ग्रामेऽस्मिन्प्र1स्तरप्राये न किञ्चित्पान्थ2 विद्यते।
3पयोधरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस॥ 67 ॥
पान्थ मन्दमते किंवा सन्तापमनुविन्दसि।
4पयोधरं 5समाशास्व येन शान्तिमवाप्नुयात्॥ 68 ॥
वीक्षितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः।
अहमेकाकिनी बाला तवेह वसतिः कुतः॥ 69 ॥
त्वमिव पथिक 6प्रियो मे विट7पिस्तोमेषु गमयति क्लेशान्।
किमितोऽन्यत्कुशलं मे सम्प्रति यत्पान्थ जीवामि॥ 70 ॥
किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः।
कथय तथापि 1मुदे मम कथयिष्यति पान्थ तव जाया॥ 71 ॥
यदि गन्तासि दिगन्तं पथिक पतिस्तत्र सम्बोध्यः।
नयनश्रवणाविहीना कथमुपचर्या मयैकया जननी॥ 72 ॥
निबिडतमतमालमल्लिवल्लीविचकिलराजिविराजितोपकण्ठे।
पथिक समुचितस्तवाद्य तीव्रे सवितरि तत्र सरित्तटे निवासः॥ 73 ॥
2भो पान्थ पुस्तकधर क्षणमत्र तिष्ठ वैद्योऽसि किं गणितशास्त्रविशारदोऽसि।
केनौषधेन मम पश्यति भर्तुरम्बा किं वागमिष्यति पतिः सुचिरप्रवासी॥ 74 ॥
एकाकिनी यदबला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशे।
कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धवधिरा ननु मूढ पान्थ॥ 75 ॥
रथ्यारजोरुणितधूसरिताङ्गयष्टेः कच्चित् पितुः स्मरसि पुत्रक निर्घृणस्य।
उक्त्वैवमङ्कगतयायतमायताक्ष्या पान्थस्त्रिया प्ररुदितं करुणं दिनान्ते॥ 76 ॥
भवनमिव मदीयं निर्जनः पान्थ पन्थाः कुसुमशर इवास्मिंस्तस्करा दुर्निवाराः।
3गृहप इव 4पतङ्गोऽप्येष यातो दिगन्तान्मदनसुभग भूयो नैव गन्तुं समीहे॥ 77 ॥
अहमिव दिनलक्ष्मीः प्रोषितप्राणनाथा त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः।
अयमपि परदेशः सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि॥ 78 ॥
5यामिन्येषा बहलजलदैर्बद्ध6भीमान्धकारा निद्रां यातो मम पतिरसौ क्लेशितः 7कर्मदुःखैः।
बाला चाहं 8मनसिजभयात्प्राप्तगाढप्रकम्पा ग्रामश्चोरैरयमुपहतः पान्थ निद्रां जहीहि॥ 79 ॥
कुत्रायासीः किमिवमकरोः साहसं पान्थ बन्धो यद्येतस्मिन्निवससि पुरे सावधानस्तदा स्याः।
अत्रोत्तालाः कतिचिदबलाः सन्ति यासां विलासैरुत्पद्यन्ते सपदि मदनव्याधयो दुर्निवाराः॥ 80 ॥
इयं 9सुरतरङ्गिणी न पुनरत्र नौसंगमो भवेत्तरणिमज्जनं पथिक नैव पान्थागमः।
निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे घनघनागमे 10घनरसस्य पारं व्रज॥ 81 ॥
11वाणिज्येन गतः स मे 12गृहपतिर्वार्तापि न श्रूयते प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता।
बालाहं नवयौवना निशि कथं स्थातव्यमस्मिन्गृहे सायं सम्प्रति वर्तते पथिक हे स्थानान्तरं गम्यताम्॥ 82 ॥
रे रे पान्थ कुतो भवान्नगरतो वार्ता न चापि श्रुता बाढं1 ब्रूहि युवा 2पयोदसमये हित्वा प्रियां जीवति।
सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न सम्भाव्यते॥ 83 ॥
शून्यं वेश्म 3चिरायितो गृहपतिर्जाताधुना शर्वरी स्थातुं नोचितमत्र गच्छ निभृतं लोकैर4नालक्षितः।
इत्थं लोलदृशा ह्यसावभिहितो दासीमुखेनाध्वगः स्थित्वा किञ्चिदिव क्व यामि रजनी प्राप्तेत्युदीर्य5 स्थितः॥ 84 ॥
स्मर्तव्या वयमिन्दुसुन्दरमुखि 6प्रस्तावतोऽपि त्वया स्यादेवं यदि नाथ दास्यति विधिर्जातिस्मरत्वं मम।
एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कुतः प्राणाः पान्थ समं त्वयैव चलिताः क्वाद्यापि जन्मैकता॥ 85 ॥
भ्रातः पान्थ पथि त्वया न पथिकः कश्चित्समासादितो बाले नैकशतानि कीदृश इति प्रख्यायतां वल्लभः।
यं दृष्ट्वा प्रमदाजनस्य भवतः स्फारे मुदा लोचने स ज्ञेयो दयितो ममेति पथिकायावेद्य मोहं गता॥ 86 ॥
भो पान्थ त्वरितोऽसि तिष्ठ निमिषं किञ्चिद्वदामो वयं मार्गोऽयं पुरतो द्विधा खलु भवेद्वामेन7 नो गम्यताम्।
तत्रास्ते सहकारकोमलतरोर्मूले प्रपापालिका तस्या लोच8नवागुरानिपतितो न त्वं पनर्यास्यसि॥ 87 ॥
नाथो मे विपणिं9 गतो न गणयत्येषा सपत्नी च मां त्यक्त्वा मामिह 10पुष्पिणीति गुरवः प्राप्ता गृहाभ्यन्तरम्।
शय्यामात्रसहायिनीं परिजनः श्रान्तो न मां सेवते स्वामिन्ना11गमलालनीय 12रजनीं लक्ष्मीपते रक्ष माम्॥ 88 ॥