७६ स्त्रीस्वभावनिन्दा

1अनृतं साहसं 2माया मूर्खत्वमतिलोभता।
अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः॥ 1 ॥

स्त्रियो ह्यकरुणाः क्रूरा 3दुर्मर्षाः प्रियसाहसाः।
घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत॥ 2 ॥

स्त्रियो हि नाम खल्वेता 4निसर्गादेव पण्डिताः।
पुरुषाणां तु पाण्डित्यं शास्त्रेणैवोपदिश्यते॥ 3 ॥

5विधाया(लीकविश्रम्भमज्ञेषु त्यक्तसौहृदाः।
नवं नवमभीप्सन्त्यः 6पुश्चल्यः 7स्वैरवृत्तयः॥ 4 ॥

8जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम्।
हृदये चिन्तयन्त्यन्यं प्रियः को नाम योषिताम्॥ 5 ॥

स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा।
साहस्रं षङ्गुणं चैव कामश्चाष्टगुणः स्मृतः॥ 6 ॥
अन्तःक्रूराः सौम्यमुखा अगाधहृदयाः स्त्रियः।
अन्तर्विषा बहिःसौम्या भक्ष्या विषकृता इव॥ 7 ॥
9कामनाम्ना किरातेन वितता मूढचेतसाम्।10
11नार्यो नरविहङ्गानामङ्गबन्धनवागुराः12॥ 8 ॥

दर्शनाद्ग्रसते चित्तं स्पर्शनाद्ग्रसते धनम्।
13सङ्गमाद्ग्रसते सत्त्वं नारी प्रत्यक्षराक्षसी॥ 9 ॥

चतुरः सृजतः पूर्वमुपायास्तेन वेधसा।
न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः॥ 10 ॥
स्त्रियस्तु यः कामयते सन्निकर्षं च गच्छति।
ईषत्प्रकुरुते सेवां तं तमिच्छन्ति योषितः॥ 11 ॥
स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः।
तेन नारद नारीणां सतीत्वमुपजायते॥ 12 ॥
यो मोहान्मन्यते मूढो रक्तेयं मम कामिनी।
स तस्या वशगो नित्यं भवेत्क्रीडाशकुन्तवत्॥ 13 ॥
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा॥ 14 ॥
नासां कश्चिदगम्योऽस्ति नासां च वयसि स्थितिः।
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते॥ 15 ॥
रक्तोऽभिजायते भोग्यो नारीणां शाटको यथा।
घृष्यते यो दशालम्बी नितम्बे विनिवेशितः॥ 16 ॥
अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा।
अबलाभिर्बलाद्रक्तः पादमूले निपात्यते॥ 17 ॥
शम्बरस्य च या माया या माया नमुचेरपि।
बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः॥ 18 ॥
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि।
अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगतः॥ 19 ॥
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः।
स्त्रीबुद्ध्या न विशेष्येत तस्माद्रक्ष्याः कथं हि ताः॥ 20 ॥
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम्।
इति यास्ताः कथं धीरैः सम्रक्ष्याः पुरुषैरिह॥ 21 ॥
अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः।
गुञ्जाफलसमाकारा योषितः केन निर्मिताः॥ 22 ॥
यदि स्यात् पावकः शीतः प्रोष्णो वा शशलाञ्छनः।
स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः॥ 23 ॥
या भार्या दुष्टचरिता सततं कलहप्रिया।
भार्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा॥ 24 ॥
तस्मात् सर्वप्रयत्नेन नामापि परिवर्जयेत्।
स्त्रीणामिह हि सर्वासां य इच्छेत् सुखमात्मनः॥ 25 ॥
के नाम न विनश्यन्ति मिथ्याज्ञानान्नितम्बिनीम्।
रम्यां बुद्ध्वोपसर्पन्ति ये ज्वालां शलभा इव॥ 26 ॥
यदन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्बहिः।
यद्बहिस्तन्न कुर्वन्ति विचित्रचरिताः स्त्रियः॥ 27 ॥
ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः।
न वशं योषितो यान्ति न दानैर्न च संस्तवैः॥ 28 ॥
आस्तां तावत्किमन्येन दौरात्म्येनात्र योषिताम्।
विधृतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकम्॥ 29 ॥
रूक्षायां स्नेहसम्भारं कठोरायां सुमार्दवम्।
नीरसायां रसं बालो बालिकायां विकल्पयेत्॥ 30 ॥
भोजनाच्छादने दद्यादृतुकाले च सङ्गमम्।
भूषणाद्यं च नारीणां न ताभिर्मन्त्रयेत् सुधीः॥ 31 ॥
यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता।
राजन्निर्मूलतां याति तद्गृहं भार्गवोऽब्रवीत्॥ 32 ॥
तावत् स्यात् सुप्रसन्नास्यस्तावद्गुरुजने रतः।
पुरुषो योषितां यावन्न शृणोति वचो रहः॥ 33 ॥
एताः स्वार्थपरा नार्यः केवलं स्वसुखे रताः।
न तासां वल्लभः कोऽपि सुतोऽपि स्वसुखं विना॥ 34 ॥
यदि स्याच्छीतलो वह्निश्चन्द्रमा दहनात्मकः।
सुस्वादः सागरः स्त्रीणां तत्सतीत्वं प्रजायते॥ 35 ॥
सङ्गतानि मृगाक्षीणां तडिद्विलसितान्यपि।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम्॥ 36 ॥
उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते।
राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह॥ 37 ॥
न लज्जा न विनीतत्वं न दाक्षिण्यं न भीरुता।
प्रार्थनाभाव एवैकः सतीत्वे कारणं स्त्रियाः॥ 38 ॥
न दानेन न मानेन नार्जवेन न सेवया।
न शस्त्रेण न शास्त्रेण सर्वथा विषणाः स्त्रियः॥ 39 ॥
सुरूपं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम्।
योनिः क्लिद्यति नारीणामामपात्रमिवाम्भसा॥ 40 ॥
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम्॥ 41 ॥
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः।
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद॥ 42 ॥
समयज्ञानर्थवतः प्रतिरूपान्वशे स्थितान्।
पतीनां नटमासाद्य नालं नार्यः प्रतीक्षितुम्॥ 43 ॥
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन।
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु॥ 44 ॥
माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा न माद्यति।
यस्मादृष्टिमदा नारी तस्मात् तां परिवर्जयेत्॥ 45 ॥
यौवने वर्तमानानां मृष्टाभरणवाससाम्।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः॥ 46 ॥
या हि शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः॥ 47 ॥
पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता जनाः।
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन् महामुने॥ 48 ॥
अलाभात्पुरुषाणां हि भयात्परिजनस्य च।
वधबन्धभयाच्चैव तथा गुप्ता हि योषितः॥ 49 ॥
लोकानामपि दातारं कर्तारं मानसान्त्वयोः।
रक्षितारं न मृष्यन्ति भर्तारं परमस्त्रियः॥ 50 ॥
न कामभोगान्बहुलान्नालङ्कारार्थसञ्चयान्।
तथाहि बहु मन्यन्ते यथा रत्याः परिग्रहम्॥ 51 ॥
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो।
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजन्ति ताः॥ 52 ॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनः।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम्॥ 53 ॥
यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः।
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत्॥ 54 ॥
यस्य जिह्वासहस्रं स्याज्जीवेत् साग्रशतं च यः।
अनन्यकर्मा स्त्रीदोषान्सोऽप्यनुक्त्वा लयं व्रजेत्॥ 55 ॥
न विषेण न शस्त्रेण नाग्निना न च मृत्युना।
1अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः॥ 56 ॥

नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम्।
रमयति सुरतेनान्यं स्त्रीबहुरूपा निजा कस्य॥ 57 ॥
स्त्रीषु न रागः कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति।
रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या॥ 58 ॥
हृदयं हरन्ति नार्यो मुनेरपि भ्रूकटाक्षविक्षेपैः।
दोर्मूलनाभिदेशं प्रदर्शयन्त्यो महाचपलाः॥ 59 ॥
सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन चेतसा।
मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम्॥ 60 ॥
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते।
पुरुषैः सुखलेशवञ्चितैर्मधुलुब्धैः कमलं यथालिभिः॥ 61 ॥
गुणाश्रयं कीर्तियुतं च कान्तं पतिं विधेयं सधनं रतिज्ञम्।
विहाय शीघ्रं वनिता व्रजन्ति नरान्तरं शीलगुणादिहीनम्॥ 62 ॥
1समुद्रवीचीव चलस्वभावाः सन्ध्याभ्रलेखेव मुहूर्तरागाः।2
स्त्रियो हृतार्थाः पुरुषं निरर्थं निष्पी3डितालक्तकवत्त्यजन्ति॥ 63 ॥

स्त्रियो हि मूलं निध4नस्य पुंसः स्त्रियो हि मूलं 5व्यसनस्य पुंसः।
स्त्रियो हि मूलं नरकस्य पुंसः स्त्रियो हि मूलं कलहस्य पुंसः॥ 64 ॥

अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति।
श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि॥ 65 ॥
अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति।
अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते॥ 66 ॥
नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद्बलं स्त्रीषु विवर्धमानम्।
अतिप्रसक्तैः पुरुषैर्यतस्ताः क्रीडन्ति काकैरिव लूनपक्षैः॥ 67 ॥
कुर्वन्ति तावत् प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम्।
ज्ञात्वाथ तं मन्मथपाशबद्धं ग्रस्तामिषं मीनमिवोद्धरन्ति॥ 68 ॥
संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति।
एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति॥ 69 ॥
स्त्रीणामशिक्षितपटुत्वममानुषीणां ….
3
5
.
52
.श्यते किमुत याः परिबोधवत्यः।
प्रागन्तरिक्षगमनात्स्वमपत्यजातमन्यद्विजैः परभृताः किल पोषयन्ति॥ 70 ॥
6अनङ्कुरितकूर्चकः स तु 7सितोपलाढ्यं पयः स एव धृतकूर्चकः सलवणाम्बुतक्रोपमः।
स एव सित8कूर्चकः क्वथितगुग्गुलूद्वेगकृद्भवन्ति हरिणीदृशां प्रियतमेषु भावास्त्रयः॥ 71 ॥

