पुण्याग्नौ पूर्णावाञ्छः प्रथममगणितप्लोषदोषः प्रदोषे पान्थः सुप्त्वा यथेच्छं तदनु च सतृणे धामनि ग्रामदेव्या-।
उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रे वाते वाति प्रकामं हिमकणनिकणन् कोणतः कोणमेति॥ 20 ॥
सम्विष्टो ग्रामदेव्या कुटघटितकुटीकुड्यकोणैकदेशे शीते सम्वाति वायौ हिमकणिनि रणद्दन्तपङ्क्तिद्वयाग्रः।
पान्थः कन्थां निशीथे परिकुथितजरत्तन्तुसन्तानगुर्वीं ग्रीवापादाग्रजानुग्रहणचटचटत् कर्पटां प्रावृणोति॥ 21 ॥
आरात्कारीषवह्नेर्विविधचिततृणप्रस्तरान्तर्निषण्णैः संशीर्णग्रन्थिकन्थाविवरवशविशच्छीतवाताभिभूतैः।
नीताः कृच्छ्रेण पान्थैः श्वभिरिव निबिडं जानुसङ्चोककुब्जैरन्तर्दुर्वारदुःखद्विगुणतरकृता यामयामास्त्रियामाः॥ 22 ॥