+७४ हेमन्तवर्णनम्

हेमन्तहिमनिस्पन्दमवलोक्य मनोभवम्।
प्रहर्तुं सुभ्रुवां चेतो रविर्देवो धनुर्दधौ॥ 1 ॥
दुराशेव दरिद्रस्य तृष्णेव कृपणस्य च।
अहो न विरमत्येषा हन्त हेमन्तयामिनी॥ 2 ॥
हेमन्ते बहुदोषाढ्ये द्वौ गुणौ सर्वसम्मतौ।
अयत्नशीतलं वारि सुरतं स्वेदवर्जितम्॥ 3 ॥