७७ सतीवर्णनम्

यस्य भार्या 1शुचिर्दक्षा भर्तारमनुगामिनी।
नित्यं मधुरवक्त्री च सा रमा न रमा रमा॥ 1 ॥2

नित्यं स्नाता सुगन्धा च नित्यं च प्रियवादिनी।
अल्पभुङ्मितवक्त्री च देवता सा न मानुषी॥ 2 ॥
असारभूते संसारे सारभूता नितम्बिनी।
इति सञ्चिन्त्य वै शंभुरर्धाङ्गे पार्वतीं दधौ॥ 3 ॥
सैव साध्वी सुभक्तश्च सुस्नेहः सरसोज्ज्वलः।
3पाकः सञ्जायते यस्याः करादप्युदरादपि॥ 4 ॥

4रूपसम्पन्नम5ग्राम्यं प्रेम6प्रायं प्रियंवदम्।7
कुलीनमनुकूलं च 8कलत्रं कुत्र लभ्यते॥ 5 ॥

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
गृहं तु गृहिणीहीनं कान्तारादतिरिच्यते॥ 6 ॥
वृक्षमूलेऽपि दयिता यत्र तिष्ठति तद्गृहम्।
प्रसादोऽपि तया हीनो ह्यरण्यसदृशः स्मृतः॥ 7 ॥
तावत्कुलस्त्रीमर्यादा यावल्लज्जा1वगुण्ठनम्।
हृते तस्मिन्कुल्लस्त्रीभ्यो वरं वेश्याङ्गनाजनः॥ 8 ॥

कार्ये दासी रतौ वेश्या भोजने जननीसमा।
विपत्तौ बुद्धिदात्री च सा भार्या सर्वदुर्लभा॥ 9 ॥
वश्यभावेन सुमनाः सुव्रता सुसमाहिता।
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी॥ 10 ॥
न कार्येषु न भोगेषु नैश्वर्ये न सुखे तथा।
स्पृहा स्याच्च यथा भर्तुः सा नारी सुखभागिनी॥ 11 ॥
कल्योत्थानपरा नित्यं गुरुशुश्रूषणे रता।
सुसंमृष्टगृहा चैव गोशकृत्कृतलेपना॥ 12 ॥
श्वश्रूश्वशुरयोः पादौ तोषयन्ती पतिव्रता।
मातापितृपरा नित्यं या नारी सा प्रतिव्रता॥ 13 ॥
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः।
पत्युर्गतिसमा नास्ति दैवतं वा यथा पतिः॥ 14 ॥
बालया वा युवत्या वा वृद्धया वापि योषिता।
न स्वातन्त्र्येण कर्तव्यं किञ्चित्कार्यं गृहेष्वपि॥ 15 ॥
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाष्युपोषणम्।
पतिं शुश्रूषते येन तेन स्वर्गे महीयते॥ 16 ॥
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा।
पतिलोकमभीप्सन्ती नाचरेत् किञ्चिदप्रियम्॥ 17 ॥
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया॥ 18 ॥
जीवति जीवति नाथे मृते मृता या मुदा युता मुदिते।
सहजस्नेहरसाला कुलवनिता केन तुल्या स्यात्॥ 19 ॥
प्रतिरजनि प्रतिदिवसं विहर बहिश्चण्डि डिण्डिमं दत्त्वा।
कोणवधूदृग्वलितैर्विश्वं पुनराकुलीभवति॥ 20 ॥
दीपदशा कुलयुवती वैदग्ध्येनैव मलिनतामेति।
दोषा अपि भूषायै गणिकायाः शशिकलायाश्च॥ 21 ॥
प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः।
अन्यरुदितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम्॥ 22 ॥
तल्पे प्रभुरिव गुरुरिव मनसिजशास्त्रे श्रमे भुजिष्येव।
गेहे श्रीरिव गुरुजनपुरतो मूर्तेव सा व्रीडा॥ 23 ॥
ढक्कामाहत्य मदं वितन्वते करिण इव चिरं पुरुषाः।
स्त्रीणां करिणीनामिव मदः पुनः स्वकुलनाशाय॥ 24 ॥
अकरुण कातरमनसा दर्शितनीरा निरन्तरालेयम्।
त्वामनुधावति विमुखं गङ्गेव भगीरथं दृष्टिः॥ 25 ॥
परपतिनिर्दयकुलटाशोषित शठ नेर्ष्यया न कोपने।
दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य॥ 26 ॥
कार्येषु मन्त्री करणेषु दासी भोज्येषु माता शयनेषु रम्भा।
धर्मानुकूला क्षमया धरित्री भार्या च षाङ्गुण्यवतीह दुर्लभा॥ 27 ॥
बहिर्न लोला दृगपाङ्गमूलादुपैति कूलादिव सागरोर्भिः।
न वा सतीनामभिलाषबन्धं व्यनक्ति गन्धं कलिकेव चेतः॥ 28 ॥
लज्जावशावनतमन्थरदृष्टिपातं यैश्चुम्बितं कुलवधूवदनारविन्दम्।
तेषामनेकपुरुषव्रणिताधरेषु सक्तिः कथं भवति वेशवधूमुखेषु॥ 29 ॥
नातःपरं कुलमतः परतो न शीलं नातः परं च करुमासदनं मृगाक्ष्याः।
यद्बाष्पबिन्दुरपराधवतोऽपि पत्युरुत्सङ्गितेन चरणेन तयापनिन्ये॥ 30 ॥
मानाग्निवर्धनमहौषधमेतदेव स्त्रीणां सपत्नवनिताह्वयकीर्तनं यत्।
अव्याजनिर्भरभयप्रणतोत्तराणां मन्ये विशेषत इदं कुलकन्यकानाम्॥ 31 ॥
पदन्यासो गेहाद्बहिर3हिफणारोपणसमो निजा4वासादन्यद्भवनमपरद्वीपतुलितम्।
वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः पुमानन्यः 5कान्ताद्विधुरिव चतुर्थीसमुदितः॥ 32 ॥

