्भिर्दृशोरम्भोभिः परिणद्धपल्लवघनच्छायस्तरुर्वर्धते॥ 45 ॥
स्वामी निःश्वसितेऽप्यसूयति मनोजिघ्रः सपत्नीजनः श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः।
तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते वैदग्धीमधुरप्रपञ्चचतुर व्यर्थोऽयमत्र श्रमः॥ 46 ॥
आयातासि विमुञ्च वेपथुभरं दृष्टासि नो केनचिन्नीलं चोलममुं विमुञ्च हरतु स्वेदं निशीथानिलः।
इत्यन्तर्भयसन्नकण्ठमसकृद्यामीति तल्पं गता जल्पन्ती परिरभ्यते सुकृतिभिः स्वैरं नवस्वैरिणी॥ 47 ॥
सव्रीडार्धनिरीक्षणं यदुभयोर्यद्दूतिसम्प्रेषणमद्य श्वो भविता समागम इति प्रीतिप्रसादश्च यः।
प्राप्ते कालसमागमे सरभसं यच्चुम्बनालिङ्गनं तत्कामस्य फलं तदेव सुरतं शेषा पशूनां स्थितिः॥ 48 ॥
इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नोच्छ्वासा हृदयं दहन्त्यशिशिरा नोपैति कार्श्यं वपुः।
स्वाधीनामनुकूलिकां स्वगृहणीमालिङ्ग्य यत्सुप्यते तत्किं प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते॥ 49 ॥
चेत्पौरादपि शङ्कसे हिमरुचोरप्यर्चिषो लज्जसे भोगीन्द्रादपि चेद्बिभेषि तिमिरस्तोमादपि त्रस्यसि।
चेत्कुञ्जादपि दूयसे जनघटध्वानादपि क्षुभ्यसि प्रायः पुत्रि हतास्मि हन्त भविता त्वत्तः कलङ्कः कुले॥ 50 ॥
आः पाकं न करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं तवैव जननी रण्डा त्वदीया स्वसा।[^11]
निर्गच्छ त्वरितं गृहाद्बहिरितो नेदं त्वदीयं गृहं हा हा नाथ ममाद्य देहि मरणं जारस्य भाग्योदयः॥ 51 ॥
कार्ये सत्यपि 2जातु याति न बहिर्नाप्यन्यमालोकते साध्वीरप्य3नुकुर्वती गुरुजनं श्वश्रूं च शुश्रूषते।
विस्रम्भं4 कुरुते च पत्युरधिकं प्राप्ते निशीथे पुनर्निद्राणे5 सकले जने शशिमुखी निर्याति 6रन्तुं विटैः7॥ 52 ॥
आकारणे शशी गिरा 8परभृतः पारावतश्चुम्बने हंसश्च9ङ्कमणे समं दयितया रत्यां प्रमत्तो गजः।
इत्थं भर्तरि मे समस्तयुवतिश्लाघ्यैर्गुणैः सेविते क्षुण्णं नास्ति विवाहितः पतिरिति स्यान्नैष दोषो यदि॥ 53 ॥
ज्ञातं ज्ञातिजनैः प्रमष्टमयशो दूरं गता धीरता त्यक्ता ह्रीः प्रतिपादितोऽप्यविनयः साध्वीपदं प्रोज्झितम्।
लुप्ता चोभयलोकसाधुपदवी दत्तः कलङ्कः कुले भूयो दूति किमन्यदस्ति यदसावद्यापि नागच्छति॥ 54 ॥
देहे दुर्ललितस्य देवरशिशोः स्फोटव्रणो दारुणो 10यातस्तेन वनस्पतित्वचमुपाहर्तुं मया गम्यते।
दृप्यन्तु श्वसितानि घर्मसलिलैः पत्त्राणि लुप्यन्तु वा वक्षो वा विलिखन्तु हन्त नखरैः क्रुद्धाः कपिश्रेणयः॥ 55 ॥
अम्ब श्वश्रु यदि त्वया हतशुकः सम्वर्धनीयस्तदा लौहं पञ्जरमस्य दुर्नयवतो गाढान्तरं कारय।
