केशानाकुलयन्दृशौ मुकुलयन्वासो बलादाक्षिपन्नातन्वन्पुलकोद्गमं प्रकटयन्नावेगकम्पं गतेः।
वारं वारमुदारसीत्कृतिभरैर्दन्तच्छदं पीडयन् प्रायः शैशिर एष सम्प्रति मरुत् कान्तासु कान्तायते॥ 18 ॥
चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः।
ऊरूनाकम्पयन्तः पृथुजघनतटात् स्रंसयन्तोंऽशुकानि व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः॥ 19 ॥