न पाणिप्रच्छाद्यं नयनयुगमत्यायतमिदं नितम्बस्यौदार्यात्त्वरितगतियोगोऽप्यसुलभः।
अतिस्वल्पौ पाणी स्तनभरनिरोधान्न मिलितौ निमीलक्रीडायां कलुषयति मुग्धे किमिति नः॥ 16 ॥
नैतस्याः प्रसृतिद्वयेन सरले शक्ये पिधातुं दृशौ सर्वत्रैव विलोक्यते मुखशशिज्योत्स्नावितानैरियम्।
इत्थं बालतया सखीभिरसकृद्दृङ्मीलनाकेलिषु व्याषिद्धा रजनीमुखे च नयने स्वे गर्हते कन्यका॥ 17 ॥