अद्यैनं बदरीनिकुञ्जकुहरे सम्लीनमन्विष्यती दष्टा यन्न भुजङ्गमेन तदतिश्रेयः किमेभिः क्षतैः॥ 56 ॥
न्यस्तं पन्नगमूर्ध्नि पादयुगलं भक्तिर्विमुक्ता गुरोस्त्यक्ता प्रीतिरकारि किं न भवतो हेतोर्मया दुष्कृतम्।
अङ्गानां शतयातना नयनयोः कोऽपि क्रमो रौरवः कुम्भीपाकपराभवश्च मनसो युक्तं त्वयि प्रस्थिते॥ 57 ॥
नारीणां खलु बन्धुरन्धतमसं पाथोधरः सोदरः कुञ्जं नाभिगृहं निशा सहचरी सेव्यः स्मरः क्ष्मापतिः।
इत्थं चारुचकोरचञ्चलदृशां यासां मतिर्जायते तासामेव यशः सुधांशुधवलं तासां च सौख्यं सदा॥ 58 ॥
हंसैः शैवलमञ्जरीति कबरी चञ्चूभिराकर्षिता वक्त्रे चन्द्रधिया चकोरवनिता चक्रे नखैरक्रमम्।
भृङ्गैः पङ्कजकोरकप्रतिभया वक्षोरुहो वीक्षितस्तन्मातः करवै पुनर्न सरसीतोयावगाहोद्यमम्॥ 59 ॥
आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने तत्राप्यर्पयितुं दृशं सुरुचिरां शक्नोमि न व्रीडया।
लोकोऽप्येष परोपहासकुशलः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः॥ 60 ॥
कार्येणापि विलम्बनं परगृहे श्वश्रूर्न संमन्यते शङ्कामारचयन्ति यूनि भवनं प्राप्ते मिथो यातरः।
वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा नानान्दा पुनः कष्टं हन्त मृगीदृशां पतिगृहं प्रायेण कारागृहम्॥ 61 ॥
एकान्ते बत नो गृहं शशिमुखोऽप्यन्यादृशो दृश्यते क्षिप्रं साधय यातु पुत्रि स दिने भुक्त्वान्यमावासकम्।
श्वश्र्वा संभ्रमिता किलेति बहुशः संप्रेरयन्त्या वधूः पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैवार्धसिद्धोदनम्॥ 62 ॥
एते वारिकणाः किरन्ति पुरुषान् वर्षन्ति नाम्भोधराः शैलाः शाद्वलमुद्वमन्ति न सृजन्त्येते पुनर्नायकान्।
त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान् धातः कातरमालपामि कुलटाहेतोस्त्वया किं कृतम्॥ 63 ॥
सम्पत्कस्याद्य तारा भवति तरलिता यत्पुरो नेत्रतारा दृष्टा केनाद्य काञ्ची यदभिमुखगता वेपते रत्नकाञ्ची।
उग्रः कस्याद्य तुष्टः सखि यदनुमते कश्चिदुग्रोऽनुतापः स्नातं केनाद्य वेणीपयसि विलुलिता यत्कृते कापि वेणी॥ 64 ॥
पश्यन्ति स्निग्धमुग्धं प्रतिकलमधुरैर्मोहयन्त्यङ्गहारैः साकूतैर्मन्दहासैरपि परपुरुषाञ्शश्वदानन्दयन्ति।
चेष्टन्ते चेत एते किमपि परिचयाद्धारयिष्यन्ति तेषां प्राणान् को वेद लोके परजलजदृशां चित्तमत्यन्तलोलम्॥ 65 ॥
पृथ्वी तावत्त्रिकोणा विपुलनदनदीग्रावरुद्धं तदर्धं तत्राप्यर्धं युवत्यः शिशुगतवयसो रोगिणो योगिनश्च।
त्याज्यास्तत्रापि मान्याः श्वशुरपितृमुखाः सन्ति शेषाः कियन्तो मिथ्यावादो ममायं मुखरमुखरवः पुंश्चली पुंश्चलीति॥ 66 ॥