शृणु हृदय रहस्यं यत्प्रशस्तं मुनीनां न खलु न खलु योषित् सन्निधिः सम्विधेयः।
हरति हि हरिणाक्षी क्षिप्रमक्षिक्षुरप्रैः पिहितशमतनुत्रं चित्तमप्युत्तमानाम्॥ 72 ॥
शास्त्रज्ञोऽपि प्रकटविनयोऽप्यात्मबोधेऽपि गाढं संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम्।
येनैतस्मिन्निरयनगरद्वारमुद्धाटयन्ती वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव॥ 73 ॥
अपसरत रे दूरादस्मात्कटाक्षविषानलात्प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः।
इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैश्चटुलवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः॥ 74 ॥
स्वातन्त्र्यं पितृमन्दिरे च वसतिर्यात्रोत्सवे सङ्गतिर्गोष्ठीपूरुषसन्निधाननियमो वासो विदेशे तथा।
संसर्गः1 सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः पत्युर्वार्धकमीप्सितं 2प्रवसनं नाशस्य हेतुः स्त्रियः॥ 75 ॥

अग्राह्यं हृदयं तथैव वदनं यद्दर्पणान्तर्गतं 3भावः 4पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते।
चित्तं 5पुष्करपत्त्रतोयतरलं विद्वद्भिराशंसितं नारी नाम विषाङ्कुरैरिव लतादोषैः समं वर्धिता॥ 76 ॥

एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः।
दूरोदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वामभ्रुवाम्॥ 77 ॥
कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे दृश्यते कौटिल्यं कचसञ्चये प्रवचने मान्द्यं त्रिके स्थूलता।
भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये यासां दोषगणो गुणा मृगदृशां ताः किं नराणां प्रियाः॥ 78 ॥
भर्ता यद्यपि नीतिशास्त्रनिपुणो विद्वा6न्कुलीनो युवा दाता कर्णसमः प्रसिद्धविभवः शृङ्गारदीक्षागुरुः।
स्वप्राणाधिककल्पिता स्ववनिता स्नेहेन संलालिता तं कान्तं प्रविहाय सैव युवती जारं पतिं वाञ्छति॥ 79 ॥

आलापैर्मधुरैश्च काश्चिदपरानालोकितैः सस्मितैरन्यान्विभ्रमकल्पनाभिरितरानह्गैरनङ्गोज्ज्वलैः।
आचारैश्चतुरैः परानभिनवैरन्यान्भ्रुवः कम्पनैरित्थं काश्चन रञ्जयन्ति सुदृशो मन्ये मनस्त्वन्यथा॥ 80 ॥
हासस्तूत्कलिकाप्रदीपनपटुर्हस्ताङ्घ्रिनेत्राननं तन्वङ्ग्या विषजातमेव भुजगी वेणी च रोमावलिः।
किं च श्रीफलमुन्नतस्तनभरः कामं मनस्तामिमां सर्वाकारविषोग्रमूर्तिमबलां प्राप्यापि यज्जीवति॥ 81 ॥
मुक्ताहारलता रणन्मणिमया हैमास्तुलाकोटयो रागः कुङ्कुमसम्भवः सुरभयः पौष्प्यो विचित्राः स्रजः।
वासश्चित्रदुकूलमल्पमतिभिर्नार्यामहो कल्पितं बाह्यान्तः परिपश्यतां तु निरयो नारीति नाम्ना कृतः॥ 82 ॥
आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम्।
दुर्गाह्यं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्डं स्त्रीयन्त्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम्॥ 83 ॥


  1. असत्यम्. ↩︎ ↩︎ ↩︎ ↩︎

  2. कपटम्. ↩︎ ↩︎ ↩︎

  3. दुःसहाः. ↩︎ ↩︎ ↩︎

  4. स्वभावतः. ↩︎ ↩︎ ↩︎

  5. कपटविश्वासम्. ↩︎ ↩︎ ↩︎

  6. जारिण्यः. ↩︎ ↩︎ ↩︎

  7. स्वेच्छावृत्तयः. ↩︎ ↩︎

  8. सह. ↩︎ ↩︎

  9. भिल्लेन. ↩︎

  10. प्रसृताः. ↩︎

  11. नरा एव विहङ्गाः पक्षिणस्तेषाम्. ↩︎

  12. पाशाः. ↩︎

  13. बलम्. ↩︎