०१ शिशिरसमयस्वभावाख्यानम्

कारणोत्पन्नकोपोऽपि साम्प्रतं प्रमदाजनः।
निशि शीतापदेशेन गाढमालिङ्गति प्रियम्॥ 2 ॥
एते समुल्लसद्भासो राजन्ते कुन्दकोरकाः।
शीतभीता लताकुन्दमाश्रिता इव तारकाः॥ 3 ॥
अंशुकमिव शीतभयात्संस्त्यानत्वच्छलेन हिमधवलम्।
अम्भोभिरपि गृहीतं पश्यत शिशिरस्य माहात्म्यम्॥ 4 ॥
आचुम्ब्य बिम्बाधरमङ्गवल्लीमालिङ्ग्य संस्पृश्य कपोलपालिम्।
श्रीखण्डमादाय करेण कान्तः सन्त्रासयामास सरोरुहाक्षीम्॥ 5 ॥
तपनस्तपति स्म मन्दमन्दं ज्वलनोऽपि ज्वलति स्म किञ्चिदेव।
शरणं शिशिरेऽथ किं च यूनां युवतीनां स्तनयुग्ममात्रमासीत्॥ 6 ॥
कुसुमयन्फलिनीरलिनीरवैर्मदविकासिभिराहितहुंकृतिः।
उपवनं निरभर्त्सयत प्रियान् वियुवतीर्युवतीः शिशिरानिलः॥ 7 ॥
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि।
तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमहानिकरोऽभवत्॥ 8 ॥
अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुदभूद्दिशः॥ 9 ॥
शिशिरमासमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः।
इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः॥ 10 ॥
अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः।
स्फुटमिति प्रसवेन पुरो हसत् सपदि कुन्दलता दलतालिनः॥ 11 ॥
द्वारं गृहस्य पिहितं शयनस्य पार्श्वे वह्निर्ज्वलत्युपरि तूलपटो गरीयान्।
अङ्गानुकूलमनुरागवशं कलत्रमित्थं करोति किमसौ स्वपतस्तुषारः॥ 12 ॥
वह्नेः शक्तिर्जलमिव गता दर्शनाद्दाहवृत्तेर्नित्योद्गन्धे नवमरुवके वर्तते पुष्पकार्यम्।
शीतत्रासं दधदिव रविर्याति सिन्धोः कृशानुः शीतैर्भीता इव च दिवसाः साम्प्रतं सङ्कुचन्ति॥ 13 ॥
पीनोत्तुङ्गपयोधराः परिलसत् सम्पूर्णचन्द्राननाः कान्ता नैव गृहे गृहे न च दृढं जात्यं न काश्मीरजम्।
ताम्बूलं न च तूलिका न च पटी तैलं न गन्धाविलं सद्यो गोघृतपाचिता न वटकाः शीतं कथं गम्यते॥ 14 ॥
चुल्लीसीमनि गोरसार्द्रमशनं भुक्त्वा परीतोऽर्भकैरभ्याशे स्वकृषीक्षुयन्त्रनिनदं हर्षात्समाकर्णयन्।
शेते संहतगोगणोष्मपि गृहे स्रस्ताम्बरां गेहिनीमालिङ्ग्यागणयन्निशासु तुहिनं प्रोड्डामरः पामरः॥ 15 ॥