चतुर्थेऽह्नि स्नातां त्रिदिनविरहात्पाण्डुवनां रजोमुक्तां तन्वीं चपलनयनां कामकलिताम्।
हिमत्वङ्मार्जारीमलयभवगन्धप्रणयिनीमधन्यः को भुङ्क्ते च्युतकुसुमशेषामिव लताम्॥ 33 ॥
गतागतकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनतभ्रुवामधर एव विश्राम्यति।
वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः कदाचिदपि चेत्तदा मनसि केवलं मज्जति॥ 34 ॥
भक्तिः प्रेयसि6 संश्रितेषु7 करुणा श्वश्रूषु नम्रं शिरः प्रीतिर्यातृषु गौरवं गुरुजने 8क्षान्तिः 1कृतागस्यपि।
2अम्लाना कुलयोषितां व्रतविधिः सोऽयं विधेयः पुनर्मद्भर्तुर्दयिता इति प्रियसखीबुद्धिः सपत्नीष्वपि॥ 35 ॥

अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता तत्पादार्पितदृष्टिरासनविधस्तस्योप9चर्या स्वयम्।
सुप्ते तत्र शयीत तत्प्रथमतो 10जह्याच्च शय्यामिति प्राच्यैः पुत्रि निवेदितः कुलवधूसिद्धान्तधर्मागमः॥ 36 ॥

शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥ 37 ॥
निर्व्याजा दयिते ननान्दृषु नता श्वश्रूषु भक्ता भव स्निग्धा बन्धुषु वत्सला परिजने स्मेरा सपत्नीष्वपि।
भर्तुर्मित्रजने सनम्रवचना खिन्ना च तद्वैरिषु प्रायः सम्वननं नतभ्रु तदिदं वीतौषधं भर्तृषु॥ 38 ॥
स्नानाम्भो बहु साधिता रसवती देवाग्निकार्योचितः सम्भारो रचितो विशुद्धवसने कालोचिते योजिते।
स्नानं नाथ विधीयतामतिथयः सीदन्ति नान्या त्वरा धन्यं बोधयते शनैरिति पतिं मध्याह्नसुप्तं सती॥ 39 ॥
सञ्चारो रतिमन्दिरावधि सखीकर्णावधि व्याहृतं चेतः कान्तसमीहितावधि महामानोऽपि मौनावधि।
हास्यं चाधरपल्लवावधिपदन्यासावधि प्रेक्षितं सर्वं सावधि नावधिः कुलभुवां प्रेम्णाः परं केवलम्॥ 40 ॥
शुश्रूषामनुरुन्धती गुरुजने वाक्ये ननान्दुः स्थिता दाक्षिण्यैकपरायणा परिजने स्निग्धा सपत्नीष्वपि।
सन्नद्धातिथिसत्कृतौ गृहभरे नैस्तन्द्यमाबिभ्रती वत्से किं बहुना भजस्व कुशलं भर्तुः प्रिये जाग्रती॥ 41 ॥


  1. पवित्रा. ↩︎ ↩︎ ↩︎

  2. लक्ष्मीः. ↩︎ ↩︎

  3. पक्वान्नम्; [पक्षे] बालकः. ↩︎ ↩︎

  4. सौन्दर्यपूर्णम्. ↩︎ ↩︎

  5. सद्व्यवहारचतुरम्. ↩︎ ↩︎

  6. प्रेमबहुलम्. ↩︎ ↩︎

  7. मधुरभाषि. ↩︎ ↩︎

  8. पत्नी. ↩︎ ↩︎

  9. पूजा. ↩︎

  10. त्यजेत्. ↩︎